संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| अष्टतलविधानम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - अष्टतलविधानम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत अष्टतलविधानम् Translation - भाषांतर अष्टतलविमानस्य लक्षणं वक्ष्यतेऽधुनापूर्ववत्तुङ्गमानेन कुट्यमाद्यङ्गं मानयेत् ॥१॥पूर्ववद्भक्तिमानेन कूटशालादि मानयेत्भूकान्तं भूपकान्तं च स्वर्गकान्तं तथैव च ॥२॥महाकान्तं जनकान्तं च तपकान्तं सत्यकान्तकम्देवकान्तमिति प्रोक्तमष्टधा नाममेव च ॥३॥षोडशांशकमाधिक्यं भागं हर्म्यविशालकम्एकांशं कर्णकूटं स्याद्धारान्तर शिवांशकम् ॥४॥विभागेनानुशाला च तदर्धं चान्तरालकम्सप्तांशेन महाशाला हर्म्यमेतत्तु विन्यसेत् ॥५॥चतुष्कोणे चतुष्कूटं कोष्ठे हारादिरष्टधाक्षुद्र शालाष्टधा प्रोक्तं कोष्ठशाला चतुष्टयम् ॥६॥मध्यशालात्रिभागेन भद्र शाला च मध्यमेतत्तत्पार्श्वद्वयो द्विद्विभागार्ध शालयेत् ॥७॥एव मूलतलाद्यैश्च चोर्ध्वेऽर्ध्वतला न्यसेत्अथवाष्टादशांशे तु कूटहारा च पूर्ववत् ॥८॥षड्भागेन महाशाला चतुःशाला त्रिभागिकम्मध्यशालैर्युगांशेन भद्र शाला च मध्यमे ॥९॥अनुशाला च मध्ये च एकभागेन भद्र कम्शेषं पूर्ववत्कुर्याद् भूकान्तमुदीरितम् ॥१०॥एकोनविंशदंशेन चाष्टभूमिविशालकेएकैक कूटविस्तारं महाशाला शरंशकम् ॥११॥अनुशाला त्रिभागा वा भारान्तर द्विभागिकम्महाशाला त्रिभागेन भद्र शालाविशालता ॥१२॥शेषं प्रागुक्तवत्कुर्याद्देव भागाधिकं ततःमध्यशालाशराशेन युक्त्या तन्मध्यभद्र कम् ॥१३॥शेषं तु पूर्ववत्कुर्याद्भूपकान्तमिति स्मृतम्एवं चाष्टतले क्षुद्र हर्म्यमेवं प्रकल्पयेत् ॥१४॥एकविंशांशकं चाष्टतलहर्म्ये विशालकेमध्ये सप्ताष्टकं चैव महाशाला प्रकल्पयेत् ॥१५॥तन्मध्ये भूतभागेन मध्यशाला सभद्र कम्तद्बहिश्च त्रिभागेन भद्र शालाविभूषितम् ॥१६॥शेषं प्रागुक्तवत्कुर्यात्स्वर्गकान्तमिति स्मृतम्एवमष्टतलं कुर्यान्मध्यमालयमेव च ॥१७॥द्वाविंशांशकं तारे च श्रेष्ठमष्टतलं भवेत्तन्मध्ये चाष्टभागेन महाशालाविशालकम् ॥१८॥तन्मध्ये वेदभागेन कोष्ठशाला सभद्र कम्महाकान्तमिति प्रोक्तं तन्मध्ये च द्विभागतः ॥१९॥भद्र शालासमायुक्तं जनकान्तमिति स्मृतम्तच्छालाया द्विपार्श्वे तु नेत्रशाला सभद्र कम् ॥२०॥एतत्तु तपकान्तं स्याच्छेषं प्रागुक्तवन्नयेत्तदेव मध्यशाले तु तत्पार्श्वे च विशेषतः ॥२१॥एकैकं कूटविस्तारं तत्समं हारसंयुतम्एतत्तु सत्यकान्तं स्याच्छेषं पूर्ववदाचरेत् ॥२२॥तदेवमनुशाला च कुर्यान्मध्य सभद्र कम्देवकान्तमिति प्रोक्तं चोर्ध्वोर्ध्वतलं न्यसेत् ॥२३॥एवं श्रेष्ठं त्वष्टतले सर्वालङ्कारसंयुतम्जन्मादिस्तूपिपर्यन्तं चाङ्गमानमिहोच्यते ॥२४॥सैकाष्टपञ्चसैकांशं हर्म्ये तुङ्गं विभाजितेआधारं चाष्टभागेन वेदांशं चरणायुतम् ॥२५॥तदर्धं वलभ्युत्सेधं सार्धवह्न्यंशमङ्घ्रिकम्सत्रिपादांशकं मञ्चमूर्ध्वे पादं गुणांशकम् ॥२६॥तदर्धं चोर्ध्वमञ्चं स्यात्त्रिपादाक्षाङ्घ्रितुङ्गकम्सपादांशं प्रस्तरोत्तुङ्गं द्व्यर्धांशं चरणायुतम् ॥२७॥तदर्धं प्रस्तरोत्सेधं जङ्घायामं च सार्धकम्प्रस्तरं चैकभागेन द्व्यंशपादाधिकमङ्घ्रिकम् ॥२८॥ऊर्ध्वमञ्च त्रिपादं स्यात्सभागं पादतुङ्गकम्एकांशं प्रस्तरोत्सेधं तदूर्ध्वे च त्रिभागिकम् ॥२९॥तत्त्रिभागैकवेदिं स्याद्द्विभागं गलतुङ्गकम्सपादं चांशकं चोर्ध्वे शिर शेषं शिखोदयम् ॥३०॥केचित्तदेव तुङ्गे तु सप्तभागाधिकं तथाऊर्ध्वोर्ध्वपादमूले तु युक्त्यांशेन मसूरकम् ॥३१॥तलानां चैकभागेन कर्णहर्म्यावृता न्यसेत्अन्तर प्रस्तरोपेतं सर्वालङ्कारसंयुतम् ॥३२॥तस्यान्तस्यैकभागेन कुर्यादावृतालिन्दकम्मूले भागे पदांशेन चोर्ध्वोर्ध्वतलांशकम् ॥३३॥नेत्रशालार्धशाला च भद्र शालादिभूषितम्तोरणैस्तलशालादिनासिकाभिरलङ्कृतम् ॥३४॥कोष्टेशाला च मध्ये च चोर्ध्वशाला च मण्डितम्नासिकापञ्जराढ्यं च भद्र नास्यैरलङ्कृतम् ॥३५॥क्षुद्र शालाप्रदेशे तु सर्वालङ्कारसंयुतम्कर्णकूटाङ्गमध्ये तु नासिकापञ्जरान्वितम् ॥३६॥सर्वाङ्गं क्षुद्र नास्याङ्गं प्रस्तरालङ्कृतिक्रियानानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ॥३७॥नागरद्रा विडादीनां वेसरादीन् शिखान्वितम्सर्वालङ्कारसंयुक्तं पूर्ववत्परिकल्पयेत् ॥३८॥इति मानसारे वास्तुशास्त्रे अष्टतलविधानं नाम षड्विंशोऽध्यायः N/A References : N/A Last Updated : October 03, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP