संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| अङ्गदूषणविधानम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - अङ्गदूषणविधानम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत अङ्गदूषणविधानम् Translation - भाषांतर आलयाद्यङ्गसर्वेषु हीनाधिक्यं भवेद्यदिराजराष्ट्रादिकर्तॄणां दोषप्राप्तिरिहोच्यते ॥१॥विस्तारे च समुत्सेधे उपाने च मसूरकेपादे च प्रस्तरे चैव वेदिकायां गले तथा ॥२॥शिखरे स्तूपिकायाश्च नासिकापञ्जरादिभिःद्वारे च भद्र देशे च मृणालादिषु देशके ॥३॥गर्भगेहे तले सर्वे सोपानादिषु सालकेगोपुरैः मण्डपाद्यैः च चान्तराले त्वलिन्द्र के ॥४॥प्रच्छादने प्रपाङ्गे च उपप्रान्ते तथोत्तरेभित्तिदेशे च भागे च सर्वाङ्गे च न दोषयुक् ॥५॥तस्मात्तु दोषसंप्राप्तिः शिल्पिदृष्टानि वारयेत्विस्तारे न्यूनं तत्मात्तु कर्तृदारिद्र य्मावहेत् ॥६॥तद्भूयोधिकमानं चेद् दारानाशो भवेद् ध्रुवम्आदितुङ्गविहीनं चेत्कर्तृव्याधिमतो विदुः ॥७॥तदेवाधिकमानं चेच्छत्रुवृद्धिर्न संशयःअन्तर्जन्म बहिर्जन्म निम्रमुन्नतया स्थितम् ॥८॥निर्वंशमेव तत्सर्वं कर्तृवंशं भवेद् ध्रुवम्तज्जन्मदेशमार्गे च निम्रोन्नतमथापि ते ॥९॥निर्गमोद्गमने वापि पुत्रनाशमवाप्नुयात्अधिष्ठानोत्तुङ्गहीनं स्यात्स्थाननाशं धनक्षयम् ॥१०॥वप्रादिवर्गसर्वेषु तन्मार्गे निम्नमुन्नतम्कर्तॄणां क्षयरोगः स्यात्तुङ्गेन करणेन च ॥११॥पादतुङ्गाधिकं हीनं गोत्रनाशं कुलक्षयम्प्रस्तरोत्तुङ्गहीनं चेद् विनश्योत्तत्क्षणादेव ॥१२॥तदेवाधिकं मानं चेत् प्रमाणं कर्तृनाशनम्वेदिकायां विहीनं चेत् कर्तुर्दृष्टिर्दीनं व्रजेत् ॥१३॥तत्कर्णेऽधिकहीनं चेद् भोजनेन विनाशनम्शिखराङ्गाधिकं हीनं कर्तुः स्यात्स्फोटनं शिरः ॥१४॥स्तूपिकमधिकं हीनं चेज्जनानां तु दरिद्र कम्नासिकाङ्गमधिकं हीनं चेत् कर्तृरोगं भविष्यति ॥१५॥पञ्जराद्यङ्गं हीनं चेदधिकं श्रीविनाशनम्द्वारे च भद्र देशे च मानहीनाधिकं तु चेत् ॥१६॥महारोगं भवेत्कर्तू राजाराष्ट्रं विनश्यतिमृणाल्यधिकहीनं चेत् कुक्षिरोगो भवेद् ध्रुवम् ॥१७॥जालकाधिकहीनं स्यात् श्रीहीनमर्थनाशनम्शुद्धगर्भगृहमाधिक्यं हीनं चेद् ग्रामनाशनम् ॥१८॥हर्म्यजन्म समारभ्य सालजन्म प्रदेशकम्उत्तमं मानयेन्मानं जालस्योन्नतनिम्नकम् ॥१९॥समन्ततो निम्नत्वमुन्नतत्वं प्रकारयेत्कृतमज्ञानतो वस्तु सर्वसंपद्विनाशनम् ॥२०॥प्राकारान्तप्रदेशं स्यात्परिवारालयादिकम्सालजन्मसमं चैव धाम्नोजन्मसमं तु वा ॥२१॥अथवा विपरीतं चेज्जनानां संपदं हरेत्सोपानमधिकं हीनं कर्ता पङ्गुर्भवेद् ध्रुवम् ॥२२॥सालाङ्गमधिकं हीनं चेच्चौरैरर्थं विनश्यतिगोपुराङ्गमधिकं हीनं सर्वनाशं न संशयः ॥२३॥मण्डपादि सभाशाला तत्तन्न्यूनाधिकं तु चेत्सर्वसंपद्विनाशाय राजा राष्ट्रं विनश्यति ॥२४॥अन्तर त्वलिन्द्रं वा हीनाधिक्यं प्रमाणकम्कर्तॄणां परिवारादि पुत्रपौत्रविनाशनम् ॥२५॥ऊर्ध्वतालस्य चाङ्गेषु मानं हीनाधिकं तु चेत्लोके भवेत्त्वनावृष्टिः स्वयं वृष्ट्या विनश्यति ॥२६॥प्रपाङ्गमधिकहीनं चेल्लोके दारिद्र मावहेत्लुपमानमधिकं हीनं सज्जनेन च प्रविनश्यति ॥२७॥अन्तश्चैव बहिश्चैव विपरीतोत्तरं तु चेत्विद्यावृद्धिविनाशं स्याद् बन्धुनाशं भवेत् ध्रुवम् ॥२८॥कुड्याङ्गमधिकहीनं चेद् विस्तारे चोदयेऽपिवाद्विजातिसर्ववर्णानां सर्वनाशकरं भवेत् ॥२९॥भित्तिश्रोण्यधिकं हीनं स्थाननाशं धनक्षयम्तत्रहीनाधिकं चेत्पादस्थानाङ्घ्रिकाश्रयम् ॥३०॥सर्वेषां भित्तिमानेषु तत्र दोषो न विद्यतेपादस्थानं विना भित्तिं सर्वदोषसमुद्भवम् ॥३१॥यत्तद्वास्तु यथा कुर्यात्तत्तदंशाधिकाङ्घ्रिकान्तथाङ्घ्रियोरन्यथा स्यात्तु पुत्रपौत्रविनाशनम् ॥३२॥उक्तवत्स्यादङ्घ्रिकांशं च कुर्यात्तच्छुभदं सदाऊहापोहादिकीर्तिभ्यां शास्त्रोक्ते तु यदा तथा ॥३३॥उहि हीना चोक्तहीनात्मधि कर्तृ विनश्यतितस्मात्तु शिल्पिविद्वद्भिः परिग्रहोक्तवत्कुरु ॥३४॥अङ्गहीनाधिकं दोषमेवमुक्तं पुरातनैः ॥३५॥प्रासाद मण्डप तथावरुणादिदेशेसाङ्गे च गोपुरपदे त्वपरेषु सर्वेदोषाधिकं यदि भवेत्त्वथवा गुणाधिकम्तन्मर्त्यदेवनृपतिष्वपि तत्फलं स्यात् ॥३६॥इति मानसारे वास्तुशास्त्रे अङ्गदूषणविधानं नाम ऊनसप्ततितमोऽध्यायः N/A References : N/A Last Updated : October 07, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP