संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| जैनलक्षणम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - जैनलक्षणम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत जैनलक्षणम् Translation - भाषांतर सुगतजैनकादीनां लक्षणं मानपूर्वकम्संक्षिप्य लक्ष्यतेऽधुना मानसारस्य संग्रहम् ॥१॥मानं चापि प्रमाणं च परिमाणं लम्बमानकम्उन्मानमुपमानं च मानं पद्मं समीरितम् ॥२॥पादाङ्गुष्टिससीमान्तं मानं चापि प्रकथ्यतेप्रमाणं विस्तृतं प्रोक्तं परितः परिमाणकम् ॥३॥तत्सूत्राल्लम्बमानं स्यान्निन्ममुन्मानमुच्यतेअन्तरे उपमानं स्याद्बिम्बोदयादि सर्वशः ॥४॥मानमेवं तु षट्भेदं मानेनाङ्गानि मानयेत्आदिमानविधिं सम्यग्लक्षणं च इहोच्यते ॥५॥हर्म्यतारवशान्मानं गर्भगेहवशोदयम्द्वारमानवशात्तुङ्गमधिष्ठनवशोदयम् ॥६॥हस्तमानवशान्मानं तालमानवशोदयम्अङ्गुलेनाभि चोत्तुङ्गं यजमानवशोदयम् ॥७॥मूलबेरवशान्मानमुत्तमादि त्रयं त्रयम्एवं तु नवदेशे च महामानं तु संग्रहम् ॥८॥हर्म्यमानं चतुर्मानं भोगमोक्षार्थकादिनाम्हस्ततालवशान्मानं भोगमोक्षप्रदायकम् ॥९॥अङ्गुलानां तु यन्मानं कुर्यात्तु मोक्षकादिनाम्कर्तृबिम्बवशान्मानं सर्वसिद्धोदयं विदुः ॥१०॥कर्तरी चानुवर्तन्ते कायत्वादिमानकम्तस्मादेवं तु प्रत्येकं नवमानमिहोच्यते ॥११॥हर्म्यतारं नवांशेन चैकैकं बेरतुङ्गकम्स्थावरं जङ्गमं चैव कन्यसादि त्रयं त्रयम् ॥१२॥गर्भगेहसमं श्रेष्ठं नवांशैकांशं कन्यसम्द्वारतुङ्गविशाले तु नवमानं तु पूर्ववत् ॥१३॥अधिष्ठानसमं श्रेष्ठं कन्यसान्तं नवोदयम्हस्तादि नवहस्तान्तं कन्यसादि त्रयं त्रयम् ॥१४॥एकतालं समारभ्य नवतालावसानकम्कन्यसादुत्तमान्तं स्याद्यजमानोदयं परम् ॥१५॥केशान्तं नासिकाग्रान्तं हन्वन्तं बाहुसीमकम्स्तनान्तं हृदयान्तं च नाभ्यन्तं मेढ्रसीमकम् ॥१६॥नवधा कन्यसान्तं स्यात्स्थावरं जङ्गमोदयम्मूलबेरवशं मानमुत्सवोदयमीरितम् ॥१७॥मूलबेरोदयं श्रेष्ठं त्रिपादं मध्यमं भवेत्तुङ्गार्धं कन्यसं प्रोक्तं त्रिविधं चोत्सवोदयम् ॥१८॥अथवा तेन मानेन षोडशांशं विभाजितेएकैकांशकं तस्मात्पञ्चविंशांशकान्तकम् ॥१९॥कन्यसादुत्तमान्तं स्यान्नवमानमुत्सवोदयम्अथवा मूलबेरस्य केशान्तं तु भ्रुवान्तकम् ॥२०॥नेत्रान्तं नासिकाग्रान्तं हन्वन्तं बाहुसीमकम्स्तनान्तं हृदयान्तं च नाभ्यन्तं च नवोदयम् ॥२१॥कन्यसादुत्तमान्तं स्यान्नव तदुत्सवोदयम्उत्सवे चार्धमानेन कौतुकोदयमीरितम् ॥२२॥तन्मानं चाष्टभागैकं नवभागावसानकम्कन्यसादुत्तमान्तं स्यान्नवमानं कौतुकोदयम् ॥२३॥हर्म्यादि चाष्टधा मानमायाद्यर्थांशं कारयेत्यथासंग्रहमानैश्च शतभागं विभाजिते ॥२४॥एकैकांशाधिकं त्रिंशच्छतभागावसानकम्स्थावरजङ्गमादीनां शुभायादिसंभवम् ॥२५॥तदूर्ध्वे जात्यद्रं शसंयुक्तं विधिवद् बुधःमूलबेराङ्गुलं चैव मानाङ्गुलमेव वा ॥२६॥मात्राङ्गुलं ततः प्रोक्तमङ्गुलं त्रिविधं भवेत्चतुर्विंशच्चतुर्भागं मूलबेरोदयं भवेत् ॥२७॥मूलबेराङ्गुलं चैव मानयेदुत्सवोदयम्यवताराष्टमात्रं स्यान्मानाङ्गुलमिति स्मृतम् ॥२८॥कर्तुर्दक्षिणहस्तस्य मध्यमाङ्गुलमध्यमेपर्वदीर्घं ततन्नाहं मात्राङ्गुलमुदीरितम् ॥२९॥एवं त्रिविधमुत्कृष्टं मध्यमष्टांशहीनकम्त्रिपदं कन्यसं प्रोक्तं नवभेदाङ्गुलं भवेत् ॥३०॥स्थावरं जङ्गमं मानं मानाङ्गुलेन मानयेत्मात्राङ्गुलेन चात्मार्थं बेरमानं प्रकल्पयेत् ॥३१॥एकादशाङ्गुलमारभ्य द्विद्व्यङ्गुलविवर्धनात्त्रयोस्त्रिंच्छतान्तं स्याद् देहलब्धाङ्गुलेन वा ॥३२॥नवाङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात्त्रयोविंशच्छतान्तं स्यान्मानाङ्गुलेन मानयेत् ॥३३॥सप्ताङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात्त्रयोदशशतानतं स्यान्मानाङ्गुलेन मानयेत् ॥३४॥अङ्गुलानां तु सर्वेषां जात्यंशकं विवर्जयेत्कुर्यादायादिषड्वर्गमुक्तवच्छिल्पिवत्तमः ॥३५॥स्थावरं जङ्गमं चैव लक्षणं वक्ष्यतेऽधुनाद्विभुजं च द्विनेत्रं च मुण्डतारं च शीर्षकम् ॥३६॥ऋजुस्थानकसंयुक्तं तथा चासनमेव चसमाङ्घ्रि ऋजुकारं स्याल्लम्बहस्तद्वयं तथा ॥३७॥आसनं च द्विपादौ च पद्मासनं तु संयुतम्ऋजुकं च ऋजो भावं योगे तत्परमान्तकम् ॥३८॥सव्यापसव्यहस्तं च मूलोर्ध्वोर्ध्वमुखं करौस्थानकं चासनं वापि सिंहासनोपरि न्यसेत् ॥३९॥अपरे तु निर्यूहं कुर्यान्मकरतोरणंतदूर्ध्वं कल्पवृक्षं स्यात्सहजेन्द्र स्वरैः सह ॥४०॥नारदादि ऋषीन्देवान्देवाङ्गुनाभिः सह सेवितान्यक्षविद्याधराद्यैश्च चक्रमन्यत्र भूपतिम् ॥४१॥नगेन्द्रा दि च दिक्पालान्यक्षैश्च सहसेवितान्यक्षयक्षेश्वरौ पार्श्वे चामरोद्धृतसेवितान् ॥४२॥चतुत्रियान्तरिक्षे तु तस्याधो जिनदेवतान्स्फटिकश्वेतरक्तं च पीतश्यामनिभ तथा ॥४३॥सिद्धादिश्च सुगन्धश्च जनं चाह तुपार्श्वकम्एतत्पञ्चपरमेष्टी पञ्चबेरं यथाक्रमम् ॥४४॥उत्तमं दशतालेन देवाङ्गैः सह मानयेत्चतुर्विंशतितीर्थानां दशतालेन कारयेत् ॥४५॥निराभरणसर्वाङ्गं निर्वस्त्राङ्गं मनोहरम्समवक्षःस्थले हेमवर्णं श्रीवत्सलाञ्चनम् ॥४६॥द्वारे चण्ड महाचण्डं कुर्यात्सव्यापसव्यकेएवं तु जिनमित्युक्तं शेषमागमतोक्तवत् ॥४७॥इति मानसारे वास्तुशास्त्रे जैनलक्षणविधानं नाम पञ्चपञ्चाशदध्यायः N/A References : N/A Last Updated : October 07, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP