संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| सन्धिकर्मविधानम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - सन्धिकर्मविधानम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत सन्धिकर्मविधानम् Translation - भाषांतर सन्धिकर्मविधानं च लक्षणं वक्ष्यतेऽधुनाहर्म्याणां दारुसंयोगं सन्धिकर्ममुदीरितम् ॥१॥वृक्षमूले बलं युक्तं वृक्षाग्रे बलहीनकम्तस्मात्तु बन्धयेत्सर्वं दारुसंमूलात्सुधीः ॥२॥उक्तवद्दारु संग्राह्य योजयेत्तक्षकेण तुन वक्रं च न भिन्नं च न सुषिरं दारु सर्वशः ॥३॥मल्लसंबद्धसन्धिं च ब्रह्मराज द्वयं तथावेणुपर्वाख्यसन्धिं च पूगपर्वं च सन्धिकम् ॥४॥देवसन्धिस्तथर्षिमेषुपर्वसन्धिं दण्डकम्एतदष्टविधं प्रोक्तं दारुयोगेन सन्धिभिः ॥५॥दारुद्वयैकसन्धिः स्यान्मल्लबन्धमिति स्मृतम्त्रिचतुर्दारुयोगेन द्वित्रिसन्धिर्यथाक्रमम् ॥६॥ब्रह्मराजमिति प्रोक्तं तन्त्रविद्भिः पुरातनैःपञ्चदारु चतुःसन्धि वेणुपर्वकमीरितम् ॥७॥षड्दारु पञ्चसन्धिः स्यात्पूगपर्वं प्रशस्यतेसप्तदारुभिः षट्सन्धि देवसन्धिमिति स्मृतम् ॥८॥अष्टदारु ऋषिसन्धिमेषुपर्वाख्यसन्धिकम्तस्योपरि बहुसन्धि बहुद्र व्यैश्च दण्डिकम् ॥९॥पादानामुत्तराणां च कुड्यस्योत्तरदारूणाम्सन्धिकर्मक्रमं सम्यगेकवस्तुन्यनेककम् ॥१०॥अन्तर्बहिश्च यश्चोर्ध्वे तत्तत्सन्धिमिहोच्यतेमल्लबन्धादि स्यादष्टसन्धिः सर्वेषु धामसु ॥११॥दीर्घं ह्रस्वं समं दारु योजयेदुक्तवत्क्रमात्पुंदारूणां तु पुंदा न स्त्रीदारुं स्त्रिया सह ॥१२॥युञ्जीत या स्त्रिया सार्धं पुंदारु पतिना सहनपुंसकं न पुञ्जीत सर्वेष्वपि गृहादिषु ॥१३॥चतुर्दिक्षु बहिर्दारु रनन्तं प्रेक्ष्य संस्थितम्ज्ञात्वा धीमान्मुहुर्देवान् दिनयेद्वामदक्षिणम् ॥१४॥अन्तश्चतुर्दिशां दारु बहिः पश्येत् तन्मुखम्ज्ञात्वा तु शिल्पिनां श्रेष्ठं दिव्यं दक्षिणवामकम् ॥१५॥दीर्घादिसर्वदारुणि विन्यासं वक्ष्यतेऽधुनादक्षिणे विन्यसेद्दीर्घं कुब्जदारु तु दक्षिणे ॥१६॥अथवा मध्यमे दीर्घं वामवामे तु कुब्जकम्त्रिदारुयोगसंपाते सममेतत्त्वथापि वा ॥१७॥दक्षिणं मध्यमं दीर्घं वामे दारु त्वदीर्घकम्दारुमूलं तथाग्रं च संयोगं दारुसर्वशः ॥१८॥दक्षिणोत्तरमायामं दारुमूलं च दक्षिणेपूर्वपश्चिमयोर्दीर्घं दारुमूलं च पश्चिमे ॥१९॥प्रत्यग्दक्षिणयोर्दारु मूलसंयोग नैरृतेपूर्वे चोत्तरतो दारु अग्रं संयोगमीशके ॥२०॥अनलानिलकोणे तु चाग्रमूलं तु योजयेत्कट्योत्तरं तु संयोगं मूलं तच्च षडश्रकम् ॥२१॥अज्ञानाद्द्व्यन्तराग्रं चेत्स्वामिनो मरणं ध्रुवम्उत्तराद्दारुसंयोगमालिम्बोदययोर्मुखम् ॥२२॥तन्मूलस्योपरि स्थाप्य चाग्रमेतदधोमुखम्पादैरपि च सर्वेषां गृहं संप्राप्य वश्यते ॥२३॥आधारं प्राक्शयं दारु मूलाग्रं चोर्ध्व तक्षयेत्वैवस्वतं दिशं चैवं चान्तं चोपरि विन्यसेत् ॥२४॥मूलमूर्ध्वे संच्छेद्य प्रत्यग्दारोश्च मूलतःअधश्छेद्यं दक्षिणतः चोर्ध्वे दारूमिदं न्यसेत् ॥२५॥प्रत्यग्दारोश्च चाग्राधश्चोत्तरं दारुमूलकम्प्राग्दार्वाग्रमूर्ध्वे तु सौम्यदार्वाग्रनिक्षिपेत् ॥२६॥एतत्तु सर्वतोभद्रं प्रागादिदारु योजयेत्तदेव दारुयोगं च नन्द्यावर्तमिहोच्यते ॥२७॥पूर्वे च शयितं दारु दक्षिणे निर्गमं भवेत्दक्षिणे शयितं दारु पश्चिमे निर्गमं भवेत् ॥२८॥पश्चिमे शयितं दारु निर्गमं चोत्तरे तथाउत्तरे शयितं दारु प्राग्दिशि निर्गमं भवेत् ॥२९॥आधाराधेययोगेन पूर्ववत्परिकल्पयेत्नन्द्यावर्तमिति प्रोक्त स्वस्तिकं वक्ष्यतेऽधुना ॥३०॥प्राक्शयितं दारु सर्वेषां दक्षमूलोत्तराग्रकम्दक्षिणे शयितं दारु प्रत्यङ्मूलाग्रपूर्वके ॥३१॥तद्द्वयोर्मूलमग्रं च चाग्निकोणे च बन्धनम्प्रत्यग्दिक्शयितदारोर्मूलं याम्येऽग्रमुत्तरे ॥३२॥सौम्ये शयितदारूणां प्रत्यङ्मूलाग्रपूर्वकेवायुकोणे दिशं बन्धं त्रीणि दार्वाग्राणि एव वा ॥३३॥दक्षिणे पश्चिमे सौम्ये दारु तत्प्रागुदग्रकम्नैरृते वायुकोणे च बन्धयेत्तद् द्विसन्धिकम् ॥३४॥पूर्वे च दक्षिणे प्रत्यग्दारु प्रागुत्तराग्रकम्वह्निनैरृत्यकोणे च दारु संबन्धयेत्सुधीः ॥३५॥एतत्सन्धिविशेषोऽस्ति चाधाराधेयपूर्ववत्दारुमूलं तु सच्छिद्रं दार्वाग्रं सशिखान्वितम् ॥३६॥दक्षिणे दारुमूले च छिद्रं प्रत्यक् शिखान्वितम्एतन्नैरृतिकोणे तु युक्त्या दारुं संयोजयेत् ॥३७॥एवं तु चाग्निकोणे तु युक्त्या दारु सुयोजयेत्सौम्ये च दारुमूले तु छिद्रं प्रत्यक्छिखान्वितम् ॥३८॥एवं तु वायुकोणे तु कारयेत्तक्षकोत्तमःएवं तु स्वस्तिकं प्रोक्तं युक्ताग्रे चैशकोणयुक् ॥३९॥प्राच्ये दार्वा च सच्छिद्रं सौम्याग्रं च शिखान्वितम्छिद्र युक्तं तदाधारमग्रमिदं सशिखान्वितम् ॥४०॥वास्तुमध्ये गणं युक्तं तद्बाह्ये वृतदारुणायथेष्टदिग्भद्र संयुक्तं युक्तादन्यैस्तु योगतः ॥४१॥आधाराधेयमाद्यैश्च सर्वं प्रागुक्तवन्नयेत्वर्धमानमिति प्रोक्तं वर्धमाने तु विन्यसेत् ॥४२॥अधोभूदारुयोगं च तथोर्ध्वोर्ध्वं तथा न्यसेत्अज्ञानाद्वैपरीत्यं चेत्सर्वसंपद्विनाशनम् ॥४३॥तस्मात्परिहरेच्छिल्पी सर्वदारु योगतःदारुयोगक्रमं प्रोक्तं दारुसन्धिरिहोच्यते ॥४४॥यथारहितसन्धक्यं तथा योग्यं विचक्षणैःस्तम्भानां दारुयोगेन चोक्तवच्चैव सन्धयः ॥४५॥स्तम्भदारु त्रिभागैकं तन्मध्ये तु शिखां भवेत्तुङ्गतारसमं कुर्यादूर्ध्वे कर्णं शिखान्वितम् ॥४६॥अधः कर्णं मध्ये छिद्रं मेषयुद्धं हि योजयेत्विस्तारे सप्तभागेन त्रिभागाधिकमायतम् ॥४७॥अथवा सार्धमायामं विस्तारद्विगुणं तु वाअथवा कर्णमानं वा सन्धिरेतत् फणायतम् ॥४८॥सर्वेषामपि दारुणां सन्धेः प्रान्ते तु योजयेत्यथेष्टफणसंग्राह्यं चोदयेद्विस्तृतार्थकम् ॥४९॥मूलाग्रे कीलकं युक्तं अर्धप्राणमिति स्मृतम्तदेव द्विललाटे च विस्तारार्धार्धचन्द्र वत् ॥५०॥मध्ये च दन्तसंयुक्तमग्रमूले तु योजयेत्शेषं तु पूर्ववत्कुर्यान्महावृत्तमिति स्मृतम् ॥५१॥एतत्स्व वृत्तपादानां त्रिकर्णं वक्ष्यतेऽधुनातदेवं च त्रिकर्णं स्यात्तत्त्रिचूलिकमेव च ॥५२॥स्वस्त्याकृतिं समायुक्तं बलात्कीलकसंयुतम्त्रिकर्णाभमिति प्रोक्तं शेषं प्रागुक्तवन्नयेत् ॥५३॥मेषयुद्धे चतुर्दिक्षु चतुःशूलं तु संयुतम्चतुरश्राङ्घ्रिमध्ये तु पट्टयुक्तं सपट्टवत् ॥५४॥दन्तसंयुक्तं सन्धिश्च सर्वतोभद्र मीरितम्एतत्सन्धिविधिश्चाङ्घ्रिं यथाशक्ति यथाबलम् ॥५५॥स्तम्भमध्या यथोत्सेधं कुर्यादूर्ध्वे विशेषतःयथालङ्कारया प्रान्ते युक्त्या तत्रैव सन्धयः ॥५६॥शिलास्तम्भं तु सर्वेषां मेषयुद्धं प्रकल्पयेत्पादायामविशालैश्च पूर्ववत् परिकल्पयेत् ॥५७॥पादमूलविशाले तु षट्सप्तांश विभाजितेएकैकमाधिकं वापि पादमूलविशालकम् ॥५८॥कुर्याद्विंशविशालं स्याद्दारुवंशोन्मनस्तथासमं वाथ त्रिपादं वा चार्धं वा कुट्यचोत्तरे ॥५९॥विस्तारं तद्यथा कुर्यात्तुङ्गं प्रागुक्तवन्नयेत्कुट्यवंश प्रतिर्वंशं तुङ्गं यत्तु समं भवेत् ॥६०॥तुङ्गस्याधिकहीनं चेद्विपङ्क्तिं नित्यमावहेत्पूर्वोक्तसन्धिदीर्घेषु यन्मानोरम्यसंग्रहम् ॥६१॥कुट्यस्योत्तरसन्धीनां प्रतिवंशविशालकेसन्ध्यायामं तु संग्राह्यं कुर्यात्प्रागुक्तवत्सुधीः ॥६२॥शङ्कराणिं च शल्यं च कीलं तु पर्याय चवृद्धं शूलं च दन्तं च शिखापर्यायवाचकाः ॥६३॥सन्ध्या पादविष्कम्भं वसुसप्तषडंशकम्तदेकांश किलविस्तारं शूलं तारं च मानयेत् ॥६४॥शूलकीलद्वयोस्तेषां समतारमुदाहृतम्दीर्घतारमिदं तं समताराग्रकीलकम् ॥६५॥शल्यायामं तु सर्वेषां यथायुक्तं यथाबलम्कुर्यात्तु सन्धिमध्यस्य कीलपार्श्वं तु कीलयेत् ॥६६॥फणायामं तु तन्मध्ये पश्चात्कीलं प्रयोजयेत्कीलात्फणमूलान्तं कीलतारं समेन च ॥६७॥ऊर्ध्वं तत्फणप्रान्ते छेदयेत्तक्षकोत्तमःकीलतारसमं कुर्यात्कीलं तु तत्फणाग्रके ॥६८॥दन्तत्रयसमायुक्तं मूलान्तं तत्फणाग्रयोःअधोदन्तस्य यं छेद्यं चोर्ध्वदन्तस्य चोर्ध्वके ॥६९॥छेदयेद्वेशनं मूलौ तच्छिखे तत्प्रकीर्तितम्विस्तारात्तुङ्गदेशे वा तत्तदर्धांश तत्क्षणात् ॥७०॥पूर्ववच्छिख संयुक्तं मध्यकीलकं योजयेत्ईषुदन्तमिति प्रोक्तं यथाशक्तिबलं न्यसेत् ॥७१॥कर्कटाङ्घ्रिवत्कृत्वा पोत्रनासाङ्घ्रिं वेशयेत्मध्यकीलं तु संयोज्यं युक्त्या बलवशान्न्यसेत् ॥७२॥सूकरं घ्राणमित्युक्तं वंशदण्डाग्रमूलयोःसंकीर्णकीलकं वक्ष्ये यथायुक्ति यथाबलम् ॥७३॥नानाशूलैश्च कीलैश्च संयुक्तं खलु दारुषुएतत्संकीर्णसन्धि स्यात्सर्वहर्म्येषु योग्यकम् ॥७४॥वज्राकृतिषु शूलं स्याद् ब्रह्ममस्तकसन्धिकम्एतत्पञ्चविधः सन्धिः सर्वेषां साधितेष्वपि ॥७५॥कुर्यात्कुड्यस्य चैतेषु चाग्रदन्तं बहिर्भवेत्मूलदन्तोपदन्तं स्यादाधाराधेय योजयेत् ॥७६॥पार्श्वयोर्योजितं दारु कुलीराग्रोपरि न्यसेत्पार्श्वे दार्वार्थमन्तश्चेद्वाह्यमूलं च मङ्गलम् ॥७७॥दारुशैले यथामूलं पादमूलं तथा भवेत्एकरूपा च पङ्कं च सन्धिः स्यादेकरूपकम् ॥७८॥ऊर्ध्वोर्ध्वेषु तलेष्वेवं सर्वं कुर्याद्विचक्षणःतत्तदङ्गानि सर्वाणि परितोऽपि विनश्यति ॥७९॥स्तम्भानामपि सर्वेषां दीर्घस्योर्ध्वशिखान्वितम्मनसान्तः शिखैर्युक्तं पुत्रपौत्रविनाशनम् ॥८०॥स्तम्भमध्ये शिखायुक्तं मध्यपार्श्वशिखं तु चेत्कर्तॄणां शोकवृद्धिं स्यात्सन्ध्यङ्घ्रिबाह्यकं चेत् ॥८१॥तथा सन्ध्यङ्घ्रिमध्यं चेत्सर्वसंपद्विनाशनम्तस्मात्तत्स्तम्भमध्यं तु त्यक्त्वा तत्सन्धिमध्यमे ॥८२॥रेखामात्राङ्घ्रि तन्मध्ये त्यक्त्वा कीलं प्रदक्षिणेदण्डिकारदार्वोङ्गं सन्धिरेषां प्रकथ्यते ॥८३॥यत्कर्णदारुयोगेषु सन्धिस्तेषां तु नामतःआदित्यो धर्मराजश्च जलेशश्च निशाधिपः ॥८४॥एतच्चतुष्टयं दिक्षु विदिक्षु च तथोच्यतेवह्निर्नैरृतिर्वायुश्च चैशश्चेशे पृथक् तथा ॥८५॥दारुसन्धोक्तसर्वेषां न कुर्याच्छित्पिवित्तमःगृहक्षतपदे चैव पुष्पदन्तस्य पदे तथा ॥८६॥भल्लाटस्य पदे चैव महेन्द्र स्य पदे तथाएतेषां तु गृहद्वारं कुर्यात्सन्धिं न कारयेत् ॥८७॥तद्दण्डिते तद्विधाने तु विस्तारायामतो गृहेमध्यकर्णद्वयोर्मध्ये वस्तु यन्मध्यमे तथा ॥८८॥दन्तकीलं च संयुक्तं सन्धिरेतन्न कारयेत्अन्यसर्वेषु सन्धीनां वास्तुमध्ये न कारयेत् ॥८९॥प्रतिवंशं दारुवक्त्रं ज्ञात्वा सव्यापसव्यकम्सव्यमूले शिखं कुर्याद्वामे चाग्रशिखान्वितम् ॥९०॥तच्छिखं मध्ययुक्तं चेत्सर्वसंपद्विपत्करम्दारुमूलाग्रयोः सर्वं सन्धौ युक्ततर भवेत् ॥९१॥मूलेन वेदनं दन्ते धर्मकामार्थनाशनम्परितो दारुसन्धौ च युक्तं सन्धिं न विद्यते ॥९२॥गृहान्तं चैकदारुं चेत्सन्धिभेदोऽपि नास्ति चेत्वास्तुप्रदक्षिणं दारुकीलं चापि तथा न्यसेत् ॥९३॥बाह्यावृतदारूणि युद्धायुद्धं विचार्यतेयुद्धभावं विदित्वाथ चान्तदारु भवन्ति च ॥९४॥तच्चतुर्दिशि दारूणि तत्तत्सन्धौ च शल्यकम्प्राक् प्रत्यक् च युद्धं चेत्स्वामिनो मरणं ध्रुवम् ॥९५॥दक्षिणोत्तरयोर्युद्धं पूर्वं तद्दोषमावहेत्नूतनानि च दारूणि नूतनैरेव संयुजेत् ॥९६॥पुराणानि च दारूणि पुराणैरेव संयुजेत्नूतनं च पुराणेन पुराणं नूतनेन च ॥९७॥न युज्यं च कृतेश् चेत्तु राष्ट्रो दुर्भिक्षमावहेत्मध्योर्ध्वे दारुमध्यात्तु दण्डादीनि त्रयान्तकम् ॥९८॥दण्डपादेन वृद्धिः स्यात्स्थापयेत्कुलयादिनाम्कुलादिमूलद्र व्येषु यथाशक्ति यथारुचि ॥९९॥कुर्यात्तु चोक्तवत्सन्धिं विना चोक्तं पुरातनैःशैलजैः शयितैः सर्वैर्निशिखमेषयुद्धकम् ॥१००॥अथवा शक्तिरूपं स्यादर्धादर्धमथापि वासर्वतोभद्रः! सन्धिः स्याद्भद्र वद्युक्तितो न्यसेत् ॥१०१॥शिलाहर्म्यादिसर्वेषां प्रथमे वास्त्मेव चप्रत्यगूर्ध्वे ततः प्रान्ते नन्द्यावर्ताकृति न्यसेत् ॥१०२॥वस्तुमध्यचरणस्य मध्यमे सन्धिकीलयुत कर्तृनाशनम्भक्तिपादबहिष्कीलमूलकम् चार्थनाशजनवेदनाहकम् ॥१०३॥उपरि संस्थितदारुसमस्तकैः अथवा तत्रस्थितवाजनमाद्यकैःसशिखरैरशिखोऽपि सर्वत स्त्वपि च युक्तिवशादिभिर्योजयेत् ॥१०४॥अपि च युक्तिवशादपि योजयेत् त्वपि च युक्तिरनुक्तिरनर्थकम्न च दररहितं शिखया तु चेत् क्रमविहीनं हि लक्षणमन्यथा ॥१०५॥कृतधनक्षयकर्तृविनाशनम् तस्मात्सर्वं चोक्तवत्सन्धिराद्यैःदारोमूलं चाग्रयोक्ताननं च पार्श्वे चैतच्छिल्पिभिर्ज्ञाप्य कुर्यात् ॥१०६॥एवं संपदामास्पदं स्यात् १०७इति मानसारे वास्तुशास्त्रे सन्धिकर्मविधानं नाम सप्तदशोऽध्यायः N/A References : N/A Last Updated : October 02, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP