संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| एकादशतलविधानम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - एकादशतलविधानम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत एकादशतलविधानम् Translation - भाषांतर एकादशतलं सम्यग् लक्षणं वक्ष्यतेऽधुनाशम्भुकमीशकान्तं च चक्राख्यं यमकान्तकम् ॥१॥वज्रकान्तार्ककान्तं चक्र माद्धर्म्यनामकम्रुद्र हर्म्ये तले तारे चैकोनविंशदंशकम् ॥२॥कूटानां च द्विभागं स्यान्महाशाला नवांशकम्अनुशाला युगांशं स्याद्धारा च द्विद्विभागिकम् ॥३॥महाशाला च मध्ये तु भद्र शालैः शरांशकम्शम्भुकान्तमिति प्रोक्तं सर्वालङ्कारसंयुतम् ॥४॥तदेव नासिकामध्ये तु द्विभागं भद्र संयुतम्ईशकान्तमिति प्रोक्तं क्षुद्र हर्म्यादिमीरितम् ॥५॥मध्यमेकादशतले त्रिंशद्भागविशालकम्महाशाला दशांशं स्यान्मध्यभद्रं शरांशकम् ॥६॥तत्पार्श्वे एकैकभागेन कूटं हारा सपञ्जरम्तदेव वेदभागेन भद्र शाला च मध्यमे ॥७॥शेषं प्रागुक्तवत्कुर्याच्चन्द्र कान्तमिति स्मृतम्तदेव कूटैकभागं स्यादनुशाला पञ्चभागिकम् ॥८॥त्रिपादं भद्र संयुक्तं तत्त्रिभागैकभागिकम्यमकान्तमिति प्रोक्तं सर्वालङ्कारसंयुतम् ॥९॥श्रेष्ठहर्म्यविशालेतु चैकविशति भाजितेद्विद्विभागेन कूटं स्याद्धारं च द्विद्विभागतः ॥१०॥हारा च तद्द्वयोर्मध्ये चानुशाला शरांशकम्तन्मध्ये कूर्मभागेन भद्रं कुर्याद्विचक्षणः ॥११॥महाशालानवांशेन मध्ये भद्रं शरांशकम्तन्मध्ये भद्र शाला च बन्धभागेन योजयेत् ॥१२॥एवं तु वज्रकान्तं स्यादर्ककान्तमिहोच्यतेतदेव शालाप्रान्ते तु पार्श्वे चैकेन सौष्टिकम् ॥१३॥तद्द्वयोरन्तरे देशे तत्समं क्षुद्र हारयोःपूर्ववत्कूटविस्तारं शेषं हारं सपञ्जरम् ॥१४॥तन्मध्ये तु त्रिभागेन क्षुद्र शालाविशालतःतत्पार्श्वे त्रित्रिभागेन हारमध्ये सभद्र कम् ॥१५॥क्षुद्र शालात्रिभागेन मध्यभद्रं समन्वितम्क्षुद्र हारा च सर्वेषां नासिकापञ्जरान्वितम् ॥१६॥मध्ये मध्ये महानासि नेत्रशाला च पार्श्वयोःसर्वालङ्कारसंयुक्तं षड्विधं परिकीर्तितम् ॥१७॥शेषभागं तु सर्वेषां युक्त्या तत्रैव योजयेत्एवं विस्तारगण्यं स्यात्तुङ्गगण्यमिहोच्यते ॥१८॥जन्मादिस्तूपिपर्यन्तं क्तवत्संग्रहं विदुःएकादशांशभागेन दशतलोदयाधिकम् ॥१९॥तदेव सार्धबन्धांशं मसूरकोत्तुङ्गमिष्यतेसप्तांशं पाददीर्घं स्यात्तदर्धं प्रस्तरोदयम् ॥२०॥शेषं प्रागुक्तवद्गण्यमेकादशतलोदयेतलोर्ध्वोर्ध्वतले सर्वे कर्णहर्म्यादिमण्डितम् ॥२१॥एकभाग द्विभागं वा परितोऽलिन्दमिष्यतेनानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ॥२२॥शालाकूटैश्च हारैश्च उक्तवत्समलङ्कृतम्हारान्तरे तु कूटशाला च ग्रीवदेशोक्तदेवतान् ॥२३॥अनुशालाष्टदिक्पालांस्तत्तद्वाहनसंयुतम्यक्षविद्याधरादीनां गरुडादीनि विन्यसेत् ॥२४॥गणाधिपगणैश्चैव सर्वहर्म्येषु निक्षिपेत् ॥२५॥इति मानसारे वास्तुशास्त्रे एकादशतलविधानं नाम नवविंशोऽध्यायः N/A References : N/A Last Updated : October 03, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP