संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्|
नगरविधानम्

मानसारम् - नगरविधानम्

'मानसारम्' वास्तुशास्त्रावरील एक प्राचीन ग्रंथ आहे.


भूपतीनां च सर्वेषामस्त्रग्राह्यादयः क्रमात्
वक्ष्ये संक्षिप्य तन्त्रेभ्यो नगरस्य तु लक्षणम् ॥१॥

शतदण्डं समारभ्य शतदण्डविवर्धनात्
शतत्रयावसानं स्याद्द्विशतदण्डं समारभेत् ॥२॥

चतुःशतकदण्डान्तं शतत्रय समारभेत्
पञ्चाशतावसानं स्यात्कन्यसादुत्तमान्तकम् ॥३॥

सहस्र द्विशताधिक्यं दण्डान्तं परिकल्पितम्
एकविंशद्विशालं स्यात्प्रत्येकं त्रिविधं भवेत् ॥४॥

अस्त्रग्राह्याख्यभूपस्य नगरस्य विशालकम्
दण्डं चतुःशतारभ्य शतपञ्चसमारभेत् ॥५॥

षट्शतं दण्डमारभ्य शतदण्डविवर्धनात्
सहस्र द्विशताधिक्यं दण्डान्तं पूर्ववद्भवेत् ॥६॥

एवं नगरविस्तारं प्राहारकस्य भूपतेः
सप्ताष्टनवशताद्यैः शतदण्डविवर्धनात् ॥७॥

सहस्रत्रयदण्डान्तं पूर्ववद्विस्तृतं भवेत्
पट्टभाग्भूपतेश्चैवमष्टाष्टैकोनसंख्यया ॥८॥

सहस्रं च शताधिक्यं सहस्र द्विशताधिकम्
सहस्र त्रिशताधिक्यं शतदण्डविवर्धनात् ॥९॥

सहस्रत्रिशतं नन्दं शतदण्डावसानकम्
पूर्ववत्प्रोक्तविस्तारं विस्तारं मण्डलेशके ॥१०॥

चतुःसहस्राष्टशतदण्डान्तं पूर्ववत्सुधीः
एतत्पट्टधरोयोग्यं नगरस्य विशालता ॥११॥

तथा पञ्चशताधिक्यं दण्डम् पञ्चसहस्रकम्
दण्डान्तं पूर्ववद्वृद्ध्या पार्ष्णी कस्य च नगरे ॥१२॥

षट्शतं षट्सहस्रं च दण्डान्तं पूर्ववद्भवेत्
नरेन्द्र स्यापि नगरं त्रिचतुष्टयस्य संख्यया ॥१३॥

षट्सहस्रं नवशतं दण्डान्तं पूर्ववद्भवेत्
महाराजस्य नगरमेवं प्रोक्तं तु पूर्ववत् ॥१४॥

शतद्वयसमायुक्तं दण्डान्तं सप्तसहस्रम्
चक्रवर्तेस्तु नगरं विशालं पूर्ववद्भवेत् ॥१५॥

अथवाऽयुतदण्डान्तं महती नगरी भवेत्
विस्तारार्धाधिकं वाऽथ पादूनद्विगुणं तु वा ॥१६॥

द्विगुणान्तं तदायामं नगरस्य तु विस्तृतम्
अथवा दण्डमानेन दण्डदण्डविवर्धनात् ॥१७॥

तद्विस्तारसमाधिक्यमायामं प्रविधीयते
खेटकखर्वटकादीनां मानं ग्रामोक्तवद्भवेत् ॥१८॥

सर्वेषां नगरादीनां भेदं लक्षणमुच्यते
नगरं राजधानीयं केवलं नगरं तथा ॥१९॥

पुरं च नगरी चैव खेट खर्वटमेव च
कुब्जकं पत्तनं चैव शिविरं वाहिनीमुखम् ॥२०॥

स्थानीयं द्रो णकं चैव संविद्धं कोलकं ततः
निगमं स्कन्धावारं च दुर्गं चाष्टविधं भवेत् ॥२१॥

नगरादीनि संग्रामं प्रोक्तदुर्गं च सत्तमम्
राष्ट्रमध्ये नदीतीरे बहुपुण्यजनावृतम् ॥२२॥

मध्ये राजयुतं चैव नगरं कृतमिष्यते
तत्रागते नगर्यन्तं यदि विष्ण्वालयं भवेत् ॥२३॥

राजधानीति तन्नाम विद्वद्भिर्वक्ष्यते सदा
चतुर्दिक्षु चतुर्द्वारं गोपुरैश्च समन्वितम् ॥२४॥

रक्षागृहैः समाकीर्णं विष्वक्सेनालयान्वितम्
वणिग्भिश्च समाकीर्णमापणैश्च समावृतम् ॥२५॥

अन्तर्बहिर्जनैः पूर्णा नानादेवालयैरपि
केवलं नगरं प्रोक्तं यदेतं तन्त्रपारगैः ॥२६॥

काननोद्यानसंयुक्तं नानाजनगृहान्वितम्
क्रयविक्रयविद्भिश्च वैश्यरवेणसंमितम् ॥२७॥

देवसप्तसमायुक्तं पुरमेतत्प्रकथ्यते
अस्यान्ते राजनिलय नगरीति तमिष्यते ॥२८॥

नदीपर्वत प्रान्ते शूद्रा लयसमन्वितम्
महाप्रावृतसंयुक्तं खेटमुक्तं पुरातनैः ॥२९॥

परितः पर्वतैर्युक्तं नानाजातिगृहैर्वृतम्
सर्वप्रचारसंयुक्तमेतत्खर्वटमीरितम् ॥३०॥

खेटखर्वटयोर्मध्ये सर्वमध्यालयान्वितम्
वप्राभावस्वते तत्तु कुब्जकमुदाहृतम् ॥३१॥

अब्धितीरप्रदेशे तु नानाजातिगृहैर्वृतम्
वणिग्जातिभिराकीर्णं क्रयविक्रयपूरितम् ॥३२॥

रत्नैर्द्वीपान्तरैर्नित्यैः क्षौमैः कर्पूरकादिभिः
एतत्पत्तनमाख्यातं वप्रायतसमन्वितम् ॥३३॥

अन्यभूपालभूम्यन्ते युद्धारम्भक्रियान्वितम्
सेनानामयुतानां च पृतनाभिः समन्वितम् ॥३४॥

तदेतच्छिविरं प्रोक्तं तन्त्रविद्भिः पुरातनैः
नानाजनैश्च संपूर्णं भूपहर्म्येण संयुतम् ॥३५॥

बहुरक्षसमोपेतमेतत्सेनामुखं भवेत्
नदीपार्श्वाद्रि संयुक्तं भूपालालयसंमितम् ॥३६॥

बहुरक्षसमायुक्तं नित्यं सन्नृपसंयुतम्
स्थानीयं सर्वविद्वद्भिः प्रोक्तं बहुसुखावम् ॥३७॥

समुद्रा तटिनीयुक्तं तटिन्या दक्षिणोत्तरे
वणिग्भिः सह नानाभिर्जनैर्युक्तं जनास्पदम् ॥३८॥

नगरस्य प्रतितटे ग्राहकैश्च समावृतम्
क्रयविक्रयसंयुक्तं द्रो णान्तरमुदाहृतम् ॥३९॥

महाग्रामसमीपे तु क्षुल्लकग्रामसंयुतम्
तद्ग्रामोत्तरनाखादमग्रहारोपजीविनाम् ॥४०॥

तस्मात्तु तत्र विद्वद्भिः संविद्धं तदुदीरितम्
महाराष्ट्रस्य मध्ये तु गृहं तत्कोलकात्मकम् ॥४१॥

द्विजातिचतुर्वर्णैर्वर्णान्तरजनैर्वृतम्
बहुकर्मकरैर्युक्तं निगमं तदुदाहृतम् ॥४२॥

नद्यादिकाननोपेतं बहुतीरजनालयम्
राजमन्दिरसंयुक्तं स्कन्धावारमुदाहृतम् ॥४३॥

पार्श्वे चान्यद्विजातीनां गृहं तश्चेरिकोदितः
शत्रुभूपालहित्यर्थं नृपरक्षणदुर्गकम् ॥४४॥

वक्ष्ये यथाक्रमं सर्वाणि दुर्गाणि दुर्गकम्
गिरिदुर्गं वनदुर्गं सलिलं पङ्कदुर्गकम् ॥४५॥

रथादुर्गं देवदुर्गं मिश्रदुर्गं तथैव च
पर्वतावृतमध्ये पर्वतस्य समीपके ॥४६॥

पर्वताग्रप्रदेशे तु गिरिदुर्गमिति त्रिधा
तलपर्जन्यान्तरोयुक्तं गगनं च प्रवेशनम् ॥४७॥

एतत्तु वनदुर्गं स्याज्जलदुर्गमिहोच्यते
समुद्रै श्च नदीभिश्च संवृतं जलदुर्गकम् ॥४८॥

पर्वतं कन्दरैर्युक्तं दुष्प्रवेशं च शत्रुभिः
दुर्गं तु कृत्वा नृपतिस्तिष्ठेत्तत्पङ्कदुर्गकम् ॥४९॥

वनाभावे जलाभावे सर्वशून्यादिदूषकम्
चोरैश्च सङ्गुलस्थानं निग्रामं रथदुर्गकम् ॥५०॥

ब्रह्मराक्षसवेतालं भूतप्रेतादिभैरवैः
शिलावर्षं प्रवर्षन्तीरा लोक्य वेशनिर्गमे ॥५१॥

मन्त्रतन्त्रादिसामर्थ्यैः कृतान्तं देवदुर्गकम्
अनेकपर्वतोपेतं नानावनसमिश्रकम् ॥५२॥

तत्रास्थितं तु तद्दुर्गं मिश्रदुर्गमिति स्मृतम्
सर्वेषामपि दुर्गाणां वप्रैश्च परिघैर्वृतम् ॥५३॥

प्रवेशनिर्गमस्थाने द्वारैरपि समन्वितम्
इष्टकादिकृतं वप्रं हस्तद्वादशकोच्छ्रितम् ॥५४॥

तदर्धभित्तिमूले तु संचारैः सह विस्तृतम्
नगराणां तु सर्वेषां वक्ष्ये विन्यासलक्षणम् ॥५५॥

प्राक् प्रत्यग्गतमायामं दक्षिणोत्तरसमन्वितम्
एकरथ्यां समारभ्य एकैकं वीथिवर्धनात् ॥५६॥

वीथिद्वादशपर्यन्तं युग्मायुग्मं प्रकल्पयेत्
अम्यान्यानुक्तविन्यासं ग्रामे पूर्वोक्तवत्कुरु ॥५७॥

वस्तुवानियं ज्ञात्वोहापोहेन योजयेत्
एवं तु नगरं प्रोक्तं शिल्पिनां कारयेत्क्रमात् ॥५८॥

इति मानसारे वास्तुशास्त्रे नगरविधानं नाम दशमोऽध्यायः

N/A

References : N/A
Last Updated : October 01, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP