संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| सिंहलक्षणम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - सिंहलक्षणम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत सिंहलक्षणम् Translation - भाषांतर देवानां वाहनं सिंहं लक्षणं वक्ष्यतेऽधुनाउष्णीषात्खुरवर्यन्तं तुङ्गं पञ्चशराङ्गुलम् ॥१॥उष्णीषं द्व्यङ्गुलं तुङ्गं सप्ताङ्गुलं मुखायतम्उत्तरोष्ठं दशाङ्गुल्यं तस्मात्पाद रसाङ्गुलम् ॥२॥उत्तरान्तात्पुच्छमूलान्तमायामं पञ्चदशाङ्गुलम्पृष्ठपादं शराङ्गुल्यं दीर्घ युक्त्या प्रयोजयेत् ॥३॥मुखतारं कपोलान्तं नवमानं प्रशस्यतेकर्णमूलद्वयोरुक्तं मुखतारं विशालकम् ॥४॥तत्तुल्यं व्यालविस्तारं मुखतारं शराङ्गुलम्ललाटोच्चं शिवाङ्गुल्यं भ्रुवोच्चं तत्समं भवेत् ॥५॥अक्षितारोच्चमेकांशं नासिकामूल शिवांशकम्विस्तारं तत्समं स्यात्पुटमत्यर्धाङ्गुलं भवेत् ॥६॥नेत्रसूत्रादधो हृत्वा द्व्यङ्गुलं तत्प्रकीर्तितम्कुर्यायामं शरांशं स्यादुत्सेधं सार्धमात्रकम् ॥७॥अधरोष्ठमर्धमात्रं स्यात्तदूर्ध्वे अंशमवसानकम्अक्षिसूत्रादधोशरन्तमुत्तरोष्ठं प्रकल्पयेत् ॥८॥कपोलं च द्विमात्रं स्यात्कर्णायामं शिवाङ्गुलम्कर्णतारमर्धमात्रं स्यात् कर्णमूले तु तत्समम् ॥९॥दन्तदीर्घं शिवांशं स्यात्तदर्धं मूलविस्तृतम्अर्धचन्द्रा र्धवद् दन्तं संख्यया षट् कारयेत् ॥१०॥पुरमिति प्रोक्तमसृक् वातायनं भवेत्जिह्वायामं त्रिमात्रं स्यात्तद्विशालं शिवांशकं ॥११॥विशालार्धं घनं प्रोक्तं नासिकाघनं तत्समम्नेत्रयोर्मध्यविस्तारं शिवाङ्गुलं तत्कथ्यते ॥१२॥नासिमूले युगाग्रे च कर्णमूले कपोलकेपत्रवल्ल्यादिसंयुक्तं सिंहवक्त्रमिति स्मृतम् ॥१३॥वक्त्रस्य प्रदेशे तु भ्रमरं कुर्यात्सुधीर्बुधःलम्बकेशावृतं चैव स्तनयोरर्धांशदेशके ॥१४॥नवाङ्गुलं तु वक्षस्य विस्तारं परिकीर्तितम्त्रिमात्रं पादविस्तारं तलायामं शराङ्गुलम् ॥१५॥तारं त्रिमात्रं स्यादायाममर्धाङ्गुलायतम्व्याघ्रपादवदाकारं कुर्यात्पादचतुष्टयम् ॥१६॥पृष्ठतारं दशांशं स्यात्पृष्ठोत्सेधं पडङ्गुलम्शराङ्गुलं चोरुविस्तारं चोरुदीर्घं दशाङ्गुलम् ॥१७॥पञ्चांशं कुक्षिविस्तारं तत्समं घनमेव चसिंहोत्सेधसमं पुच्छं दीर्घ तारं शिवाङ्गुलम् ॥१८॥मूलाग्रार्धमात्रं स्यान्मूलाग्रक्षयं क्रमात्पुच्छाग्रे वलसंयुक्तमुक्षायामं त्रिमात्रकम् ॥१९॥मूलतारं शिवाङ्गुल्यमग्रतारं त्रिमात्रकम्लिङ्गायामं त्रिमात्रं स्यादर्धांशं लिङ्गविस्तृतम् ॥२०॥श्वेतवर्णनिभं सिंहं रक्तवर्णं च केसरम्अन्तस्थले तथैवास्यं कर्णन्तं तिथिरक्तयुक् ॥२१॥बालचन्द्र वदाकारं नख दन्ताकृति तथा ॥२२॥एवं प्रोक्तं सिंहरूपं जनानाम्देवानां कल्पयेद् वाहनं स्यात्मानं सर्वं चोक्तवद् गृह्यमेवम्शयनं वा स्थानकं चासनं वा ॥२३॥इति मानसारे वास्तुशास्त्रे सिंहलक्षणविधानं नाम त्रिषष्टितमोऽध्यायः N/A References : N/A Last Updated : October 07, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP