संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| प्रलम्बलक्षणम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - प्रलम्बलक्षणम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत प्रलम्बलक्षणम् Translation - भाषांतर सर्वेषां देवदेवीनां ऋजुस्थानके चासनेमानसूत्रविधिं सम्यग्लक्षणं वक्ष्यतेऽधुना ॥१॥बेरायामसमं वापि त्रिपादं चार्धमेव वाआयामं त्रिविधं प्रोक्तं तत्तदूर्ध्वविशालकम् २॥देवलब्धाङ्गुलं चैव चतुस्त्रिद्व्यङ्गुलं घनम्एवं प्रलम्बफलका प्रक्षणं चतुरश्रकम् ॥३॥तत्समं चासनं कुर्याद् घनं मानाङ्गुलेन चचतुष्पादं त्रिपादं च द्विपादैकाङ्घ्रिमेव वा ॥४॥आसनस्योपरि स्थाप्य मध्यबेरं विनिक्षिपेत्सपादबेरायतं वाप्यध्यर्धेनाङ्घ्रितुङ्गकम् ॥५॥पादतारं यथायुक्त्या कारयेत्तक्षकेन तुफलका चासने चैव मुनिसूत्रं प्रसारयेत् ॥६॥कुर्याद्युक्त्या च पादोर्ध्वे प्रलम्बफलकां न्यसेत्सूत्राग्रे कन्दुकाकारं लौहे पाषाणकेऽथवा ॥७॥तन्मध्ये सुषिरं कृत्वा बन्धयेच्छिल्पिवित्तमःफलके योजयेत्सर्वं सूत्रमेवं प्रशस्यते ॥८॥पूर्वापरपार्श्वे तु कायमध्ये प्रलम्बयेत्स्थानके चासने वापि पञ्चसूत्रमुदीरितम् ॥९॥मुखान्तं द्विद्विमात्रं स्याल्लम्बं सप्तमिति स्मृतम्तत्पृष्ठशिरःपार्श्वे तु वक्त्रान्तं रज्जुं लम्बयेत् ॥१०॥नवसूत्रमिति प्रोक्तमेकादशमिहोच्यतेकक्षतारं द्वयो सूत्रं लम्बयेद् रुद्र सूत्रकम् ॥११॥अथवा पृष्ठमध्ये तु सूत्र मन्वन्त लम्बयेत्चतुर्दिक्षु चतुर्मध्ये पञ्चसूत्रं प्रधानकम् ॥१२॥अन्यथा पुरतो देशे सर्वं मध्यादि लम्बयेत्पुटपार्श्वौ मखान्तौ च कुक्षौ बाहुपार्श्वकौ ॥१३॥लम्बयेत्सूत्रमित्युक्तमेतदेकादश तथापरहस्तौ पुटपार्श्वे सूत्रं त्यक्त्वा चतुष्टयम् ॥१४॥शेषं तु सर्वसूत्रं स्यादासने च प्रकल्पयेत्स्थानके रुद्र सूत्रं स्याल्लम्बयेद् विचक्षणः ॥१५॥शिखामणिस् तु मौल्यग्रे मध्यमे मौलिमध्यमेमौलिमूलं च पट्टं च ललाटस्य तु मध्यमे ॥१६॥भ्रुवयोर्मध्यमे नासिमध्यमे हनुमध्यमेहिक्काच मध्यमे चैव तथा हृदयमध्यमे ॥१७॥तस्याधो नाभिमध्ये च मेढ्रमध्यं तथैव चऊरुमूलद्वयोर्मध्ये जान्वयोर्मध्यमे तथा ॥१८॥नलका द्वयोर्मध्ये पार्ष्णियोर्मध्यमे तथातलमध्यद्वयोर्मध्यमङ्गुष्ठयोर्मध्यमे तथा ॥१९॥एवं तु लम्बयेत्कुक्षिनासाग्रे स्पर्शयेद् बुधःसूत्रात् शिखामणिं स्याद् द्व्यन्तरं द्वादशाङ्गुलम् ॥२०॥सूत्रान्मौलिमूलान्तं रसमात्रान्तरं भवेत्सूत्रं ललाटमध्यं तद् द्व्यन्तरं द्व्यङ्गुलं भवेत् ॥२१॥हिक्कामध्यं तु सूत्रान्तं द्व्यन्तरं तु षडङ्गुलम्तत्सूत्राद्धृदयान्तं च द्व्यन्तरं चार्धमात्रकम् ॥२२॥तत्सूत्रान्नाभिसीमान्तं द्व्यन्तरं तु शिवाङ्गुलम्तत्सूत्रान्मेढ्रमूलान्तं द्व्यन्तरं तु गुणाङ्गुलम् ॥२३॥स्थानके चासने वापि स्थानकेषु विशेषतःपार्श्वसूत्रद्वयं काये द्व्यन्तरं तदिहोच्यते ॥२४॥तत्सूत्रादूरुमूलान्तं द्व्यन्तरं तद् द्विमात्रकम्सूत्रं च जानुमध्यं तत्सार्धवेदाङ्गुलान्तरम् ॥२५॥तत्सूत्राज्जङ्घयोर्मध्यं द्व्यन्तरं तु षडङ्गुलम्सूत्रान्तं नलकान्तं स्यात्सार्धसप्ताङ्गुलं भवेत् ॥२६॥समाङ्घ्रि स्थानकं कुर्यात् कायमृज्वायतं भवेत्पादाङ्गुष्ठद्वयोर्मध्ये द्व्यन्तरं चाष्टमात्रकम् ॥२७॥तलमध्यद्वयोर्मध्ये द्व्यन्तरं तु षडङ्गुलम्तत्पार्ष्णि द्वयोर्मध्ये द्व्यन्तरं वेदमात्रकम् ॥२८॥नलकान्तं द्वयोर्मध्ये द्व्यन्तरं तु रसाङ्गुलम्जङ्घामध्यं द्वयोर्मध्ये द्वन्तरं तु शराङ्गुलम् ॥२९॥जानुमध्यद्वयोर्मध्ये द्व्यन्तरं वेदमात्रकम्ऊरुमध्यं द्व्ययोर्मध्ये द्व्यङ्गुलं चान्तरं भवेत् ॥३०॥ऊरुमूलद्वयोर्मध्ये शिवमात्रान्तरं भवेत्हस्तौ च लम्बनं कुर्यात्तदन्तरमिहोच्यते ॥३१॥श्रोण्या कूर्परं पार्श्व च द्व्यन्तरं तु षडङ्गुलम्प्रकोष्ठात्कट्यन्तरं द्व्यन्तरं च त्र्! यङ्गुलम् ॥३२॥अथवा द्व्यङ्गुलं वापि मणिबन्ध दशाङ्गुलम्मध्याङ्गुलं च पार्श्वं च द्व्यन्तरं दशमात्रकम् ॥३३॥एवं तु देवदेवीनां स्थानके चासनेऽपि वाऊर्ध्वकायसमं कुर्यात् पद्मासनविशालकम् ॥३४॥जान्वर्ध्वात्केशपर्यन्तं तत्समं त्रिभुजावितिमानयेज्जानुबाह्ये तु बाहुबाह्यं तु तत्समम् ॥३५॥बाहुजानुद्वयं चैव सव्यापसव्यं मानयेत्मेढ्रान्तं गुल्फस्याक्षान्तं द्व्यन्तरं तु षडङ्गुलम् ॥३६॥श्रोणिकूर्परपार्श्वे तु चान्तरं तु षडङ्गुलम्प्रकोष्ठाग्रतलं चैव पञ्चांसौ परि विन्यस्येत् ॥३७॥अर्धान्तस्यासनं चेत्तु एपादं प्रलम्बयेत्तज्जानुपार्श्वके तस्य द्व्यत्र्! यङ्गुलोनमेव च ॥३८॥तत्सूत्राल्लम्बपादादौ द्व्यन्तरं द्वादशाङ्गुलम्सर्वेषां देवदेवीनामेवं प्रोक्तं तदासनम् ॥३९॥पूर्वे च मध्यसूत्रं तु पृष्ठसूत्रं प्रलम्बयेत्तदेव मौल्यग्रमध्ये मौलिमूलस्य मध्यमे ॥४०॥तत्कृत्वाथ ककुन्मध्ये वंशमध्ये तु लम्बयेत्जघनस्य द्वयोर्मध्ये ऊरुद्वयोश्च मध्यमे ॥४१॥पृष्ठजानुद्वयोर्मध्ये पाणियोर्मध्ये लम्बयेत्एवं तु वरसूत्रं स्यात्पार्श्वसूत्रमिहोच्यते ॥४२॥कर्णयोः सुषिरमध्ये पार्श्वकायस्य मध्यमेगुल्फस्य मध्यमे चैव पार्श्वसूत्रं प्रलम्बयेत् ॥४३॥पिप्पलीबाह्यदेशे तु स्तनचूचुकमध्यमेऊरुजानु यथादेशे तर्जन्यङ्गुलमध्यमे ॥४४॥कक्षसूत्रात्कटिपार्श्वेऽपरे साङ्गुलाष्टकम्शक्तीनां कटिदेशे तु लम्बयेत्तु कनिष्ठके ॥४५॥बाह्यके मध्यमे वापि कटी च पुटपार्श्वकेएवं तु कार्यसूत्रं स्याल्लम्बयेच्छिल्पिवित्तमः ॥४६॥परहस्तपार्श्वयोः सूत्रं मानयेज्जानुपार्श्वकम्सर्वाङ्गं च ऋजुं कुर्यात्पूर्वापर योजयेत् ॥४७॥ऋज्वाङ्गकभावं सामान्यमिति विद्यतेसर्वेषां देवदेवीनां भङ्गमानमिहोच्यते ॥४८॥आभङ्गं समभङ्गं च अतिभङ्गं त्रिधा भवेत्त्रिचतुष्पञ्चमात्रं स्यात्तुङ्गमानमिति क्रमात् ॥४९॥उष्णीषमध्यमे चैव ललाटं चैव मध्यमेनासिकाग्रस्य मध्ये तु हिक्का यथोक्तपार्श्वके ॥५०॥यथोक्तचूचुकस्यान्तं नाभिपार्श्वे यथोक्तवत्यथोक्तश्चोरुगुल्फस्य पार्श्वसूत्रं प्रलम्बयेत् ॥५१॥एवमाभङ्गसूत्रं स्यात् समभङ्गमिहोच्यतेउष्णीषात् तु यथापार्श्वे ललाटस्य तु पार्श्वके ॥५२॥यत्तत्पुटपार्श्वे तु स्तनचूचुकमध्यमेनाभिश्चोरुस्तथा जङ्घा यथोक्तं गुल्फपार्श्वके ॥५३॥एवं तु लम्बयेत्सूत्रं समभङ्गमिति स्मृतम्उष्णीषात् पूर्वपर्श्वे तु यथोक्तं नेत्रमध्यमे ॥५४॥स्तनपार्श्वे चोरुमध्ये जानुजङ्घा मध्यतःतद् गुल्फाक्षयोर्द्व्ययोर्मध्ये द्व्यन्तरं तु गुणाङ्गुलम् ॥५५॥जानुद्वयोरन्तरं चाष्टमात्रं युक्त्या प्रयोजयेत्ऊरुमूलद्वयोर्मध्ये द्व्यन्तरं द्व्यर्धमात्रकम् ॥५६॥अङ्गुष्ठाग्रं द्वयोर्मध्यं द्व्यन्तरं द्वादशाङ्गुलम्आभङ्गान्तरं प्रोक्तं समभङ्गमिहोच्यते ॥५७॥तत्पादाङ्गुष्ठद्वयोर्मध्ये द्व्यन्तरं षोडशाङ्गुलम्पार्ष्ण्यन्तरं चतुर्मात्रं दशाङ्गुलं जानुकान्तकम् ॥५८॥ऊरुमूलद्वयोर्मध्ये द्व्यन्तरं त्वङ्गुलं भवेत्एवं तु समभङ्गं स्यादतिभङ्गमिहोच्यते ॥५९॥पार्ष्ण्यन्तरं शराङ्गुल्यं तत्पादाङ्गुष्ठयोरग्रकेतद्द्वयोर्मध्यमे विंशदङ्गुल्यं द्व्यन्तरं भवेत् ॥६०॥तज्जानुद्वयोर्मध्ये द्व्यन्तरं द्वादशाङ्गुलम्ऊरुमूलद्वयोर्मध्ये सार्धद्व्यङ्गुलकान्तकम् ॥६१॥एवमतिभङ्गं स्यादेतानि युक्तितो न्यसेत्एवं त्रिभङ्गसूत्रं तु द्व्यन्तरं मानमुच्यते ॥६२॥सूत्रात्तु तल्ललाटान्तं द्व्यन्तरं च द्विमात्रकम्तत्सूत्राज्जानुकान्तं च द्व्यन्तरं तु षडङ्गुलम् ॥६३॥तत्सूत्रात् हृदयान्तं च द्व्यन्तरं चाङ्गुलं भवेत्तत्सूत्रान्नाभिसीमान्तमध्यर्धाङ्गुलकान्तकम् ॥६४॥तत्सूत्रान्मेढ्रसीमान्तं द्व्यन्तरं तु गुणांशकम्तत्सूत्रादूरुमध्ये तु द्व्यन्तरं च द्विमात्रकम् ॥६५॥तत्सूत्राज्जानुकान्तं स्याद् रसमात्रान्तरं भवेत्तत्सूत्रं नलकान्तं स्याद् द्व्यन्तरं चाष्टमात्रकम् ॥६६॥स्थितपादान्तरे चैव कुर्यात्तु वर्धकिस्तथानासाग्रे कुक्षिदेशे सूत्रं तु स्पर्शनं भवेत् ॥६७॥शक्तीनां कुक्षिदेशे तु एकाङ्गुलान्तरं तु वाशक्तीनां पुष्पहस्तं तु स्तनान्तं कटकाग्रकम् ॥६८॥तदङ्गुष्ठावसनान्तं च द्व्यन्तरं चतुरङ्गुलम्तच्छ्रोण्या कूर्परान्तं तु द्व्यन्तरं षडङ्गुलम् ॥६९॥अंसादालम्बनं हस्तं द्व्यन्तरं पूर्ववद् भवेत्तत्तद् विचिह्नवर्णादिभूषणाद्यैरलङ्कृतम् ॥७०॥सर्वेषां वास्तुवस्तूनि प्रतिमादि यथोक्तवत्कारयेत्सर्वसम्पत्त्यै भुक्तिमुक्तिफलप्रदम् ॥७१॥अज्ञानाद् वास्तुवस्त्वादि विपरीतं चेद् विपत्करम्तस्मात्परिहरेद् विद्वान्यथा पूर्वोक्तं सर्वतः ॥७२॥एवं प्रोक्तं वास्तुवास्त्वादि हर्म्यैःप्राकाराद्यैर्मण्डपाद्यैश्च शालाभूपालाङ्गं भूपतीनां च लिङ्गैर्देवादीनां कारयेत्संपदार्थम् ॥७३॥इति मानसारे वास्तुशास्त्रे प्रतिमाधिकारे प्रलम्बलक्षणविधानं नाम सप्तषष्टितमोऽध्यायः N/A References : N/A Last Updated : October 07, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP