संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| शङ्कुस्थापनलक्षणम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - शङ्कुस्थापनलक्षणम् 'मानसारम्' वास्तुशास्त्रावरील एक प्राचीन ग्रंथ आहे. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत शङ्कुस्थापनलक्षणम् Translation - भाषांतर अथातः संप्रवक्ष्यामि शङ्कुस्थापनलक्षणम्आदित्योदयकाले तु शङ्कुस्थापनमारभेत् ॥१॥उत्तरायणमासे तु दक्षिणायनमेव वाशुक्लपक्षे यथा कृष्णपक्षे शुभतमे दिने ॥२॥पौर्णमीं चाप्यमावास्यां वर्जयेत्सुमुहूर्तकेप्रभाते स्थापयेच्छङ्कुमपराह्णात् ततः स्थितम् ॥३॥स्थापनात्पूर्वदिवसे स्थलशुद्धिं प्रकारयेत्आप्तभूमध्यदेशे तु चतुरश्रं समन्ततः ॥४॥चतुर्हस्तप्रमाणेन विश्वतः सलिलस्थलम्कृतमाल शमीशाखा चन्दनं रक्तचन्दनम् ॥५॥खदिरं तिन्तुकं चैव शङ्कुदारु प्रकीर्तिताश्वेतक्षीरिणि वृक्षं वा शुभदन्तमथापि ॥६॥शङ्कायामं तु हस्तं स्यान्मूलतारं रसाङ्गुलम्अग्रतारं द्विमात्रं स्यान्मूलाग्रान्तं क्षयं क्रमात् ॥७॥सुवृत्तं निर्व्रणं चैव छत्राकारं तदग्रकम्एवं तु चोत्तमं शङ्कुं मध्यमं तत्प्रवक्ष्यते ॥८॥अष्टादशाङ्गुलायामं मूलतारं शराङ्गुलम्अग्रमेकाङ्गुलं तारं शेषं प्रागुक्तवन्नयेत् ॥९॥कन्यसं द्वादशाङ्गुल्यं शङ्कायामं विशेषतःचतुरङ्गुलविस्तारं मूलमग्रं त्रयाङ्गुलम् ॥१०॥अथवायामसंमूले नाहमग्रे नवाङ्गुलम्शेषं पूर्ववदुद्दिष्टं स्वीकरीकृतभूतले ॥११॥तन्मध्ये बिन्दुतत्त्वज्ञो शङ्कायामद्वयेन चभ्रामयेन्मण्डलं कुर्यात्तन्मध्ये शङ्कुमर्पयेत् ॥१२॥पूर्वाह्णे शङ्कुतश्छायां पश्चिमे मण्डलान्तकम्तत्रैव बिन्दुसंज्ञाश्च कुर्यात्तु शिल्पिवित्तमः ॥१३॥पराह्णे शङ्कुतश्छायां पूर्वदिङ्मण्डलान्तकेपूर्ववद्बिन्दु संस्थाप्य पश्चाच्छङ्कुं त्यजेत्ततः ॥१४॥शङ्कायामषडाधिक्यनवत्यंशविभाजितेतस्यांशेन अपच्छायां त्यक्त्वा प्राचीं नयेत्ततः ॥१५॥कन्यावृषभमासौ च अपच्छाया न विद्यतेमेषे च मिथुने चैव तुलासिंहचतुष्टये ॥१६॥एवं हि द्व्यङ्गुलं न्यस्तं वृश्चिकाषाढमीनयोःचतुरङ्गुलं प्रकर्तव्यं धनुःकुम्भौ षडङ्गुलम् ॥१७॥मकरेऽष्टाङ्गुलं प्रोक्तमवच्छायां विशेषतःछायायां बिन्दुवामे दक्षिणे चोक्ताङ्गुलं न्यसेत् ॥१८॥अङ्गुलान्ते तु यच्छुद्धं प्राचीसूत्रं प्रयोजयेत्मकरादि च षण्मासे छाया दक्षिणतो भवेत् ॥१९॥कुलीरादि च षण्मासे छाया चोत्तरतो दिशिछायाया अभिमुखे प्रत्यग्वामे वामं न्यसेद्यते ॥२०॥पूर्वे च दक्षिणे नीत्वा प्रत्यग्वामाङ्गुलान्न्यसेत्अपच्छायां त्यजेच्छिल्पी प्राक् प्रत्यक् सूत्र विन्यसेत् ॥२१॥तत्सूत्रात्पूर्वदिग्देशे नीत्वा चोत्तरतो दिशिएवं मीनविवृद्धिः स्यात्पुरतोऽङ्गुलमेव च ॥२२॥तत्सूत्राद्दक्षिणे सौम्यं तस्य द्वारं प्रकल्पयेत्मत्स्यपुच्छानने न्यस्तं सूत्रं स्याद्दक्षिणोत्तरम् ॥२३॥मण्डलावधिदेशे तु नीत्वा सूत्राङ्गुलं न्यसेत्मासानां पङ्क्तिपङ्क्तेश्च दिवसानां त्रिधा त्रिधा ॥२४॥विद्यमानावच्छाया पच्छायां चोच्यतेमेषे च प्रथमे पङ्क्ते द्व्यङ्गुलं च विसर्जयेत् ॥२५॥मध्ये दशदिने चैकं चान्त्ये पङ्क्त्याङ्गुलं विनावृषभे प्रथमदशके दिवसे त्वङ्गुलं नहि ॥२६॥मध्ये चैकाङ्गुलं प्रोक्तं पङ्क्त्यन्ते द्व्यङ्गुलं त्यजेत्मिथुने प्रथमदशके दिवसे त्वङ्गुलं त्यजेत् ॥२७॥मध्ये दशदिने वह्नि चान्त्यपङ्क्ति चतुस्त्यजेत्कुलीरे प्रथमदशके वेदमात्रं विसर्जयेत् ॥२८॥मध्ये दशदिने चापि त्र्! यङ्गुलं तत्परित्यजेत्द्व्यङ्गुलं चान्त्यदिवसे दशके समुदाहृतम् ॥२९॥सिंहस्य चादिदशके द्व्यङ्गुलं च परित्यजेत्मध्ये दशदिने चैकवान्त्यपङ्क्तौ विनाङ्गुलम् ॥३०॥युवत्यामादिदशके दिवसे नाङ्गुलं भवेत्मध्ये चैकाङ्गुलं त्यक्त्वा चान्त्यपङ्क्तौ द्वयाङ्गुलम् ॥३१॥तुलारम्भे दशदिने द्व्यङ्गुलं च निषेधयेत्विसृज्य द्व्यङ्गुलं मध्ये चान्त्ये वेदमिति स्मृतम् ॥३२॥वृश्चिके प्रथमे पङ्क्तिर्दिवसे चतुरङ्गुलम्मध्ये दशदिने बाणं चान्त्यपङ्क्तौ षडङ्गुलम् ॥३३॥धनूराशौ दशदिने प्रथमे तु षडङ्गुलम्मध्ये दशदिने सप्तद्व्यङ्गुलं च विवर्जयेत् ॥३४॥अन्त्यपङ्क्तिदिने त्याज्यं वसुमात्रमिति स्मृतम्मकरादौ दशदिने त्यजेदष्टाङ्गुलं बुधः ॥३५॥मध्ये सप्ताङ्गुलं त्यक्त्वा चान्त्ये त्यक्त्वा षडङ्गुलम्कुम्भे चादौ दशदिने विसृजेत्तु षडङ्गुलम् ॥३६॥मध्ये पञ्चाङ्गुलं त्यक्त्वा चान्त्ये च चतुरङ्गुलम्मीनराशौ च दशके दिवसे चतुरङ्गुलम् ॥३७॥मध्ये च पङ्क्तिदिवसे द्व्यङ्गुलं च विसर्जयेत्अन्ते दशदिने चापि वर्जयेद्व्यहकाङ्गुलम् ॥३८॥अपच्छायं तत्र नास्ति यदुक्तं तदिहोच्यतेप्रागुक्तरविराश्यां तु कन्यायां वृषभस्थितम् ॥३९॥अपरे विंशतिदिने तत्तदृक्षं भवेद्यदिउक्ताङ्गुलं तत्र नास्ति सूत्रं ज्ञात्वा प्रसारयेत् ॥४०॥शुद्धप्राची भवेत्सम्यगैशान्या प्राच्यथोच्यते ॥४२॥प्राच्याङ्गुलकृताद्बिन्दोरुत्तरे चाङ्गुलं न्यसेत्प्रतीचीमात्रतद्बिन्दोरीशप्राची प्रसूत्रयेत् ॥४३॥मुक्तिकामस्य करणे शुद्धप्राचीं प्रयोजयेत्ऐशान्यप्राची सर्वस्य भोगकामस्य संमताम् ॥४४॥आग्नेये प्राचीसंयुक्तं सर्वदोषकरं भवेत्आग्नेयप्राचिकं वास्तु तस्मात्सर्वं विसर्जयेत् ॥४५॥एवं कृते त्वलं वास्तौ सुगाढं सुसमृद्धयेदण्डमानसमं सूत्रदीर्घमानं प्रकल्पयेत् ॥४६॥आदौ तन्तुं त्रिधा कृत्वा सूत्रग्राहीति योजयेत्वातावर्तं तु सूत्रं स्यात्तृतीयावर्तदक्षिणम् ॥४७॥कार्पासं सूत्रसंयुक्तं पट्टसूत्रमथापि वासूत्राल्लभ्यते वास्तौ प्रमाणं हीति निश्चितम् ॥४८॥मध्यादिन्द्रा च्च तद्दिक्षु न्यसेन्द्रा दि शिखान्तकम्इन्द्रा दीशानपर्यन्तं चान्तकात्पवकान्तम् ॥४९॥वरुणाद्वायुपर्यन्तं सौम्यादेर्वायुर्वान्तकम्सौम्यादीशानपर्यन्तं सूत्रमेवं परिव्रजेत् ॥५०॥विमाने त्रिगृहे वाऽपि मण्डपादीनि वास्तुकेग्रामादीनां च सर्वेषां मानयेन्मानसूत्रकम् ॥५१॥तत्प्रमाणस्य परितो हस्तद्विहस्तमाधिकम्तत्सूत्रावसाने च शङ्कुमेवं प्रतिष्ठितम् ॥५२॥गर्भसूत्रस्य कर्णैश्च द्विद्विशङ्कु निखानयेत्चतुर्दिक्षु चतुःशङ्कुं जन्मनिष्क्रमणार्थकम् ॥५३॥चतुष्कर्णैश्च कर्णैश्च चतुःशङ्कु समायुतम्एवं महार्थकं कुर्याच्छङ्कुदारु प्रवक्ष्यते ॥५४॥खदिरं चादिमेदं च मधूकं क्षीरिणी तथाअन्यैश्च सारवृक्षैर्वा खातं शङ्कुरिति स्मृतम् ॥५५॥एकविंशाङ्गुलं वाऽपि चैकपञ्चत्यङ्गुलायतम्खातं शङ्कुमिदं मुष्टिमानं तत्परिणाहकम् ॥५६॥मूलं तु सूचिवत्कुर्यान्मूलाग्रक्षयक्रमात्गृहीत्वा वामहस्तेन स्थपतिस्थापकावुभौ ॥५७॥शङ्कुं दक्षिणहस्तेन लोष्ट संगृह्य ताडयेत्प्रत्येकमष्टसंख्या च प्राङ्मुखो वाप्युदङ्मुखः ॥५८॥शङ्कुस्थापनकाले तु ब्राह्मणैः स्वस्तिवाचकम्कुर्यान्मङ्गलघोषैश्च समज्यां पूजयेत्ततः ॥५९॥एवं नैरृतिकोणे तु स्थपत्याज्ञश्च तक्षकम्पश्चान्मङ्गलघोषैश्च सर्वशङ्कुः प्रहारयेत् ॥६०॥इति मानसारे वास्तुशास्त्रे शङ्कुस्थापनविधानं नाम षष्ठोऽध्यायः N/A References : N/A Last Updated : October 01, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP