संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| द्वारस्थानविधानम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - द्वारस्थानविधानम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत द्वारस्थानविधानम् Translation - भाषांतर द्वारस्थानस्य विन्यासं लक्षणं वक्ष्यतेऽधुनादेवानां भूसुरादीनां वर्णानां च गृहे गृहे ॥१॥देवानां हर्म्यके सर्वे प्राकारे मण्डपे तथाचतुर्दिक्षु चतुर्द्वारं चोपद्वारं यथेष्टकम् ॥२॥यथान्तरालदेशे तु मध्ये द्वारं प्रकल्पयेत्भित्तिमध्ये यथाकुर्यात्तत्र दोषो न विद्यते ॥३॥प्रच्छादनं यथाहर्म्ये द्वारं कुर्यात्तथैशकेजलद्वारं यथासारं निम्नदेशे प्रकल्पयेत् ॥४॥दक्षिणे च कवाटे तु द्वारं कुर्यात्तु मुख्यकेतिर्यङ्मध्ये तु सूत्रः स्यादधोदेशे प्रकल्पयेत् ॥५॥देवानां च मनुष्याणां महाद्वारं कवाटकेद्वाराणां तु यथामुख्ये युक्त्या सोपानसंयुतम् ॥६॥एवं तु देवहर्म्यादिद्वारं कुर्याद् विचक्षणःनराणां च गृहे सर्वे द्वारस्थानं तु वक्ष्यते ॥७॥गृहायामे विशाले तु नन्दनन्दपदं भवेत्पूर्वद्वारं च हर्म्याणां महाद्वारं महेन्द्र के ॥८॥अथवा मध्यसूत्रस्य वामे द्वारं प्रकल्पयेत्ईशे वाथ पर्जन्ये चादिते चोदिते तथा ॥९॥जयन्ते वा मृगे वापि चोपद्वारं तु जालकम्दक्षिणे द्वारशाले तु महाद्वारं गृहक्षते ॥१०॥अथवा मध्यसूत्रस्य वामे द्वारं प्रकल्पयेत्वितते च पदे पूषे पावके चान्तरिक्षके ॥११॥मृगे वा सत्यके चैव चोपद्वारादि पूर्ववत्पश्चिमे द्वारहर्म्ये तु पुष्पदन्तपदे तथा ॥१२॥मध्यसूत्रस्य वामे तु महाद्वारं प्रकल्पयेत्सुग्रीवस्य पदे वापि दौवारिकपदेऽपि वा ॥१३॥नैरृत्ये वा मृगे वापि भृङ्गराजपदेऽपि वागन्धर्वे शेत्युपद्वारं तद् वदायतनमेव च ॥१४॥उत्तरे द्वारशाले तु भल्लाटस्य पदे तथाआयामे मध्यसूत्रात्तु वामे द्वारं प्रधानकम् ॥१५॥मुखे नागपदे वापि चानिले वाथ रोगकेशेषे वापि सुरे वापि चोपद्वारं तु योजयेत् ॥१६॥ईशानादिचतुर्द्वारं कुर्याद् दिक्षु यथेष्टकम्पचनालयसर्वेषां मुखे द्वारं तु मध्यमे ॥१७॥केचित्तन्मध्यसूत्रात्तु वामे द्वारं प्रकल्पयेत्तदूर्ध्वगमनार्थाय क्षुद्र जालकसंयुतम् ॥१८॥द्विचतुर्वा षडष्टापि दशद्वादशमेव वाएवं तु जालकं कुर्यादुत्तराधो प्रदेशके ॥१९॥मध्ये द्वारं तु कुर्यान्मध्यसूत्रात्तु वामकेकुर्याज्जलद्वारं तु श्रेणितद्वारं कल्पयेत् ॥२०॥देवानां पचनार्थं तु कुर्याद् वै युग्मजालकम्कुर्यादारुह्य यद् द्वारं नैरृत्ये वापि चेशके ॥२१॥गृहे सर्वे यथारङ्गे पृष्ठे तु जालकं वामध्ये न जालकं कुर्यान्मध्यसूत्रात्तु वामके ॥२२॥कुर्यात्तु जलद्वारमुपद्वारोक्तवत्सुधीः ॥२३॥पञ्चांशं दक्षिणे तस्य वामेबन्धांशं स्यात्तत्तयोर्मध्यदेशकेहर्म्यायामे नन्दभागैकभागेद्वारं कुर्यान्मानुषाणां निवासे ॥२४॥हर्म्यायामे मध्यसूत्रस्य वामेकुर्याद् द्वारं भूसुराणां नृपाणाम्एवं द्वारं शेषकाणां तु कुर्यात्कुर्याद् द्वारं हर्म्यमध्ये सुराणाम् ॥२५॥इति मानसारे वास्तुशास्त्रे द्वारस्थानविधानं नाम अष्टत्रिंशोऽध्यायः N/A References : N/A Last Updated : October 03, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP