संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| हंसलक्षणम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - हंसलक्षणम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत हंसलक्षणम् Translation - भाषांतर अथ वक्ष्ये त्रिमूर्तीनां वाहनानां तु लक्षणम्हंसस्य लक्षणं चैव गरुडस्य तु लक्षणम् ॥१॥वृषस्य लक्षणं चैव सिंहरूपस्य लक्षणम्पितामहोदयं वापि द्वित्रयांशैकमेव वा ॥२॥उत्तमादि त्रिधा प्रोक्तं हंसोदयमिति स्मृतम्द्वितालोत्तममानेन भागं हंसोदयं भवेत् ॥३॥वेदांशं शिरसो तुङ्गमष्टांशेन गलोदयम्रुद्रा शॐ! हृदयतुङ्गं स्यात्तस्याधोऽधोरुदीर्घकम् ॥४॥सत्रिपादांशकं जानुतुङ्गमेकांशमीरितम्ऊरुतुङ्गसमं जङ्घायामं पादोदयांशकम् ॥५॥मुखायामं त्रियंशं स्याच्छिरःपृष्ठे द्वयांशकम्मुखतारं युगांशं स्यान्मूलग्रावं शिवांशकम् ॥६॥अग्रमूलाग्रक्षयं तारं ग्रीवस्य द्विवक्त्रयुक्कुक्षिताराष्टमात्रं स्यादुरस्थानं तु तत्समम् ॥७॥तदुत्तरात्पुच्छमूलादायामं षोडशांशकम्अक्षतारं शराङ्गुल्यं पक्षायामाष्टमात्रकम् ॥८॥विस्तारं च द्विमात्रं स्यादग्रमेकाङ्गुलं भवेत्घनमेकाङ्गुलं चैव बाहुदीर्घाष्टमात्रकम् ॥९॥अंशेन कूर्परं स्यात्कराग्रायामं षडङ्गुलम्लाङ्गुलाकारहस्तौ च पक्षस्यान्तं प्रविष्टके ॥१०॥ऊरुमूलविशालं स्यात्सार्धद्व्यंशं सुवृत्तकम्अध्यर्धांशाग्रविस्तारं पादांशं जानुविस्तृतम् ॥११॥जङ्घायामं शिवांशं स्यात्तलतारं द्विमात्रकम्वरदो मध्यमाङ्गुल्ययामं तु युगांशकम् ॥१२॥तत्पार्श्वे द्विद्विमात्रं स्याद् द्विमात्रायां प्रशस्यतेपृष्ठे मूलाङ्गुलायामं द्विमात्रं तत्प्रशस्यते ॥१३॥पुरतो मात्रविस्तारं पृष्ठे च तत्सबन्धनम्अध्यर्धमङ्गुलतारं तदर्धमन्याङ्गुलानि च ॥१४॥आस्यायामं त्रिमात्रं स्याद् विस्तारं चैकमात्रकम्अक्षायाममर्धमात्रं स्याद् विस्तारं युक्तितो न्यसेत् ॥१५॥मुखायामे तु तन्मध्ये चाक्षं कुर्याद् विचक्षणःद्वियवं कर्णसूत्रं स्यादक्षायाममन्तरं भवेत् ॥१६॥शिरोर्ध्वे स्तूपितुङ्गं स्याद् द्व्यङ्गुलैकाङ्गुलं घनम्तदायामं षडङ्गुल्यं शिरःपृष्ठावसानकम् ॥१७॥विस्तारं तु युगाङ्गुल्यं शे युक्त्या प्रयोजयेत्सर्वाङ्गं धवलाकारं पादौ च रक्तवर्णयुक् ॥१८॥तदास्यं हेमवर्णाभं कुर्यात्तु ब्रह्मवाहनम्सर्वेषामपि मूर्तीनां दोलयानं च कल्पयेत् ॥१९॥एवं हंसे पुच्छके पत्रयुक्तम्पृष्ठे ग्रीवे स्तूपिकापत्रवल्यालम्बं कुक्षिरावृत्त पत्रैःसर्वैर्वर्णैरभिरामं संभूषम् ॥२०॥देवानां भूतैतिलानां नृपाणाम्हर्म्ये देशे प्रस्तरे चोत्तरोर्ध्वेकूटैर्नीडैः सर्वतो ग्रीवदेशेयुक्त्या कुर्यात् श्रेणिकाहंसं भूष्यम् ॥२१॥इति मानसारे वास्तुशास्त्रे वाहनविधाने हंसलक्षणं नाम षष्टितमोऽध्यायः N/A References : N/A Last Updated : October 07, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP