संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| मुनिलक्षणम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - मुनिलक्षणम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत मुनिलक्षणम् Translation - भाषांतर ऋषीणां लक्षणं वक्ष्ये शास्त्रे संक्षिप्यतेऽधुनाअगस्त्यः काश्यपश्चैव भृगुर्वासिष्ठो भार्गवः ॥१॥विश्वामित्रस्तथा भारद्वाजः सप्तर्षयः क्रमात्अगस्त्यं सप्ततालेन मानयेत्त्वङ्गमानकम् ॥२॥काश्यपं चाष्टतालेन मानयेदपि च भृगुम्अन्यथा ऋषिसर्वेषां नवतालेन कारयेत् ॥३॥श्यामवर्णमगस्त्यं च काश्यपं पीतवर्णकम्भृगुं कृष्णवर्णं स्याद् वसिष्ठं रक्तवर्णकम् ॥४॥भार्गवं पिङ्गलाभं स्याद् विश्वामित्रं च रक्तकम्भरद्वाजं च हारिद्रं वर्णमेवं क्रमाद् विदुः ॥५॥द्विभुजं च द्विनेत्रं च जटाजूटेन मण्डितम्पीताम्बरधरं चैव सर्वेषामपि मुनीनाम् ॥६॥कुब्जाकारं बृहत्कुक्षि कषायं पूर्णशोभितम्अगस्त्यं चमिति प्रोक्तमन्यं चमिति पौरुषम् ॥७॥सर्वेषामपि मुनीनां यज्ञसूत्रोत्तरीयकैःदण्डं च सव्यहस्तेन वामहस्तेन पुस्तकम् ॥८॥अथवा यष्टिं विना सव्ये हस्तौ सदृश मुनीनाम्अथवाराध्यवत्कुर्यादासनानान्तुकं तु वा ॥९॥वेदाशिक्यंशकं तुङ्गे मूर्ध्नितुङ्गं गुणांशकम्दशांशं वक्त्रतुङ्गं स्याद् गुणांशं ग्रीवतुङ्गकम् ॥१०॥दशांशं हृदयान्तं स्यान्नाभ्यन्तं च दशाङ्गुलम्भूतांशं मेढ्रसीमान्तं पीठांशं शुरगायतम् ॥११॥जानुतुङ्गं गुणांशं स्याज्जानुदीर्घोरुतुङ्गकम्पादं जानुसमोच्चं स्यात्सप्तलामिति स्मृतम् ॥१२॥विशांशं बाहुदीर्घं स्यात्कूर्परं चार्धमात्रकम्प्रोकोष्ठं षोडशांशं स्यात्तलमष्टांशमायतम् ॥१३॥पादायामं च रुद्रा शं! मुस्ततारं सप्तमात्रकम्ग्रीवतारं शरांशं स्यात्तत्समं बाहुमूलके ॥१४॥कक्षान्तं मनुमात्रं स्याद् वक्षःस्थलविशालकम्हृदयान्तं विशालं च द्वादशाङ्गुलमीरितम् ॥१५॥मध्योदरं विशालं स्यात्षोडशांशेन कारयेत्कटितारं भास्करांशं स्यादष्टांशं चोरुविस्तृतम् ॥१६॥जानुतारं शरांशं स्याज्जङ्घातारं युगांशकम्नलकान्तं त्रिमात्रं स्यात्तलतारं युगाङ्गुलम् ॥१७॥बाहोरग्रविशालं स्याद् युगमात्रं प्रशस्यतेप्रकोष्ठतारार्धबन्धां मणिबन्धं कलाशकम् ॥१८॥त्र्! यर्धांशं तलविस्तारं तलदीर्घं युगाङ्गुलम्अङ्गुल्याङ्गुलदीर्घं स्यादगस्त्यं च समीरितम् ॥१९॥षणणवत्यधिकांशं स्यादष्टतालोदयं भवेत्उष्णीषं तु केशांशं मूर्ध्नितुङ्गं गुणांशकम् ॥२०॥तस्मात्तु सार्धपङ्क्त्यंशं हन्वन्तं तन्मुखायतम्तस्मात्कर्ण गुणांशं स्यात्तस्मात्तु हृदयान्तकम् ॥२१॥सार्धदशांशं तस्मात्समं नाभिकरान्तकम्मध्योदरं च एतस्मान्मेढ्रांशं तु तत्समम् ॥२२॥तस्याधश्चैकविंशान्तमूरुदीर्घं गुणांशकम्जानुजङ्घोरुतुल्यं स्यात्पादजानुसमोच्छ्रयम् ॥२३॥मनुमात्रं पादायामं मुखतारं नवाङ्गुलम्ग्रीवतारं षडङ्गुल्यं बाहुपर्यन्तविस्तृतम् ॥२४॥त्र्! यंशं त्र्! यर्धमात्रं स्याद् बाहुमूलं रसांशकम्बाहुदीर्घं कविंशांशं कूर्परं सार्धमात्रकम् ॥२५॥प्रकोष्ठाद्यर्धवक्त्रं स्याद् वक्त्रायामसमं तलम्अष्टतालमितिप्रोक्तं शेषं प्रागुक्तवन्नयेत् ॥२६॥नवतालोदयेत्वष्टभागाधिक्यं शतांशकम्शिरस्तुङ्गं गलं जानु पादतुङ्गं गुणांशकम् ॥२७॥मुखं वक्षश्च कुक्षिश्च कुटिदीर्घं द्वादशांशकम्ऊरुजङ्घायतं बाहुदीर्घ षट्चतुरंशकम् ॥२८॥प्रकोष्ठमष्टदशांशं स्यात्तस्मान्मध्याङ्गुलान्तकम्मुखायामसमं कुर्यादङ्गुष्ठं पार्ष्णिकान्तकम् ॥२९॥पञ्चादशाङ्गुलं पाददीर्घं प्रागुक्तवन्नयेत्मुनीनां लक्षणं प्रोक्तं शेषं युक्त्या प्रयोजयेत् ॥३०॥इति मानसारे वास्तुशास्त्रे मुनिलक्षणविधानं नाम सप्तपञ्चाशदध्यायः N/A References : N/A Last Updated : October 07, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP