संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्|
शिल्पिलक्षणपूर्वकं मानोपकरणविधानम्

मानसारम् - शिल्पिलक्षणपूर्वकं मानोपकरणविधानम्

'मानसारम्' वास्तुशास्त्रावरील एक प्राचीन ग्रंथ आहे.


शिल्पिनां लक्षणं वक्ष्ये मानोपकरण क्रमात्
परःशिवसकाशाद्धि ब्रह्मा इन्द्रोऽपि लोककृत् ॥१॥

स महाविश्वकर्मेति ईश्वरेणैव कीर्तितः
स एवायं विश्वकर्मा ब्रह्माण्डं सृजते मुहुः ॥२॥

विश्वकर्मा चतुर्वर्णं जाति ब्रह्मादिवर्णवत्
पूर्वोक्तवर्णं चत्वारि नामं वक्ष्ये पृथक् पृथक् ॥३॥

विश्वभूरिति नामैतत्पूर्ववक्त्रं प्रकीर्तितम्
दक्षिणे विश्वविद्वक्त्रं विश्वस्तश्च तथोत्तरे ॥४॥

पश्चिमे विश्वस्रष्ट्राख्यं वक्त्रमेवं चतुर्विधम्
एतेभ्यः प्रथमो जातो विश्वकर्मा चतुष्टयः ॥५॥

पूर्वानने विश्वकर्मा जायते दक्षिणे मयः
उत्तरस्य मुखे त्वष्टा पश्चिमे तु मनुः स्मृतः ॥६॥

उपयेमे विश्वकर्मा इन्द्र स्य तनयां तदा
मयः सुरेन्द्र तनयामुपयेमे क्रमात्ततः ॥७॥

त्वष्टा वैश्रवणसुतामुपयेमे त्वनन्तरम्
मनुर्नलस्य तनयामुपयेमे तु तुर्यकम् ॥८॥

विश्वकर्माख्यनाम्नोस्य पुत्रः स्थपतिरुच्यते
मयस्य तनयः सूत्रग्राहीति परिकीर्तितः ॥९॥

त्वष्टुर्देव-ऋषेः पुत्रो वर्धकीति प्रकथ्यते
मनोः पुत्रस्तक्षकः स्यात्स्थपत्यादि चतुष्ट्यम्ये ॥१०॥॥

स्थपतिस्तु स्वतुर्येभ्यस्त्रिभ्यो गुरुरिति स्मृतः
सूत्रग्राही गुरुर्द्वाभ्यां तुर्येभ्योऽद्य इति स्मृतः ॥११॥

तक्षकस्य गुरुर्नाम वर्धकीति प्रकीर्तितः
स्थपतिः सर्वशास्त्रज्ञः सूत्रग्राहीति सूत्रधृत् ॥१२॥

वर्धकी मानकर्मज्ञः तक्षणात्तक्षकः स्मृतः
स्थपतिः स्थापनायार्हः वेदविच्छास्त्रपारगः ॥१३॥

स्थापनाधिपतिर्यस्मात्तस्मात्स्थपतिरुच्यते
स्थपतेश्चाज्ञया सर्वे सूत्रग्राह्यादयः सदा ॥१४॥

कुर्वन्ति शास्त्रदृष्टेन वास्तुवस्तु प्रयत्नतः
स्थपत्यादिचतुर्वर्णः शिल्पिभिः परिकीर्तितः ॥१५॥

आचार्यलक्षणैर्युक्तं स्थपतिर्नाम धीयते
श्रुतज्ञः सूत्रग्राही च रेखाज्ञः शास्त्रवित्तमः ॥१६॥

विचारज्ञः श्रुतज्ञश्च चित्रकर्मज्ञ वर्धकी
तक्षकः कर्मवित्सभ्यो बलबन्धूदयापरः ॥१७॥

श्रुतिशास्त्र प्रकर्तव्य सर्वलक्षणमुच्यते
इहैव लोके कृतं विना शिल्पि विना गुरुम् ॥१८॥

न लभ्यते तु यत्तस्मादेभ्यः सह कारयेत्
विना कृते तु सफलं भुक्ति मुक्तिं न विन्दति ॥१९॥

शिल्पीनां लक्षणं प्रोक्तं मानोपकरणोच्यते
मुनीनां नयनोद्वीक्ष्य तत्परमाणुरुदाहृतम् ॥२०॥

ताभिरष्टाभिर्गुणितं रथधूलिरिति स्मृतम्
रथधूल्यष्टमिलितं वालाग्रमिति स्मृतम् ॥२१॥

वालाग्रैरष्टधायुक्तं लिक्षे परिकीर्तितम्
लिक्षेश्चाष्टभिरायुक्तं यूकं तमिति कथ्यते ॥२२॥

यूकैरष्टाभिः प्रोक्तं यवमेवं विधीयते
यवैरष्टसमायुक्तमङ्गुलं तत्प्रकीर्तितम् ॥२३॥

मानमात्रं त्रिधा प्रोक्तं यववृद्धिविशेषतः
षट्सप्ताष्टयवैरेतत्कनिष्टोमध्यमोत्तमम् ॥२४॥

अङ्गुलैर्द्वादशैर्युक्तं वितस्तिः परिकीर्तितम्
वितस्तियुग्मं किष्कुः स्यात्प्राजापत्योऽङ्गुलाधिकम् ॥२५॥

षड्विंशत्यङ्गुलो हस्तो धनुर्मुष्टिरिति स्मृतम्
सप्तविंशतिकाङ्गुल्यं हस्तमुक्तं धनुर्ग्रहम् ॥२६॥

चतुर्हस्तं धनुर्दण्डं दण्डाष्टं रज्जुमेव च
याने च शयने चैव किष्कुहस्तेन मानयेत् ॥२७॥

विमानस्य तु सर्वेषां प्राजापत्येन मानयेत्
मानयेद्वास्तु यन्मानं धनुर्मुष्टिकरेण च ॥२८॥

ग्रामादीनां न मानानां मानयेत्तद्धनुर्ग्रहम्
किष्कुहस्तेन यन्मानं मानयेद्विश्वतस्तु वा ॥२९॥

शमी शाकं च चापं च खदिरः कृतमालकः
क्षीरिणी तिन्त्रिणी चैव हस्तदारु प्रकीर्तितम् ॥३०॥

दारुसंग्रहणं पश्चात्त्रिमासान्तं जले क्षिपेत्
क्षालयित्वा परिग्राह्यं तक्षकेण विदारयेत् ॥३१॥

तद्दारितं निकरं दारु तक्षयेच्चतुरश्रतः
एकहस्तसमं दीर्घं तदेकाङ्गुलविस्तृतम् ॥३२॥

घनमध्याङ्गुलं प्रोक्तं हस्त निश्चित्य योजयेत्
न वक्रं न भिन्नं च न रन्ध्रं स्निग्धमेव च ॥३३॥

क्रमुकं वाऽपि वेणुं च दण्डदारु प्रकीर्तितम्
हस्तदण्डोभयोः प्रोक्तं विष्णुमूर्त्यधिदेवता ॥३४॥

नालिकेरफलैः शाता दर्भैर्न्यग्रोधवल्कलैः
कार्पासं किंशुकैःसूत्रैस्तालकेतक्रवल्कलैः ॥३५॥

यल्लभेद्वल्कलैर्ग्राह्यं रज्जुं संकल्पवित्तमः
पार्श्वादेकाङ्गुलं चैव तत्समं रज्जुनाहकम् ॥३६॥

देवभूसुरभूपानां त्रिवर्ति ग्रन्थिवर्जितम्
वणिजां शूद्र जातीनां रज्जुरेकद्विवर्जिता ॥३७॥

वासुकी रज्जुदेवात्मा मानतद्ज्ञैः पितामहाः
तद्धार्य हस्तं रज्जुश्च मानदण्डं तथैव च ॥३८॥

स्मृत्वा मानसितां देवां मानयेद्वर्धकी तथा
एवं मान कृते वास्तुवस्त्वादि च विवर्धयेत् ॥३९॥

अनुक्तं कुरुते यस्तु स स्थितो रेणुरं फलम्
तस्मात्परिहरेच्छिल्पी कारयेत्ततु विश्वतः ॥४०॥

इति मानसारे वास्तुशास्त्रे मानोपकरणविधानं नाम द्वितीयोऽध्यायः

N/A

References : N/A
Last Updated : October 01, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP