संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| षट्तलविधानम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - षट्तलविधानम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत षट्तलविधानम् Translation - भाषांतर अधुना षट्तलं सम्यग्लक्षणं वक्ष्यतेऽधुनाविस्तारं च विभागं च पूर्ववत्परिकल्पयेत् ॥१॥सप्ताधिकं तु पञ्चाशद्भागं कुर्यात्तदुच्छ्रयेसार्धबन्धमधिष्ठानं सप्तांशं पाददीर्घकम् ॥२॥तदर्धं प्रस्तरोत्सेधमूर्ध्वपादं षडंशकम्तदूर्ध्व मञ्च त्रियंशं स्यादूर्ध्वपादं शरांशकम् ॥३॥तदर्धं प्रस्तरोत्सेधं सार्धवेदांशकाङ्घ्रिकम्प्रस्तरं च द्विभागं स्यात्सार्धबन्धां शमङ्घ्रिकम् ॥४॥प्रस्तरं सार्धभागं स्याद्वेदिकांशेन योजयेत्ग्रीवतुङ्ग युगांशं स्याच्छिखरो युगांशकम् ॥५॥शेषं तु स्तूपिकोत्तुङ्गं युक्त्या तत्रैव योजयेत्एतत्तु पद्मकान्तं स्यात्सर्वोलङ्कारसंयुतम् ॥६॥तदेवाधिष्ठानमंशेन तले तले विशेषतःएतत्कान्तारमित्युक्तं कर्णहर्म्यादिमण्डितम् ॥७॥अथ वापि च दिक्कुर्यात् सुन्दरं चेति कीर्तितम्अथवा चोपपीठं स्यादुपकान्तमिति स्मृतम् ॥८॥अथवा चोर्ध्वतले सर्वे वेदि कुर्यात्समञ्चकम्कमलाख्यमिति प्रोक्तमन्तरप्रस्तरान्वितम् ॥९॥तृतीये मञ्चसंयुक्तं रत्नकान्तमिहोच्यतेचतुर्थं प्रस्तरैर्युक्तं विपुलाङ्कमिति स्मृतम् ॥१०॥पञ्चमं मञ्चयुक्तं स्याज्ज्योतिकान्तमिति स्मृतम्तदेव भद्र संयुक्तमेतत्प्रोक्तं सरोरुहम् ॥११॥तद्ग्रीवादि शिखान्तं च विपुलाकृतिकं भवेत्तदेव शिखरोस्वश्रं स्वस्तिकान्तमिति स्मृतम् ॥१२॥तदेव चतुरश्रं स्यान्नन्द्यावर्तमिहोच्यतेतदेव गल वस्वश्रमिक्षुकान्तमिति स्मृतम् ॥१३॥एवं त्रयोदशं नाम्ना प्रोक्तं षट्तलहर्म्यकेत्रिचतुष्पञ्चषट्सप्त मध्यकोष्ठं विशालकम् ॥१४॥एकद्वित्रिचतुष्पञ्चभागं हारं सपञ्जरम्एकं वाथ द्विभागं वा कर्णकूटविशालकम् ॥१५॥तले तले कर्णकूटं कोष्ठहारादिभूषितम्एकद्वित्रिविभागं च हारमध्ये तु भद्र कम् ॥१६॥एकद्वित्रिचतुष्पञ्च कोष्ठमध्ये तु भद्र कम्कर्णकूटविशाले तु त्रिभागैकं मध्यभद्र कम् ॥१७॥भद्र शाला महानासी चार्धशालाद्यलङ्कृतम्आदिभूमिक्रियायुक्त्या चोर्ध्वोर्ध्वतला न्यसेत् ॥१८॥वितलात्षट्तलान्तं स्यादेवं युक्त्या समलङ्कृतम्नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ॥१९॥नानापञ्जरशालानां नासिकापञ्जरान्वितम्प्रस्तरादिकपोतान्तं क्षुद्र नास्या विभूषितम् ॥२०॥शिखरे च मध्यनास्यैः क्षुद्र कपोतनासिकाःविंशनासिकायुक्तं सर्वालङ्कारसंयुतम् ॥२१॥ग्रीवे च क्षुद्र पादानां युक्त्या च समलङ्कृतम्कर्णहर्म्यादिसंयुक्तं यत्तलोपरिदेशके ॥२२॥एकभाग द्विभागं वा मूलव्यावृतालिन्दकम्ऊर्ध्वोर्ध्वतलानां तु चैकभागेन लिन्दकम् ॥२३॥एतत्षट्तलं प्रोक्तं शेषं युक्त्या च पूर्ववत्पूर्वोक्तसकलानामपि देवानां तत्राखिलसौधकोष्ठकेषु ॥२४॥ब्रह्म विष्णुशिवानारदैः सह सङ्कुलैः कुरुते शिल्पिवित्तमः ॥२५॥इति मानसारे वास्तुशास्त्रे षट्तलविधानं नाम चतुर्विंशोऽध्यायः N/A References : N/A Last Updated : October 03, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP