संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| मधूच्छिष्टविधानम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - मधूच्छिष्टविधानम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत मधूच्छिष्टविधानम् Translation - भाषांतर बिम्बानां तु मधूच्छिष्टं क्रियां सम्यग् वक्ष्यतेऽधुनाशैवं पाशुपतं चैव कालामुखं महाव्रतम् ॥१॥वामं च भैरभं चैव तन्त्रवत् ज्योतिः षट्क्रमात्अगस्त्यः काश्यपश्चैव भृगुगौतमभार्गवाः ॥२॥गालव इति ऋषयः प्रोक्ताः कर्षणाद्यर्चनार्थकम्तत्तत्तन्त्रवशात्सर्वं कुर्यात् षट् सम्पदास्पदम् ॥३॥तत्तत्तन्त्रविपरीतं चेद् विपत्यं नित्यमावहेत्अनुक्तं तत्र तन्त्रैस्तु ग्राह्यं दोषो न विद्यते ॥४॥विश्वकर्मा च विश्वेच विश्वसारं प्रबोधकःवृतश्चैव मयश्चैव त्वष्टा चैव मनुर्नलः ॥५॥मानविन्मानकल्पश्च मानसारो बहुश्रुतःप्रष्टा च मानबोधश्च विश्वबोधो नायश्च तथा ॥६॥आदिसारो विशालश्च विश्वकाश्यप एव चवास्तुवोधो महातन्त्रो वास्तुविद्यापतिस्तथा ॥७॥पाराशरीयकश्चैव कालयूपो महाऋषिःचैत्याख्यः चित्रकः आवर्यः साधकसारसंहितः ॥८॥भानुश्चेन्द्र श्च लोकज्ञः सौराख्यः शिल्पिवित्तमःतदेव ऋषयः प्रोक्ता द्वात्रिंशतिः संख्यया ॥९॥तान् गोत्रवशाज्ज्ञात्वा शिल्पि सर्वत्रयोग्यकम्शुक्लपक्षेऽथवा कृष्णे सर्वमासेषु कारयेत् ॥१०॥शुभयोगे सुनक्षत्रे सुमुहूर्ते सुलग्नकेमन्त्रवत्कारयेद् गर्धं स्थपतिस्थापकावुभौ ॥११॥मधूच्छिष्टं योजयेच्छिल्पी शास्त्रं कारयेत्क्रमात्यथारूपं तथा ध्यात्वा स्थपत्याज्ञैश्च वर्धकी ॥१२॥यन्मधूच्छिष्टबिम्बस्य पञ्चवर्णैरलङ्कृतम्क्षणिकाबेरमेवोक्तं चलं चाप्यचलं तथा ॥१३॥तस्मात्सर्वप्रयत्नेन तत्रदोषो न विद्यतेअक्षैः स्फटिकसंयुक्तं लूतभाजनमेव च ॥१४॥हस्तेन सर्वविम्बानां ताम्रपत्रेण योजयेत्अथवा पक्षकानां तु पक्षमूलेन विन्यसेत् ॥१५॥नखास्सर्वेषु पादौ च संयुक्तं तु मृगेण चअथवा शिखशल्यं स्याद् भूषणं च विशेषतः ॥१६॥स्फटिकैः रत्नसंयुक्तं जीनपात्रेण विन्यसेत्अमूकद्रुमसर्वेषां युक्त्या वर्णं समाश्रितम् ॥१७॥दारुकीलैश्च बिम्बानां यत्फलार्थं तु योजयेत्आद्र वद्र व्यस्माद् दोषमेवं न विद्यते ॥१८॥सर्वालङ्कारसंयुक्तं बेरं ग्रामप्रदक्षिणम्यजमानादि संवेक्ष्य सेव्यं तत्रार्चनं भवेत् ॥१९॥तस्माद् देवतार्थं संग्राह्य चान्यग्रामे विलासयेत्पश्चात्तु शिल्पिशालाश्च बेरमेवं प्रशस्यते ॥२०॥मानोन्मानप्रमाणेन शोभयेच्छिल्पिवित्तमःद्वित्र्! यङ्गुलाधिकं वाथ मधूच्छिष्टेन लेपयेत् ॥२१॥तदूर्ध्वे मृत्तिकां लेप्य शोषयेत्तद् विचक्षणैःतत् पिण्डमुत्तापयेद्वा मधूच्छिष्टोद्गभैः पुनः ॥२२॥कर्तुरिच्छा यथा लोहैर्घृतः एतत्प्रविश्यतिपूर्णयेज्जलं संप्रोक्ष्य त्यक्त्वा तदर्धमृत्तिकः ॥२३॥बिम्बं सर्वाङ्गं संशोध्य श्वेतगन्धानुलेपयेत्तत्पीठोपरि संस्थाप्य पुष्पमालैरलङ्कृतम् ॥२४॥ग्रामं प्रदक्षिणं कुर्यात्सर्वमङ्गलघोषणैःशिल्पिशालां प्रविश्य कारयेदुक्तवत्क्रमात् ॥२५॥तस्योपाङ्गविहीनं चेत्पुनः सन्तानकं भवेत्शिरो वा मध्यकाये वा हीनं चेद् विसृजेत्पुनः ॥२६॥कर्तृशिल्प्यचलं चित्तं कारयेत्पूर्ववद् भवेत्चलं चित्तं न कुर्याच्चेत्स्थाननाशं धनक्षयम् ॥२७॥अनेकजन्मकृतं पुण्यं क्षिप्रमेवं विनश्यतितस्मात्सर्वप्रयत्नेन पुतश्च कारयेत्सुधीः ॥२८॥इति मानसारे वास्तुशास्त्रे मधूच्छिष्टविधानं नाम अष्टषष्टितमोऽध्यायः N/A References : N/A Last Updated : October 07, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP