संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्|
संग्रहः

मानसारम् - संग्रहः

'मानसारम्' वास्तुशास्त्रावरील एक प्राचीन ग्रंथ आहे.


उत्पत्तिरक्षणलयान् जगतां प्रकुर्वन् भूवारिवह्निमरुतो गगनं च सूते
नानासुरेश्वरकिरीटविलोलमालाभृङ्गावलीढचरणाम्बुरुहं नमामि ॥१॥

गङ्गाशिरःकमलभूकमलेक्षणेन्द्र गीर्वाणनारदमुखैरखिलैर्मुनीन्द्रैः!
प्रोक्तं समस्ततरवस्त्वपि वास्तुशास्त्रं तन्मानसारऋषिणापि हि लक्ष्यते स्म ॥२॥

मानोपकरणं चादौ शिल्पलक्षणपूर्वकम्
अथ वास्तुप्रकरणं भूपरीक्षाविधिं तथा ॥३॥

भूसंग्रहस्ततः प्रोक्तं शङ्कुस्थापनलक्षणम्
देवादीनां स्थापनाय पदविन्यासलक्षणम् ॥४॥

बलिकर्मविधिं चैव ग्रामादीनां च लक्षणम्
नगरीलक्षणं चैव भूमिलम्बविधानकम् ॥५॥

गर्भन्यासविधिं चैव चोपपीठस्य लक्षणम्
अधिष्ठानविधिं चैव पादमानस्य लक्षणम् ॥६॥

प्रस्तरस्य विधिं चैव सन्धिकर्मस्य लक्षणम्
विमानलक्षणं चैवमेकभूम्याश्च लक्षणम् ॥७॥

द्वितलस्य विधिं चैव त्रितलस्य विधानकम्
चतुस्तलविधिं चैव पञ्चभूम्याश्च लक्षणम् ॥८॥

षट्सप्तलकं चैवमष्टभूनवभूमिकम्
दशभूमिविधानं च रुद्र भूमिविधानकम् ॥९॥

तलं द्वादशकं चैव प्राकाराणां च लक्षणम्
परिवारलक्षणं चैव गोपुराणां च लक्षणम् ॥१०॥

मण्डपस्य विधानं च शालानां चैव लक्षणम्
विन्यासश्च गृहस्याथ गृहप्रवेशलक्षणम् ॥११॥

द्वारस्थानविधिं चैव द्वारमानस्य लक्षणम्
राजहर्म्यविधिं चैव राज्याङ्गस्य तु लक्षणम् ॥१२॥

भूपतिलक्षणं चैव यानादिरथलक्षणम्
शयनस्य लक्षणं चैव सिंहासनस्य लक्षणम् ॥१३॥

तोरणं मध्यरङ्गस्य कल्पवृक्षस्य लक्षणम्
अभिषेकलक्षणं चैव सर्वभूषणलक्षणम् ॥१४॥

ब्रह्मादीनां त्रिमूर्तेश्च लक्षणं लिङ्गलक्षणम्
पीठस्य लक्षणं चैव शक्तीनां लक्षणं तथा ॥१५॥

बौद्धस्य जैनिकानां च लक्षणं मुनिलक्षणम्
यक्षाविद्याधरादीनां लक्षणं भक्तलक्षणम् ॥१६॥

ब्रह्मादीनां च देवानां तत्तद्वाहनलक्षणम्
नयनोन्मीलनं चैव लक्षणं वक्ष्यते क्रमात् ॥१७॥

मानसार-ऋषि कृत शास्त्रं मानसारमुनिनामकमासीत्
तत्तु शिल्पिवरदेशिकमुख्यैः स्वीकृतं सकललक्षणपूर्वम् ॥१८॥

इति मानसारे वास्तुशास्त्रे संग्रहो नाम प्रथमोऽध्यायः

N/A

References : N/A
Last Updated : September 30, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP