संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
अथोपनयनकालः

धर्मसिंधु - अथोपनयनकालः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


गर्भतोजन्मतोवापञ्चमेऽष्टमेवावर्षेब्राह्मणस्योपनयनम् एकादशेद्वादशेवाक्षत्रियस्य

द्वादशेषोडशेवावैश्यस्य षष्ठेतुधनकामस्यविद्याकामस्यसप्तमे अष्टमेसर्वकामस्यनवमेकान्तिमिच्छतः १

केचित्तुविप्रस्यषष्ठंनमन्यन्ते आषोडशादाद्वाविंशादाचतुर्विंशाच्च वर्षात्ब्राह्मणादेर्गौणकालः

अत्रगर्भादिःसंख्या तथाचजन्मतःपंचदशवर्षपर्यंतंविप्रस्यनविशेषतःप्रायश्चित्तम्

षोडशेवर्षेसशिखवपनमेकविंशतिरात्रंयावकाशनमन्तेसप्तब्राह्मणभोजनमितिप्रायश्चित्तम्

सप्तदशादिवर्षेषुकृच्छ्रत्रयादिप्रायश्चित्तपूर्वकमुपनयनंबोध्यम् विप्रक्षत्रिययोरुत्तरायणेमौञ्जीबन्धः

वैश्यस्यदक्षिणायनेपि वसन्तेब्राह्मणमुपनयीतग्रीष्मेराजन्यंशरदिवैश्यम्

माघादिशुक्रान्तकपञ्चमासाःसाधारणावासकलद्विजानामितिगर्गोक्तेर्वसन्तालाभेशिशिरग्रीष्मावपिग्राह्यौ

वसन्तविधिनोत्तरायनादिविधेःसंकोचायोगात् एवंमाघादिमासपञ्चकनियमात्पौषाषाढ्योः

सत्यप्युत्तरायणेउपनयंनकार्यम् तत्रापिमीनार्कमारभ्ययावन्मिथुनप्रवेशं प्रशस्तःकालः

मीनमेषयोस्तुप्रशस्ततरः मकरकुंभस्थेर्केमध्यमंमीनमेषस्थेउत्तमंवृषभ मिथुनस्थेऽधममुपनयनमित्याभिधानात्

मीनार्कविशिष्टश्चैत्रोऽनिष्टबृहस्पत्यादिबहुविधदोषापवादकतयाप्रशस्ततमः जीवभार्गवयोरस्तोसिंहस्थेदेवतागुरौ ।

चन्द्रसूर्येदुर्बलेपिगोचरेनिष्टदेगुरौ १ मेखलाबन्धनंकार्यचैत्रेमीनगतरेवावित्यर्थकस्मृतेः

अत्रगुरुशुक्रास्तदोषापवाद्तिमहासंकटविषयत्वान्नकथनीयः मीनार्क चैत्रेजन्ममासनक्षत्रदोषोनास्ति

जन्ममासजन्मनक्षत्रजन्मतिथिजन्मलग्नजन्मराशिलग्नेषुविप्रानामुपनयनंदोषाय

क्षत्रियवैश्ययोरप्रथमगर्भेदोषोन ज्येष्ठापत्यस्यज्येष्ठमासेमङ्गलंन

शुक्लपक्षःशुभःप्रोक्तःकृष्णश्चान्त्यत्रिकंविनेतिगुरूक्तेःकृष्णपक्षेदशमीपर्यन्तंसंकटेकार्यम्

शिष्टास्तुसंकटेपिकृष्णपक्षेपञ्चमीपर्यन्तमेवकुर्वन्ति ॥

N/A

References : N/A
Last Updated : May 16, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP