संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| गृहप्रवेशविधानम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - गृहप्रवेशविधानम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत गृहप्रवेशविधानम् Translation - भाषांतर अथ वक्ष्ये नराणां च गृहवेशस्य लक्षणम्सर्वेषां जातिहर्म्याणां चोक्तवत् क्रियान्वितम् ॥१॥उत्तरायणमासे तु दक्षिणायन मेव वामिथुनं धनुः कन्यां च मीनं चैव विवर्जयेत् ॥२॥प्रशस्तपक्षनक्षत्रे सुमुहूर्ते सुलग्नकेउभयोः स्थिरराशौ च शुक्लपक्षे प्रवेशयेत् ॥३॥स्थपतिः स्थापकश्चोभौ गृहवेशं समारभेत्गृहाग्रे मण्डपं कृत्वा प्रपां वा कूटमेव वा ॥४॥पञ्चसप्तकरं तत्र गेहता समाग्रकम्षोडशस्तम्भयुक्तं वा द्वादशस्तम्भमेव वा ॥५॥विविधानां विधानानां नानावस्त्रैरलङ्कृतम्गोमयालेपनं कृत्वा चोक्तवत्कृतसद्मकम् ॥६॥गृहे वा मध्यरङ्गे पार्श्वे वा चैशकोणकेकुर्यादुक्तवच्छिल्पी साङ्कुरार्पणमेव वा ॥७॥वास्तुमध्योक्तवच्छिल्पी साधारणबलिं दिशेत्आपादाष्टारणां च पूजयेत्स्थपतिः प्रभुः ॥८॥आर्यादीनां चतुर्थानां स्थापकेन बलिं ददेत्ब्रह्मादिदेवताश्चैव पूजयेद् विधिवत् सह ॥९॥वास्तुहोमं ततः कृत्वा तृप्त्यर्थं वास्तुदेवताःशुद्धिं कृत्वा ततः पश्चात्पर्यग्निकरणं गृहम् ॥१०॥जलसंप्रोक्षणं कुर्यात्पुण्याहं वाचयेत्ततःपञ्चगव्येन संप्रोक्ष्य स्थपतिः स्थापकैः सह ॥११॥पञ्चानां प्रत्यकुर्वीत पादप्रक्षालनक्रियाविधिवदाचमनं कृत्वा मण्डपान्तः प्रविश्यतु ॥१२॥स्थण्डिले मण्डलं कृत्वा प्रस्तरे शुद्धशालिभिःनवेन वारिकुम्भानि शुद्धतोयेन पूरयेत् ॥१३॥सूत्रेण नववस्त्रेण कुम्भानां परिवेष्टयेत्नालिकेरफलद्यैश्च युक्तं कूर्चैश्च पल्लवैः ॥१४॥पञ्चविंशपदं न्यस्य शुद्धतण्डुल कारयेत्कुशदर्भान्परिस्तीर्य तण्डुले चोक्तवत्क्रमात् ॥१५॥ब्रह्मादिनवकुम्भाश् च तण्डुलोपरि विन्यसेत्स्वर्णेन प्रतिमां कृत्वा देवतानां विशेषतः ॥१६॥तत्तद्वस्त्रेषु संवेष्ट्य तत्तन्मन्त्रेण पूजयेत्उपवासमुपक्रम्य कर्ता स्वगृहिणी सह ॥१७॥पीत्वा शुद्धं पयो रात्रावुपोष्य दिवसे पुनःगृहिणीभर्तृहस्तौ च गृहस्तम्भ स्वयं करे ॥१८॥रक्षाबन्धं ततः कुर्याद् वाचयेत्स्वस्तिवाचकम्तत्तद्वाहनादीनां च यत्प्रधानायुतापि च ॥१९॥दिवा वा रात्रिकाले वा कुर्यात्तदधिवासनम्साङ्कुराः पालिकाः सर्वाः स्थण्डिलोपरि विन्यसेत् ॥२०॥ब्रह्मादिदेवतानां च पूजयेत्स्थपतिर्बुधःतत्तत्स्वनाममन्त्रेण प्रणवादिनमोऽन्तकम् ॥२१॥हृल्लेखां मध्यकुम्भे तु पूजयेद् विधिवद् बुधःगन्धपुष्पैः समभ्यर्च्य धूपदीपं ददेत् पुनः ॥२२॥पायसो दनशस्यादीन् ताम्बुलादि निवेदयेत्नृत्तगीतादिवाद्यादिजयशब्दादिमङ्गलैः ॥२३॥अग्निकार्यं ततः कुर्यात्स्थण्डिलं प्राग्दिशि तथाकुण्डे वा स्थण्डिले वापि समिदाज्यचरुं तिलम् ॥२४॥लाजकैश्चैव पञ्चैते प्रत्येकाष्टादशाहुतीःप्रणवादिस्वाहान्तं स्यात् शक्तिबीजं समुच्चरेत् ॥२५॥शक्तिगायत्रिमन्त्रेण पूर्णाहुतिं समाचरेत्अधिवासितकुम्भस्थजलेनैवाभिषेचयेत् ॥२६॥वेश्मद्वारन्तदी वेश्मकं गृहं प्रति गृहं प्रतिवाहनादीनि संप्रोक्ष्य स्थपतिस्थापकावुभौ ॥२७॥सर्वमङ्गलघोषैश्च स्वस्तिवाचनपूर्वकम्पश्चाद् गृहमङ्गलं कुर्यान्नानावस्त्रैश्च शोभितम् ॥२८॥वितानध्वजसंयुक्तं पुष्पमाल्यैरलङ्कृतम्स्थपतिर्वरवेषाढ्यः प्राप्तपञ्चाङ्गभूषणः ॥२९॥श्वेतानुलेपनं स्थाप्य स्वर्णयज्ञोपवीतवान्नवशुक्लांशुकोपेतः श्वेतांशुकोत्तरीयवान् ॥३०॥पादप्रक्षालनं कुर्यात्सकलीकरणं कृतम्धूपदीपं ददेत् पश्चाद् गन्धपुष्पाक्षतैः सह ॥३१॥ब्राह्मणैश्च यथाशक्ति वाचयेत्स्वस्तिवाचनम्यजमानस्य प्रीत्या च अन्यैरनुचरैः सह ॥३२॥गृहप्रदक्षिणं कुर्याज्जयशब्दादिमङ्गलैःगृहद्वारस्य पुरतः स्थित्वायान्तं च वाचरेत् ॥३३॥लक्ष्मीशं ततो नमस्कृत्य याचयेद्धिष्टमानकम्मन्त्रम्हे लक्ष्मि गृहकर्तारं पुत्रपौत्रधनादिभिः ॥३४॥संपूर्णं कुरु चायुष्यं प्रार्थयामि नमोस्तुतेएतन्मन्त्रं समुच्चार्य स्थपतिस्थापकावुभौ ॥३५॥यजमानाय पश्चात्तु दद्यान्नैवेद्यशेषकम्स्थपतिः स्थापकानां च विप्राणां च विशेषतः ॥३६॥दद्याद् दक्षिण ताम्बुलं तत्र सद्मप्रवेशनेतेभ्यः सह स्वपत्न्या चान्नक्षीरोदकादिभिः ॥३७॥नानाभूषणैर्दिव्यैः गन्धमाल्याम्बरादिभिःद्विजानां वेदघोषैश्च गीतनृत्तादिवाद्यकैः ॥३८॥छत्रचामरसंपूर्णकलशैर्दक्षिणादिभिःआरुह्य हयदिव्यादीन् यजमानस्य बन्धुभिः ॥३९॥अन्यैरनुचरैः सार्धं कुर्याद् ग्रामप्रदक्षिणम्ततः प्रवेशयेत्सर्वं सर्वमङ्गलघोषकैः ॥४०॥पश्चाद् बन्धुजनैः सार्धं कुर्याद् ब्राह्मणभोजनम्एवं गृहं तु संवेश्य पश्चात्तु स्थापकादिभिः ॥४१॥वस्त्रभूषणवाहादीन्दद्यात्कर्ता स्वहस्ततःस्थपतिः स्थापकान्येत्य युष्मभ्यः प्राप्तवान् गृहम् ॥४२॥इत्युक्त्वा यजमानाय पश्चात्तं च विवर्जयेत्आरुह्य ब्रह्मवाहं शुभमथ तच्छिल्पिमङ्घान् गजाद्यैः ॥४३॥अश्वैरुच्छ्रादिनानापरिकरसहितं दुन्दुभिभेदनादैःकर्ता नानानृसेनारथमपि विविधैश्चामरैः पुत्रसङ्घैः ॥४४॥यावद् गच्छन्ति तावत्स्वपुरिपरिसरं स ज्जयेद्विष्टकाद्यैः ॥४५॥इति मानसारे वास्तुशास्त्रे गृहप्रवेशविधानं नाम सप्तत्रिंशोऽध्यायः N/A References : N/A Last Updated : October 03, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP