संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| सप्ततलविधानम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - सप्ततलविधानम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत सप्ततलविधानम् Translation - भाषांतर सप्तभूमिविधानस्य लक्षणं वक्ष्यतेऽधुनाविस्तारोत्सेधमानं च पूर्ववत्परिकल्पयेत् ॥१॥जन्मादिस्तूपिपर्यन्तं समानानि विभाजितेभागोनषट्षडंशं स्याद्विंशाधिष्ठानोच्छ्रयम् ॥२॥तद्द्वयं पादतुङ्गं स्यात्प्रस्तरोच्चं कलांशकम्तदूर्ध्वे सार्धबन्धांशं तदर्धं प्रस्तरोदयम् ॥३॥गुणांशं पादतुङ्गं स्यात्सार्धभागोर्ध्वमञ्चकम्सार्धयुग्मांशपादोच्चं सपादांशं प्रस्तरोदयम् ॥४॥वेदिकोच्चार्धभागं स्यात्सपादांशं गलोदयम्वरणोर्ध्वं त्रिभागं स्यान्मञ्चोर्ध्वमम्बरांशकम् ॥५॥पादोनद्विशपादोच्चं शिवांशं प्रस्तरोदयम्अत्यर्धं पादतुङ्गं स्यान्मञ्चोर्ध्वं तु तदर्धकम् ॥६॥वेदिकोच्चार्धभागं स्यात्सपादांश गलोदयम्तद्द्वयं शिरतुङ्गं स्याच्छेषं तु तच्छिखोदयम् ॥७॥पूर्ववद्भक्तिमानेन विस्तारे तत्प्रकल्पयेत्क्षुद्रे च मध्य मुख्ये च कूटशालादिभागता ॥८॥एकं वाथ द्विभागं कर्णकूटविशालकम्षट्सप्ताष्टनवांशं वा शालायामं तु मध्यमे ॥९॥शालाकूटद्वयोर्मध्ये शेषांशं चान्तरालकम्तन्मध्ये द्वित्रिभागैकं क्षुद्र शालाविशालता ॥१०॥तत्तत्पार्श्वद्वयोर्हारे शेषभागं विधीयतेतदूर्ध्वे चैकभागेन कुर्यादावृतालिन्दकम् ॥११॥तले तले च पादौ च कर्णहर्म्यादिमण्डितम्पुण्डरीकमिदं प्रोक्तं सर्वालङ्कारसंयुतम् ॥१२॥मध्ये तु भद्र शालं च श्रीकान्तमिति स्मृतम्ऊर्ध्वशाला च संयुक्तं श्रीभोगमिति कथ्यते ॥१३॥शालापार्श्वे तु कूटं स्याद्धारणं तत्प्रकथ्यतेगलकूटसमायुक्तं पञ्जराख्यमुदीरितम् ॥१४॥तले तले भद्र कोष्ठाश्रमागारं परिकीर्तितम्मञ्चयुग्मं तु संयुक्तं हर्म्यकान्तमिति स्मृतम् ॥१५॥ऊर्ध्वकूटसमायुक्तं हिमकान्तमिति स्मृतम्एतदष्टविधं प्रोक्तं सप्तभूमिविधानके ॥१६॥तले तले तु कोष्ठं स्यात्कर्णकूटाद्यलिन्दकम्क्षुद्र शालादिसर्वेषां वेदिकाभिरलङ्कृतम् ॥१७॥तोरणैर्नासिकैर्युक्तं क्षुद्र नास्यैश्च भूषितम्नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ॥१८॥नानाप्रस्तरसंयुक्तं जालकाभिरलङ्कृतम्एकाङ्गं च त्रयाङ्गं वा पञ्चसप्ताङ्गमेव वा ॥१९॥एवं सप्ततलं प्रोक्तं शेषं प्रागुक्तवन्नयेत्देवानां पूर्ववत्कुर्यात्तए तले विमानके ॥२०॥इति मानसारे वास्तुशास्त्रे सप्ततलविधानं नाम पञ्चविंशोऽध्यायः N/A References : N/A Last Updated : October 03, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP