संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| दशतलविधानम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - दशतलविधानम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत दशतलविधानम् Translation - भाषांतर दशभूमिविधानं च लक्षणं वक्ष्यतेऽधुनाविशालोत्सेधभक्तिश्च दशभूम्यास्तु पूर्ववत् ॥१॥भूकान्तं चन्द्र कान्तं च भवनं चान्तरिक्षतःमेघकान्ताब्जकान्तं च एवं षड्विधमीरितम् ॥२॥एवं नामवशाद्धर्म्यविस्तारं परिकल्पयेत्भूकान्तं चन्द्र कान्तं दशतलहर्म्ये भागमानेन ॥३॥नवतलहर्म्यवशात्पुरोक्तवत्कूटशालादीन्क्षुद्र मध्यममेवं युक्त्या दशतले सङ्कल्प्य ॥४॥उक्तहर्म्यविशाले अष्टाविंशत्यंशकं कृत्वाएकैकं कूटविस्तारं मध्ये द्वादशकं तु शालभम् ॥५॥अनुशाला गुणांशेन तत्पार्श्वे द्विद्विभागेन हराःमहाशाला मध्यदेशे षड्भागेन भद्र संयुतम् ॥६॥एवं तु भवनं कान्तं श्रेष्ठं हर्म्य दशतले कुर्यात्तदेव सौष्ठिकविस्तारं हारानुशाला द्विद्विभागेन कुर्यात् ॥७॥पूर्ववच्छेषं चान्तरिक्षकान्तमिदमुदितम्तदेव शालापार्श्वे चैकं चैकेन सौष्ठिकहाराः ॥८॥षड्भागेन महाशाला चैतन्नाम्ना मेघकान्तं स्यात्तन्मध्ये चतुरंशेन शालाभद्र युक्तमब्जकान्तकम् ॥९॥शेषं पूर्ववदुद्दिष्टं कुर्याद्दशतलहर्म्यविस्तारेजन्मादिस्तूपिपर्यन्तं तुङ्गे गण्यं चाधुना वक्ष्यामः ॥१०॥तुङ्गे त्र्! यंशषष्ट्यंशं गुणांश मसूरकोत्तुङ्गम्तद्द्वयं पादतुङ्गं तदर्ध प्रस्तरोर्ध्वदेशे तु ॥११॥तदूर्ध्व पादतुङ्गं भूतं तदर्धं प्रस्तरोत्सेधंसार्धवेदांशकं पादमूर्ध्वमञ्चं द्वंशकं कुर्यात् ॥१२॥वेदांशं चाङ्घ्रितुङ्गं चार्धं प्रस्तरोत्सेधम्तद्द्वयमायिक पादं सार्धांशं प्रस्तमुत्तुङ्गम् ॥१३॥तदूर्ध्वाङ्घ्रि गुणांशं तदर्धमूर्ध्वमञ्चोच्चम्द्व्यर्धांश पादतुङ्गं सपादांशं प्रस्तरोत्तुङ्गम् ॥१४॥पादं द्वयमप्युच्च शिवांशं प्रस्तरमुत्सेधम्तद्द्वयं चोर्ध्वपादं तदर्धमूर्ध्वमञ्चतुङ्गं स्यात् ॥१५॥द्विभागं चोर्ध्वपादं चैकांशं चोपरि मञ्चं स्यात्तत्समं वेदिकोत्सेधं ग्रीवतुङ्गं कलांशकं स्यात् ॥१६॥वेदांशं शिखरोत्तुङ्गं शेषांशं शिखरोदयं कथितम्ऊर्ध्वे चोर्ध्वतले सर्वे कर्णहर्म्यादिमण्डितम् ॥१७॥एकभाग द्विभागं वा चान्तश्चावृतालिन्दकम्अधिष्ठानोपपीठे वा महावेद्यादिमेव व ॥१८॥ऊर्ध्वे चोर्ध्वतले कुर्यात्सर्वालङ्कारसंयुतम्नानालङ्करसर्वाङ्गं युक्त्या प्रागुक्तवन्नयेत् ॥१९॥पञ्जरं शिखरं पादं मसूरं प्रस्तरं वलभीतोरणनीडं कल्पयेत्दशतलाख्यविमाने चित्रकल्पमत्र महदल्पनासिकम् ॥२०॥इति मानसारे वास्तुशास्त्रे दशतलविधानं नाम अष्टाविंशोऽध्यायः N/A References : N/A Last Updated : October 03, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP