संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| गरुडलक्षणम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - गरुडलक्षणम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत गरुडलक्षणम् Translation - भाषांतर विहङ्गराजमानं च लक्षणं वक्ष्यतेऽधुनामूलबेरसेमोत्तुङ्गं त्रिपादमर्धमेव वा ॥१॥उत्सवोच्चं समं वापि द्विगुणं त्रिगुणमेव वात्रिगुणार्धाधिकं वापि तच्चतुर्गुणमेव वा ॥२॥एवं नवोदयं प्रोक्तमुत्तमादि त्रयं त्रयम्तत्तत्त्रिंशतिकं कृत्वा एकैकांशविवर्धनात् ॥३॥पञ्चविंशच्छतान्तं स्याद्यच्छुभायादिसंभवम्अथवाङ्गुलमानेन कल्पयेद् गरुडोदयम् ॥४॥एकाङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात्त्रयोविंशच्छतान्तं स्यान्मानायादिं कारयेत् ॥५॥द्विजराजायं वापि मानयेद् गरुडोदयम्पीठतारसमाध्यर्धं पादोनं द्विगुणं तु वा ॥६॥द्विगुणात्पादमाधिक्यं द्विगुणार्धाधिकं तु वापादोनत्रिगुणं वापि त्रिगुणं पादमधिकम् ॥७॥एवं नवविधं मानं कन्यसादीनि कारयेत्तदायामसमं वापि त्रिपादं चार्धमेव वा ॥८॥उत्तमादि त्रयं प्रोक्तं गरुडस्योदयं विदुःन कुर्यात्षट्शुभायादि कुर्यात्तदंशमानतः ॥९॥स्थानकं चासनं चैव गमनं च यथाविधिउष्णीषात्पादपर्यन्तं गृहितोत्तुङ्गं मानतः ॥१०॥तत्तन्मानवशात्केचिन्मूलबेरवशान्न्यसेत्उत्सवे चोत्सवं प्रोक्तमङ्गुलं मानविश्वतः ॥११॥एवं मानं तु संग्राह्य यावत्प्रागुक्तवद् भवेत्चलं वाप्यचलं वापि कारयेच्छिल्पवित्तमः ॥१२॥षड्वर्गायादिषु सुलक्षणं वक्ष्यतेऽधुनासर्वेषां वाहनानां चायादांश्च यथा तथा ॥१३॥यथावाहनतुङ्गे तु वृद्धिहान्या यथाक्रमगरुडं चैव हंसं च वृषभं चैव सिंहके ॥१४॥आयमष्टाभिर्वृद्धिः स्याद् द्वादशाक्षयमेव चपञ्चवेदैश्च वृद्धिः स्याद् व्ययं हत्वा दशमेव वा ॥१५॥योनिश्च त्रय वृद्धिः स्याद् धृदे चाष्टकमेव चतदृक्षोऽष्टकवृद्धिः स्याद् गुप्तविंशक्षयो भवेत् ॥१६॥वारं ग्रहेण वृद्धिः स्यात्सप्तमी च क्षयो भवेत्अंशं च चतुर्वृद्धिः च नवमी च क्षयो भवेत् ॥१७॥तच्छेषं सर्वमायादि षड्वर्गं चैव कारयेत्आयाधिक्यं व्ययं हीनं चोत्तरं तु व्ययाधिकम् ॥१८॥ध्वजो सिंहो वृषो हस्तो शुभयोनिरिति स्मृतम्सिंहे च गजयोनिश्चेत् शुभं तस्माद्विना गजम् ॥१९॥विवत्प्रत्यरगोहस्ति हीनान्यानदिनं शुभम्सौर्यार्काङ्गारवारं च वर्जयेच्छुभमन्यथा ॥२०॥तस्करादि न षण्डं च प्रेष्यांशानि विवर्जयेत्एवमायादिकं कुर्यादङ्गमानं प्रवक्ष्यते ॥२१॥उवार चरणरविबन्धैः द्वादशार्कार्कभानुद्वयरसगुणचतुष्कं बन्धकेशाननं चगलधरमधरगुह्ये स्थाणुजान्वस्त्रिकं तत्पदमिति गरुडतुङ्गं नन्दतालं क्रमेण ॥२२॥अथ सिंहपदतलानां पञ्चादशदशांशम् ॥२३॥वदनं द्विगुणं बाह्यायतं कूर्पराक्षं प्रमुखकरैर्याष्टिपदम्तलातलं तत्कथितमिति पुराणैः सुरिभिस्तत्र तन्त्रज्ञैः ॥२४॥वनविपुलतालं कर्णमष्टांशतारम्विस्तृतं शरयुगांशं कक्षयोरन्तरस्त्रम्हृदयविस्तृतं चैकाधिक्यमष्टद्वयांशम्उदरतति युगष्टं श्रोणितुल्यं च तारम् ॥२५॥तस्याधः कटिविशालं सप्तपङ्क्त्यंशं चोरुःवृत्तं तत्समविशालं मूलपिण्डाष्टभागम्तत्र जैनन जङ्घामूलविस्तारमध्येविस्तृतचर युगांशं गुल्फविस्तारमेव ॥२६॥पदमिति विपुल भूताङ्गुष्ठदीर्घं गुणांशम्तदपि च सम विमूह्यातर्जनीदीर्घमुक्तम्नवपदसदृशमन्यैरङ्गुली चान्यतुर्यम्नराभिमानं शिल्पिविद्वद्भिरेव ॥२७॥मुनिरसशरयुगंशं बाहुसन्धिप्रदेशेप्रमुखरविबिशालैर्मध्यमाग्रक्रमेणअनलमणिविशालां तत्तदायामषड्भिःप्रसृतरसयुगांशं मध्यमात्रायतं च ॥२८॥शरयुगयवाधिकांशानामिका तर्जनीयौगुणमलं कनिष्ठदीर्घाङ्गुष्ठकायाममेतत्त्रयकृतमुखविधिज्ञैः स्मायते चाक्षिकान्तम्स्फुटमिति मतिः वेन्द्रै श्च सदृक् तारम् ॥२९॥भ्रुवयुतनयनकेशान्तयोर्मध्यदेशेगुणयुतनयनमेवं तत्पुटान्तयोस्तत्युग यवविहृतदीर्घं तद्गोजिमूलात्तु नाभितदुदयविपरीतमंशं विहृतस्याग्रमंशम् ॥३०॥विशालाधिकगोजिकाग्र चोत्तरमष्टार्धमात्रम्विस्तृततमिव तदुच्चं वेदमात्रायतं चअधरविहृतपादत्रितुङ्गश्रायतान्तम्विस्तृतदीर्घशेषमन्तं तु युक्त्या ॥३१॥वक्त्रायामं तत्समं नासिकाग्रम्युक्त्या मानं कर्णरन्ध्रावसानम्हन्वंशं तं श्रोत्रतुङ्गं तदर्धम्तदर्धं विस्तारं नालमेवं तथैव ॥३२॥एवं प्रोक्तानुक्तमानं तु सर्वम्मानं कुर्यात्पङ्क्तितालोक्तवत्हावं यावत्कूर्परबन्धकान्तम्बाहुपक्षौ चाङ्गुलं कञ्चुकेन ॥३३॥नासिका शुकतुण्डं पदाग्रेहंसकास्यदंष्ट्रवत्कुर्यात्श्वेतवर्णनखैरपि वक्त्रयुक्श्यामवर्णमतितुण्डाग्रके ॥३४॥अष्टनागविभूषणपक्षिवत्पक्षयुक्उग्रदृक् मकुटं सकरण्डकम्वर्णनीलसमरत्नमण्डलं कृतम्तप्तहेमनिभं गरुडं भवेत् ॥३५॥पञ्चवर्णसमन्त्रितपक्षयुक्अङ्कुरवत्कर्णशिरावृतम्कुञ्चितः सहितगमनेऽपि चसञ्चितस्थितभावमिति स्मृतम् ॥३६॥मूर्ध्नि शङ्खं क्षीरवर्णावृतं चवामे कर्णे पद्मवर्णाभपद्मासव्ये कर्णे तन्महापद्ममेवधुम्रवर्णं हारकार्कोटकं च ॥३७॥गुलिकस्कन्धौ लम्बयेत्कृष्णवर्णम्व्याधृक्वर्णं वा सङ्गिवक्त्रसूत्रम्अन्तन्तं शुक्लवर्णाभं वामप्रकोष्ठेहिरण्यवर्णं तार्क्ष्यकस्य कटकम् ॥३८॥केचित्तच्छ्रयार्थं तु तार्क्ष्ये वर्णं विशेषतःकेशान्तात्कर्णसीमान्तं श्यामनीलाग्रसीमकम् ॥३९॥भित्तिकाद्धृदयान्तं च तद्द्वयो कूर्परान्तकौपञ्चवर्णसमं श्रितपक्षकांशुककञ्चुकी ॥४०॥हृदयात्कटिसूत्रान्तं प्रकोष्ठादिकराग्रयोःपीतवर्णमिति प्रोक्तं तस्माद् जानुकान्तकम् ॥४१॥रक्तवर्णं तु पादान्तं श्वेतवर्णनिभं भवेत्द्विभुजाग्रं च वक्त्रं च द्विपादौ कुञ्चितौ भवेत् ॥४२॥स्थानकं चासनं वापि विष्णुं ध्यात्वा कृताञ्जलिःसर्वालङ्कारसंयुक्तं ग्रामे स्थाप्यं स्वतन्त्रकम् ॥४३॥एवमैश्वर्यसिद्धिः स्यात्तन्मात्रैरर्चयेत्सुधीःअभिचारादिकाम्यर्थं तार्क्ष्यरूपं विशेषतः ॥४४॥पाद स्थानकं कुर्याद् वक्त्रं चासनं भागतःसर्वाङ्गं स्वर्णवर्णं स्यात्पक्षकञ्चुकिपूर्वकम् ॥४५॥वपुषं तु निर्वाणमधोहस्तौ कृताञ्जलिम्शीर्षं च सिंहपत्रैश्च संयुक्तं पञ्चवर्णयुक् ॥४६॥नाभिषेकं शिरोर्ध्वे तु कुक्कुटस्य शिरोऽग्रवत्रक्तवर्णं तु पुच्छाग्रं पञ्चमान्तं तदायतम् ॥४७॥घनं चोर्ध्ववक्त्रं च न प्रच्छादनमास्यकम्सप्ताष्टपूर्ववत्साङ्गेर्वर्णवैपर्यं विश्वतः ॥४८॥सौग्रामे क्षेत्रसीमान्ते चान्यग्र निरीक्षणम्क्षणिकालयं संस्थाप्य पूजयेत्तन्त्रवित्तमः ॥४९॥त्रिनाडि त्रिदिने वापि त्रिपक्षे वा त्रिमासकेनित्यं त्रिकालं संपूज्य शत्रुनाशं न संशयः ॥५०॥रिपुसंग्रहणार्थं चेद्धस्तौ रात्रौ च कारयेत्युद्धकाले रिपुसंभं स्तम्भं हस्तौ च बन्धनम् ॥५१॥शिलामृण्मये वापि दारुजे कटिशर्कराएतेषां वैनतेयं च वर्णसंस्कारमेव च ॥५२॥त्रिंशत्यंशमग्रपक्षम्तस्मादूके पक्षकैकांशहीनम्तद्वदग्रे मूलतारं शरांशम्पक्षैः सर्वैश्चाग्रतारं यथेष्टम् ॥५३॥बाह्याबाह्ये पक्षसंयुक्तमेतत्बाह्योश्चाग्रे संयुक्तं चाग्रपत्रम्मानं कृत्वा पञ्चपक्षैः प्रधानम्मानानुक्तं कन्यसा शोभनार्थम् ॥५४॥पीतं श्वेतं श्यामरक्तं च कृष्णम्मूलाग्रान्तं पञ्चवर्णं क्रमेण ॥५५॥मालावर्धांशवत् कर्णसंयुक्तम्श्रोण्यां च पक्षैः पङ्क्तितः पक्षधा स्यात्वक्त्रं तुङ्गं विस्तृतं विहीनकेकर्तुर्मरणं न संशयः ॥५६॥यत्र मानं विधिवत्प्रकारयेत्पुत्रवृद्धिः ॥५७॥इति मानसारे वास्तुशास्त्रे गरुडमानविधानं एकषष्टितमोऽध्यायः N/A References : N/A Last Updated : October 07, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP