संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
सापिण्ड्यप्रकारं

धर्मसिंधु - सापिण्ड्यप्रकारं

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथसापत्नमातृकुलेसापिण्ड्यप्रकारंसमंतुराह पितृपत्न्यःसर्वामातरः तद्भांतरोमातुलाः

तद्भगिन्योमातृष्वसारः तद्‌दुहितरश्चभागिन्यः तदपत्यानि भागिनेयानि अन्यथासंकरकारिणःस्युरिति

अत्रलक्षणयासापत्नमातृकुले चतुःपुरुषसापिंड्यंविवाहनिषेधायविधीयतइतिकेचित

अपरेतुविवाहमात्रविषयत्वेमानाभावादाशौचादिविषयकत्वस्यापिसंभवात्

यावद्वाचनिकंप्रमाणमितिन्यायेनपरिगणितेष्वेवसापिण्ड्यैतिवदन्ति तथाचसुमन्तुवाक्ये

वाक्यभेदाश्रयणेनैवंवाक्यार्थाः पर्यवस्यन्ति पितृपत्न्यःसर्वामातरइतिप्रथमवाक्येसापत्नमातरिमुख्यमातृवत्

संमाननंतद्वधेमातृवधप्रायश्चित्तंतद्गमनेमातृगमनप्रायश्चित्तादिकंचातिदिश्यते नात्रातिक्रान्तविषयेदशाहाशौचातिदेशः

त्रिरात्रविधिनाबाधात तद्भातरोमातुलाइत्यत्रमातुलत्वप्रयुक्तमाशौचादिकंमातुलस्यस्वभगिनीसपत्न्याःकन्योद्वाहनिषेधश्च

अत्रमातुलत्वातिदेशेपिनतत्पुत्रादिषुमातुलपुत्रत्वाद्यतिदेशः तेनबन्धुत्रयत्वप्रयुक्तमाशौचंन्न

मातुलकन्यादौविवाहविधिनिषेधावपिन एवंमातुलकन्यादौ पितृर्भगिनीत्वातिदेशाभावेनतत्पुत्रं

प्रत्यपिपितृष्वसृत्वाद्यतिदेशोनभवति तद्भगिन्योमातृश्वसार इत्यत्राशौचंविवाहनिषेधश्च

मातृष्वसृपुत्रेबन्धुत्रयत्वंचन सापत्नमातृष्वसृकन्याविवाहानिषेधस्तुविरुद्धसंबन्धत्वादेववक्ष्यते

तदपत्यानिभगिन्य इत्यत्राशौचंसंमाननादिकंच नात्र विवाहप्रसक्तिः सगोत्रत्वात

अत्रसापत्नमातुलसापत्नश्चातृसापत्नमातृष्वसृसापत्नभगिनीनांस्वमातुलसोदरश्चात्राद्यनन्तरंतर्पणंमहालयादआवुद्देशोप्यतएववचनादावश्यकइतिभाति

तदपत्यानिभागिनेयानिइत्यत्राशौचं विवाहनिषेधश्च भागिनेयीत्वातिदेशेपितत्कन्यासुभागिनेयीकन्यात्वातिदेशोन

यावदुक्तं प्रमाणर्मितिन्यायादितिदिक्‍ ॥

क्वचित्सापिण्ड्याभावेपिवचनादविवाहः अविरुद्धसंबन्धामुपयच्छेत दंपत्योर्मिथः पितृमातृसाम्येविरुद्धसंबन्धः

यथाभार्यास्वसुर्दुहितापितृव्यपत्नीस्वसाचेतिपरिशिष्टोक्तेः बौधायनः मातुःसपत्न्याभगिनींतत्सुतांचाचविवर्जयेत् ।

पितृव्यपत्नीभगिनीं तत्सुतांचाविवर्जयेत् । १ केचिज्ज्येष्ठभ्रातापितुःसमइत्युक्तेर्ज्येष्ठभ्रातृपत्न्याभगिनीमातृष्वसृतुल्यत्वान्न

विवाह्येत्याहुः यवीयसी स्वापेक्षयावयसावपुषाचन्यूनामुद्वहेत असमानार्षगोत्रजां आर्ष

प्रवरःस्वसमानेआर्षगोत्रेयस्यतज्जानभवतियातां असमानगोत्रामसमानप्रवरांचोद्वहेदित्यर्थः ।

N/A

References : N/A
Last Updated : May 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP