संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| नवतलविधानम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - नवतलविधानम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत नवतलविधानम् Translation - भाषांतर नवभूमिविधानस्य लक्षणं वक्ष्यतेऽधुनाविस्तारोत्सेधमानादिसर्वं प्रागुक्तवन्नयेत् ॥१॥सौरं च रौरवं चैव चण्डितं भूषणं तथाविवृतं सुप्रतीकान्तं विश्वकान्तं यथाक्रमम् ॥२॥विस्तारो विंशदंशेन कूटमेकैकभागिकम्मध्यशाला षडंशं स्यात्तत्संअं चान्तरालकम् ॥३॥तन्मध्ये च विभागेन क्षुद्र शालैर्विभूषितम्तत्पार्श्वे हारसंयुक्तं द्विद्विभागेन कारयेत् ॥४॥सौरकान्तमिति प्रोक्तं शेषं प्रागुक्तवन्नयेत्महाशालैश्चतुर्भागं मध्ये भद्रं तु रौरवम् ॥५॥तदेव भद्र शालैश्च वेदभागविशालकम्द्विभागं भद्र संयुक्तं चण्डितं परिकीर्तितम् ॥६॥तदेव मध्यशाले तु द्विंशेन भद्र कोष्ठकम्भूषणं च मेति प्रोक्तं सर्वालङ्कारसंयुतम् ॥७॥एतच्चतुर्विधं प्रोक्तं नवभूम्यल्पहर्म्यकेअथवा चाल्पहर्म्ये तु मध्यकोष्ठं गुणांशकम् ॥८॥अथवा चतुरंशेन मध्यभद्र विशालकम्अथवा पञ्चभागं स्यात्पूर्ववन्नाममीरितम् ॥९॥चतुर्विंशति विस्तारं कूटानां पूर्ववद्भवेत्महाशालानुशाला च साष्टांशकगुणांशकम् ॥१०॥महाशालायते मध्ये वेदभागैर्भद्र कम्सर्वालङ्कारसंयुक्तं विवृतं चेति कथ्यते ॥११॥पञ्चविंशतिभागेन मध्यभद्रं शरांशकम्तत्पार्श्वे कर्णकूटौ च नराणां चैकभागिकम् ॥१२॥अनुशाला त्रिभागैकं मध्यभद्रं तु संयुतम्सुप्रतीकान्तनामाख्यं शेषं प्रागुक्तवन्नयेत् ॥१३॥षड्विंशतिविभागेन मध्यमं तु युगांशकम्मध्यमं हर्म्यके कुर्यात्सर्वालङ्कारसंयुतम् ॥१४॥श्रेष्ठं नवतलं हर्म्ये सप्तविंशतिभागिकम्शालापार्श्वे द्विभागैकं हारकूटसपञ्जरम् ॥१५॥कूटशालैश्च सप्तांशं मध्यभद्रं शरांशकम्भद्र कोष्ठं त्रियंशं स्याच्छेषं पूर्ववदाचरेत् ॥१६॥श्रेष्ठं नवतलं प्रोक्तं विश्वकान्तमुदीरितम्तदूर्ध्वे द्विंशमानेन वक्ष्ये चोर्ध्वे जलस्थलम् ॥१७॥जन्मादिस्तूपिपर्यन्तं गण्यमानमिहोच्यतेहर्म्यमष्टतले तुङ्गे साष्टभागाधिकं तथा ॥१८॥सार्धद्व्यंशमधिष्ठानं तद्द्वयं पादतुङ्गकम्तदर्धं प्रस्तरोत्सेधं शेषमष्टतलोक्तवत् ॥१९॥एवं नवतलोत्सेधं सर्वालङ्कारसंयुतम्नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ॥२०॥कर्णाहर्म्यादिसंयुक्तं द्वारं तत्प्रस्तरान्वितम्भद्र कूटादिशालानां नासिकापञ्जरान्वितम् ॥२१॥युक्त्या हारादि यथा सर्वे चानुकूलानुनासिकातोरणाद्यङ्गनीडैश्च जालकादिविभूषितम् ॥२२॥शेषं तु पूर्ववत्कुर्याद्दिक्षु देवान्न्यसेत्क्रमात्तले तले विमाने तु चोक्तवत्कारयेद्बुधः ॥२३॥एवं नवतलं प्रोक्तं शेषं युक्त्या प्रयोजयेत् ॥२४॥इति मानसारे वास्तुशास्त्रे नवतलेविधानं नाम सप्तविंशोऽध्यायः N/A References : N/A Last Updated : October 03, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP