संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| प्रतिमाविधानम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - प्रतिमाविधानम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत प्रतिमाविधानम् Translation - भाषांतर षोडशप्रतिमादीनां विष्णुविभवसर्वतःउष्णीषात्पादपर्यन्तं मानं संक्षिप्यतेऽधुना ॥१॥लिङ्गमानवशाद् विष्णुमूलबेरवशात्क्रमात्उत्तमं मध्यमं सार्धगर्भगेहविशालके ॥२॥हर्म्यतारवशाद् द्वारं वंशाधिष्ठानपादुकेहस्तमानवशाद् गृह्यं तालमानावतालके ॥३॥यजमानवशान्मूलबेरलिङ्गाङ्गुलं तथामानाङ्गुलवशान्मानं मानद्वादशभेदकम् ॥४॥लिङ्गमानादिषण्मानं भोगमानं सिद्धिदम्हस्तादिवशान्मानं भोगमोनं प्रशंसितम् ॥५॥अङ्गुलं मुक्तिकामस्य कर्तुरिच्छावशान्नयेत्तस्मात्तन्मूललिङ्गादिमानं मानधृतमुच्यते ॥६॥लिङ्गे स्वयंभुवे ज्ञात्वा मानुषे च द्विधा भवेत्स्वयंभुलिङ्गे तु शिरोमानं च संग्रहम् ॥७॥परिणाहे यथा स्थूलं देशे विस्तारं मानयेत्मानुषं लिङ्गतुङ्गे तु तच्छिरोमानकं त्यजेत् ॥८॥विस्तारे परिणाहे तु यदिच्छं देहं गृह्यतेएवं लिङ्गद्वयोत्तुङ्गे पीठमानं त्यजेद् बुधैः ॥९॥लिङ्गशुद्धोदयं वाथ तत्तन्नाहसमं भवेत्केचित्तत्त्रियमानं तु षोडशांश विभाजिते ॥१०॥तत्तदंशेन वृद्धिः स्याद्धीनं वा देशकान्तकम्अथवा तत्तदंशेन लोकभूततलांशकम् ॥११॥नवमेकादशं चैव द्व्यधिक्यं वाध हीनकम्एवं लिङ्गवशात्प्रोक्तं विष्णुबेरवशोच्यते ॥१२॥मूलबेरसमं वापि नेत्रान्तं वा पुटान्तकम्हन्वन्तं बाहुसीमान्तं स्तनान्तं हृदयान्तकम् ॥१३॥नाभ्यन्तं मेढ्रसीमान्तं नवमानम् चोत्सवोदयम्तदर्धं कौतुकोत्सेधं कन्यसादि त्रयं त्रयम् ॥१४॥शुद्धगर्भगृहं कृत्वा नन्दनन्दोदयं भवेत्तदेवं नवमानं स्यान्नवतिविधमानकम् ॥१५॥एवं गर्भगृहमानवशान्मानं प्रकल्पयेत्प्रासादविधृते मानं गर्भगेहप्रमाणवत् ॥१६॥शुद्धद्वारोदयं वाथ विस्तारे मे व वातत्पादाधिकहीनं वा तत्तयोर्मध्यमानके ॥१७॥समं वा पादमाधिक्यं द्वारमानं दशोदयम्अधिष्ठानोदयं चैव पादतुङ्ग द्वयं ततः ॥१८॥प्रत्येकं नवधा कृत्वा नवमानमुदीरितम्हस्तादिनवहस्तान्तं हस्तमानवशोदयम् ॥१९॥तालादिनवतालान्तं नवतालादिमानकम्मुष्ट्यादि नवमुष्ट्यन्तं मुष्टिमाननवोदयम् ॥२०॥कर्तृतुङ्गसमं वापि नेत्रान्तं च पुटान्तकम्हन्वन्तं स्कन्धसीमान्तं स्तनान्तं हृदयान्तकम् ॥२१॥स्यात्कर्तृमानं नवोदयम्एतेषां चाष्टमानं तज्जात्यंशैस्तु नियोजयेत् ॥२२॥तन्मानं शिल्पिभिः प्राज्ञा षट्शुभायादि कारयेत्अशुभायादिकं चोक्तं त्रिंशद्भाग विभाजिते ॥२३॥तद्भागैकेन वृद्धिः स्याद् यश् शुभायादिसंभवम्सकलं चोत्सवादीनां यश् शुभांशावसानकम् ॥२४॥अंशकं मानमेवोक्तमङ्गुलैर्मानमुच्यतेयल्लिङ्गतुङ्गं संग्राह्य चतुर्विंशच्छतान्तकम् ॥२५॥लिङ्गाङ्गुलमिति प्रोक्तं बेरं तालवशादपिकृत्वा बेराङ्गुलं प्रोक्तं मानाङ्गुलमिहोच्यते ॥२६॥यवताराष्टमात्रं स्याद् देवानामङ्गुलं भवेत्मध्यं मुनियवाङ्गुल्यं षट्पञ्चाङ्गुलायतम् ॥२७॥मानाङ्गुलमिति प्रोक्तं देहलब्धाङ्गुलं भवेत्अङ्गुलद्वयमारभ्य जात्यंशम विनोदयम् ॥२८॥द्वित्र्! यङ्गुलं समारभ्य मध्यं भूताङ्गुलारभेत्सप्ताङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥२९॥पञ्चविंशच्छतान्तं स्याद् यश् शुभायादिसंभवम्नागं नन्दं गुणं चाष्टनववेदगुणस्तथा ॥३०॥भानुपङ्क्त्यष्टहर्मौ निनन्दक्षयं क्रमात्शेषमायामयोन्यं च नक्षत्रं वारमंशकम् ॥३१॥दरिद्रं दारनाशं च श्रीकं विजयाद्भुतम्भुक्तिं मुक्तिं च भोगं च अर्थलाभद्वयावहम् ॥३२॥कीर्तिदं पुष्कलं चैव द्वादशायां च तत्फलम्सिद्धिदं विजयं चैव श्रीकरं चार्थहानिकम् ॥३३॥भोगं च शत्रुनाशं च चक्षुमायार्थलाभकम्मुदितं सौख्यकं चैव दशधा वेथतत् फलम् ॥३४॥आयं सर्वहरं पुण्यं व्ययं सर्वहरं सुखम्आयाधिक्यं व्ययं हीनं सर्वसंपत्क सदा ॥३५॥यत्फलं शुभयुक्तं चेदायहीनं तदूषणम्पूज्यं व्ययं सममेवं तत्र दोषो न विद्यते ॥३६॥ध्वजः सिंहो वृषो हस्ति स तेषां शुभयोनयःजन्मद्वयं चतुःषष्टिभिरष्टनन्दशुभक्षतम् ॥३७॥नामजन्मादिनन्दं च गणनैस्तु विधीयतेकर्तृराश्यादिनाश्यं च सेना द्वितीयान्तकम् ॥३८॥तृतीये मानजक्षादौ पूर्ववद् गणनैस्तु वातस्मात्तृतीयपर्यन्तमृक्षैः सर्वशुभावहम् ॥३९॥गुरुशुक्रबुधचन्द्र मुख्यवारं प्रशस्यतेतस्करोधन षण्डश्च प्रेष्यान्यानि शुभांशकम् ॥४०॥वर्ज्यं षष्ठाष्टमं राशिमन्यत्सर्वं शुभं भवेत्गस् सर्वशुभं प्रोक्तं मानुषासुरं वर्जयेत् ॥४१॥एकनेत्रं द्विनेत्रं वा संयुक्ता सं विसर्जयेत्शुभयोगं शुभमेवं मृत्युयोगविनाशनम् ॥४२॥यत्र दोषो गुणाधिक्यं तत्र दोषो न विद्यतेतेषामधिकगुणं वानं सर्वदोषकरं भवेत् ॥४३॥तस्मात्परिहरेद् विद्वान् जनमेवं प्रकल्पयेत्तन्मात्राङ्गुलमानोच्चमात्मार्थं प्र यम् ॥४४॥कुर्यादायादि सर्वेषां चोक्तवच्छिल्पिवित्तमःअन्यान्यमन्यतो ग्राह्यं चोक्तवत्तत्र वित्तमः ॥४५॥ब्रह्माविष्णुरुद्रा णां बुधस्य जनकस्य चअन्यैश्च व मानं तु संग्रहम् ॥४६॥एवं तु चोत्सवादीनां स्थावरं जङ्गमादिनः ॥४७॥इति मानसारे वास्तुशास्त्रे प्रतिमाविधानं नाम चतुःषष्टितमोऽध्यायः N/A References : N/A Last Updated : October 07, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP