संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| वास्तुप्रकरणम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - वास्तुप्रकरणम् 'मानसारम्' वास्तुशास्त्रावरील एक प्राचीन ग्रंथ आहे. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत वास्तुप्रकरणम् Translation - भाषांतर तैतलाश्च नराश्चैव यस्मिन्यस्मिन् परिस्थिताःतद्वस्तु सुरिभिः प्रोक्तां तथा वै वक्ष्यतेऽधुना ॥१॥धरा हर्म्यादि यानं च पर्यङ्कादि चतुर्विधम्धरा प्रधानवस्तु स्यात्तत्तज्जातिषु सर्वशः ॥२॥विमानादीनि वास्तूनि वस्तुतं वस्तुसंश्रयात्तान्येव वस्तुरे वेति कथितं वस्तुविद्बुधैः ॥३॥प्रासादमण्डपं चैव सभाशालाप्रपां तथारङ्गमिति चैतानि हर्म्यमुक्तं पुरातनैः ॥४॥आदिकं स्यन्दनं शिल्पि शिबिका च रथं तथासर्वैर्यानमिति ख्यातं शयनं वक्ष्यते तथा ॥५॥पञ्चरं मञ्चली मञ्चं काकाष्टं फलकासनम्तथैव बालपर्यङ्कं पर्यङ्कमिति कथ्यते ॥६॥प्रोक्तं चतुर्विधं चैवमधिकारं धरादिभिःआधारमपि भूतानामादित्याश्च जायते मही ॥७॥आकारवर्णगन्धैः च रूपशब्दरसास्पृशःएतान् परीक्ष्य क्रमशः सा भूमि माननिश्चया ॥८॥यासौ भूमिरसौ ग्राह्या द्विजातीनां पृथक् पृथक्तद्वस्तु चतुरश्रं च शुक्लवर्णेन संयुतम् ॥९॥उदुम्बरतरोर्युक्तमुत्तरप्रवणं तथामाधुर्यं च कषायं च ब्राह्मणानां शुभप्रदम् ॥१०॥विस्तारोष्टसमाधिक्यं रक्तवर्णेन संयुतम्पूर्वप्रवणमातिक्तमश्वत्थद्रुमसंयुतम् ॥११॥विस्तीर्णं भूभृतां योग्यं महि सम्पत्प्रदा भवेत्विस्तारे तु षडंशेन माधिकायाम पीतयुत् ॥१२॥प्लक्षद्रुमयुतं पूर्वं प्रवणमम्लरसान्वितम्वर्णजानां मही प्रोक्ता सर्वसिधिकरं शुभम् ॥१३॥चतुरंश विशाले तु चांशमाशाधिकमायतम्वटवृक्षयुतं कृष्णवर्णं च कटुकारसम् ॥१४॥वस्तु तत्पूर्वके निम्नं शूद्रा णां तु शुभप्रदम्तदुक्तं चोभयं मुख्यं मध्यमं चेति कथ्यते ॥१५॥मुख्यं भूमिरिति ख्यातं वस्त्वादीनि चतुःसमम्वस्तुभेदमिति प्रोक्तं द्विजात्यादिषु वर्णयेत् ॥१६॥सर्वं योग्यं द्विजातीनां सुराणां च विशेषतःभूपानां तद्विशां शूद्रैः! प्रागुक्तक्रमतो भवेत् ॥१७॥इति मानसारे वास्तुशास्त्रे वास्तुप्रकरणं नाम तृतीयोऽध्यायः N/A References : N/A Last Updated : October 01, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP