संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| राजाङ्गविधानम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - राजाङ्गविधानम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत राजाङ्गविधानम् Translation - भाषांतर भूपतीनां च सर्वेषां सर्वाङ्गं वक्ष्यतेऽधुनाअधीत्याम्नायचतुरं तत्षडङ्गं पदक्रमात् ॥१॥शस्त्रास्त्रमन्त्रसर्वादीन्सर्वशास्त्राब्धिपारगःषड्दर्शनं समं चैव दीक्षया च प्रवर्तकः ॥२॥धीरोद्धतो धीरललितो धीरोदात्तस्तथैव चरम्यानुपाज्यराज्यात् स्वयं ज्ञात्वा स्वयन्त्रितः ॥३॥शूरः प्राज्ञश्च कोशार्थं धर्मज्ञो नीतिपारगःसमस्तभूमृतां चैते गुणाः प्रोक्ता विशेषतः ॥४॥एतानि गुणरत्नानि राज्ञो यस्य च सन्ति वैशतपञ्चतुरङ्गानि पञ्चकुञ्जरमेव च ॥५॥लक्षार्धतन्त्राधिपतिः शतपञ्चवराङ्गनाःएका स्यात्पट्टमहिषी अस्त्रग्राहो प्रकीर्तिता ॥६॥षट्शतं मरीशकोट्यानि निषदन्ताबलमेव चलक्षतन्त्राधिपतिश्च सप्ताशतवराङ्गनाः ॥७॥स्यातां महिष्यो द्वितीय प्राहारक इति स्मृतम्शताष्टहयरत्नानि सप्तद्विरदमेव च ॥८॥सार्धलक्षतन्त्रं स्यात्त्रि सहस्रं वराङ्गनाःमहिषीत्रयमेवं च पट्टभाक् इति स्मृतम् ॥९॥सहस्राश्वं दशभुजं पञ्चाशतसहस्रकम्वराङ्गनाभिरासेव्यो महिष्यश्च चतुष्टयम् ॥१०॥लक्षद्वयं च तन्त्रं स्यान्मण्डलेशस्य भूपतेःपञ्चाशतसहस्राश्वाः द्वादशं कुञ्जरं तथा ॥११॥लक्षद्वयं च तन्त्रं स्याद् द्विसहस्रवराङ्गनाःमहिष्यः पञ्च पट्टाभाः पट्टधृक् भूपतिर्विदुः ॥१२॥द्विशताश्चहयाः प्रोक्ताः पञ्चादशगजास्तथचनुर्लक्षं च तन्त्रं स्यात्त्रिसहस्रवराङ्गनाः ॥१३॥षण्महिष्यस्तथा प्रोक्ताः पार्ष्णिकाख्यस्य भूपतेःपार्ष्णिकः स्यात्पट्टधरो मण्डलेशश्च पट्टभाक् ॥१४॥एभ्यो नवद्विपादाब्ज तत्तत्तन्त्राधिपास्तथाअयुतादिबहूनश्वाशतकुञ्जरमेव च ॥१५॥तन्त्रं च शतलक्षं स्यान्महिष्यश्च दशस्तथालक्षार्धं वा रवनिता चैवमुक्तं नरेन्द्र के ॥१६॥नरेन्द्रे च द्विपादाब्जश्चैककोटितुरङ्गवान्अयुतं द्विरदं प्रोक्तं दशकोटिश्च तन्त्रकम् ॥१७॥दशलक्षं मरण्यं च महिष्यश्च सहस्रकम्अधिराजाख्यनृपतेश्चोक्ततन्त्रं पुरातनैः ॥१८॥अधः वा पट्टमहिषे चेन्द्र स्य सदृशः प्रभुःसमभूमिपपालेभ्यो नमस्कृत्य पदाम्बुजम् ॥१९॥दन्ताबलतुरङ्गाश्च तन्द्रा दि च वराङ्गनाःअर्बुदं न्यर्बुदं चैव महाशङ्कं च पद्मकम् ॥२०॥गणिकान्तं परार्धाख्यं च सर्वे तन्त्राः प्रकीर्तिताःसप्तद्विमेखलाभूमि चैकच्छत्रेण पालकम् ॥२१॥तस्मात्तु सार्वभूमाय चक्रवर्तिरिति स्मृतम् ॥२२॥आम्नायांश्चतुरोऽधीत्य विधिवत्षड्दर्शनानां समम्समशास्त्रादिसर्वशास्त्रकुशलः स्थिरो धर्मवान्धीरोदात्तगुणो महावितरणैश्वर्यधनाढ्यः प्रभुःनीतिज्ञो जनरक्षको जनपदार्थानुपार्ज्यार्थवान् ॥२३॥सर्वज्ञो नरपालको शक्रपदाम्भोजद्विरेफः सुरैःशान्तो कीर्तिपरायणश्च रसिको गन्धर्वशास्त्राधिपःएते सर्वगुणाः समस्तनृपतेः साम्यादि चोक्तं बुधैःएषां चोक्तगुणानि नृपतेः सक्षुद्र भूभृताम् ॥२४॥इति मानसारे वास्तुशास्त्रे राजाङ्गविधानं नाम एकचत्वारिंशोऽध्यायः N/A References : N/A Last Updated : October 07, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP