संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्|
राजहर्म्यविधानम्

मानसारम् - राजहर्म्यविधानम्

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


एकाशीतिक्रमाधिक्यं शतदण्डं समारभेत् ॥१॥

सैकद्विशतदण्डान्तं द्विद्विदण्डविवर्धनात्
सर्वभूपस्य हर्म्ये तु कन्यसादि त्रयं त्रयम् ॥२॥

तद्विस्तारमिति प्रोक्तमायाममिति वक्ष्यते
विस्तारात्पादमाधिक्यमर्धाधिक्यमथापिवा ॥३॥

त्रिपादाधिक्यमेवं वा तत्समाधिक्यमेव वा
पञ्चाधिकचतुःषष्टिशतदण्डं समारभेत् ॥४॥

एकाशीतिशतान्तं स्याद् द्विद्विदण्डेन वर्धनात्
एवं तु चोत्तमान्तं स्यात्कन्यसादि त्रयं त्रयम् ॥५॥

महाराजस्य हर्म्ये तु विशालं परिकीर्तितम्
विस्तारादायते सर्वे यथा प्रागुक्तवन्नयेत् ॥६॥

त्रयाधिक्यं च पञ्चांशं शतदण्डं समारभेत्
नन्दषष्टाधिकं दण्डं शतदण्डावसानकम् ॥७॥

कन्यसा नवधा प्रोक्तं द्विद्विदण्डेन वर्धनात्
नरेन्द्र स्यालये सर्वे विस्तारं परिकीर्तितम् ॥८॥

नवत्रिंशाधिकं दण्डं शतदण्डं समारभेत्
पञ्चाशच्छतपर्यन्तं कन्यसादि त्रयं त्रयम् ॥९॥

पार्ष्णिकस्य तु हर्म्यस्य विस्तारं परिकीर्तितम्
पूर्ववच्चायते सर्वे विस्तारं वर्धयेत्क्रमात् ॥१०॥

त्रयोविंशच्छतमारभ्य द्विद्विदण्डेन वर्धनात्
नवत्रिंशच्छतान्तं स्यात् पूर्ववन्नवभेदकम् ॥११॥

हर्म्यं पट्टधरोत्सेधे विस्तारायाम पूर्ववत्
ससप्तशतदण्डादौ द्विद्विदण्डेन वर्धनात् ॥१२॥

त्रयोविंशच्छतान्तं स्यात्कन्यसादि त्रयं त्रयम्
मण्डलेशालयतारं दीर्घ प्रागुक्तवन्नयेत् ॥१३॥

एकाधिक्यं तु नवतिदण्डं चैव समारभेत्
हस्ताधिकशतान्तं च विस्तारं नवधा भवेत् ॥१४॥

एवं तु पट्टभाक् हर्म्ये चायामं पूर्ववद् भवेत्
सत्रिर्नवाष्टदण्डादौ द्विद्विदण्डेन वर्धनात् ॥१५॥

एकाधिकनवत्यन्तं नवधा चोक्तमानकम्
प्रहारकस्य हर्म्ये तु कन्यसादि विशालकम् ॥१६॥

आयामं पूर्ववत्कुर्याद्वर्धयेद् द्विगुणान्तकम्
नवाधिकं तु पञ्चाशद् दण्डं चैव समारभेत् ॥१७॥

सपञ्चसप्ततिश्चान्तं द्विद्विदण्डेन वर्धनात्
एवं तु नवधा प्रोक्तं कन्यसादि त्रयं त्रयम् ॥१८॥

अस्रग्राहस्य हर्म्ये तु चैवायामं तु पूर्ववत्
एकादि सप्तसालान्तं चक्रवर्तिनो हर्म्यके ॥१९॥

षट्प्राकारं तु संकल्प चाधिराजस्य हर्म्यके
एकादिपञ्चसालान्तं नरेन्द्र स्यापि हर्म्यके ॥२०॥

चतुःशालावसानान्तं पार्ष्णिकस्य तु हर्म्यके
एकादिकं त्रिसालान्तं पट्टधरादिभिस्त्रिभिः ॥२१॥

प्राहारकास्रग्राहाभ्यां कुड्यमेकं द्वयान्तकम्
अधः सालं तथैकांशं द्वितीयं च त्रयांशकम् ॥२२॥

तृतीयं सप्तभागं स्यात्सैकार्कांशं त्वरीयकम्
पञ्चमं चैकविंशांशमेकत्रिंशांशं षष्ठकम् ॥२३॥

सप्तमं च त्रयाधिक्यं चत्वारिंशाशमेव वा
कुर्यादेवं तु विस्तारे तत्तदायामं पूर्ववत् ॥२४॥

पूर्वोक्तदण्डमानं चेच्चान्तःसाले प्रकल्पयेत्
तस्मात्तु चोक्तवद् वृद्ध्या सप्तसालावसानकम् ॥२५॥

तन्माने तु सालानां विनाभित्ति सभित्तिकम्
अन्तर्भित्तिस्तु चैवम् स्याद्बहिर्भित्तिस्तु सर्वदा ॥२६॥

कुर्यात्पश्चात्तु भित्तिश्चेत् मानम् वक्ष्ये यथाक्रमम्
उक्तप्रमाणबाह्ये तु कुड्यं कुर्यात्समन्ततः ॥२७॥

एकदण्डं समारभ्य सार्धदण्डेन वर्धनात्
एकसालादि सप्तान्तं चतुर्दण्डावसानकम् ॥२८॥

भित्तिविस्तारमित्युक्तं केचिद्धस्तविवर्धनात्
सार्धद्विदण्डपर्यन्तं सप्तमान्तं विशालकम् ॥२९॥

विस्तारं तु समुत्सेधं तत्पादाधिकमेव वा
अर्धाधिकमथोत्सेधं पादोनद्विगुणं तु वा ॥३०॥

विस्तारं द्विगुणं वापि बाह्ये वप्रं तथोन्नतम्
मूलतारे तु सप्तसाष्टांशैकैक हीनकम् ॥३१॥

भित्तिगृहस्य विशालं स्यान्मूलाग्रान्तं क्षयं क्रमात्
प्राकारशीर्षसर्वं हस्तेनदन्तरोन्नतम् ॥३२॥

वृत्तं वा चतुरश्रं वा वक्त्राकारं तथैव च
षण्मात्रम् चाष्टमात्रम् च द्वादशाङ्गुलमेव च ॥३३॥

कुर्यादन्तान्तरं शेषं शेषं युक्त्या प्रयोजयेत्
शिलाचेष्टकयोर्वापि मृण्मयैर्भित्तिकल्पनम् ॥३४॥

एकं वोदकभित्तिं वा कुड्यान्तं मण्डपाकारकम्
एवं कल्पं तु कामार्थमनुचरादिवासकम् ॥३५॥

एवं तु गृहमानं स्याद् विस्तारं चाथ वक्ष्यते
सालानामपि सर्वेषां परमशाधिकपदं न्यसेत् ॥३६॥

मध्ये ब्रह्मपदं त्यक्त्वा परितस्तु नृपादिभिः
कुर्यात्सर्वत्र सर्वेषामभीष्टादिजनालयम् ॥३७॥

इन्द्रे च वारुणे वापि सार्वभौमस्य हर्म्यकम्
अथवार्यपदे चैव चतुर्दिक्षु विदिक्ष्वपि ॥३८॥

यमे विवस्वते चापि चाधिराजस्य हर्म्यकम्
भूधरे च कुबेरे च नरेन्द्र स्यालयं भवेत् ॥३९॥

इन्द्रे इन्द्र जयस्यांशे पार्ष्णिकस्य गृहं भवेत्
अथवा पुष्पदन्तस्य पदे वासं प्रकल्पयेत् ॥४०॥

रुद्रे रुद्र जये वापि चासुरस्य पदेऽथवा
पट्टधृगालयं कुर्याच्छोषकस्य पदेऽपि वा ॥४१॥

गृहक्षते च सवित्रे सावित्रस्य पदेऽपि वा
मण्डलेशस्य हर्म्यं स्यात्पट्टभाक् चालयं तु वा ॥४२॥

आपवत् सापवत्सस्य मृगे वा मुख्यकेऽपि वा
प्राहारकास्त्रग्राहयोश्चालयं परिकल्पयेत् ॥४३॥

सर्वेषामपि भूपानां स्वनिर्यानि चतुष्टये
गृहमेवं तु शालायां चोक्तमेवं पुरातनैः ॥४४॥

सर्वेषां मूलहर्म्यानां पूर्वद्वारं प्रकल्पयेत्
तत्तन्मूलस्य हर्म्यस्य दक्षिणे चोत्तरेऽपि वा ॥४५॥

नैरृत्ये वायवे चापि तत्तन्महिषिकागृहम्
मूलहर्म्यस्य यामे तु साभिषेकादिमण्डपम् ॥४६॥

सुग्रीवे पुष्पदन्ते वा चायुधस्यालयं भवेत्
असुरे शोषके वापि वस्तुनिक्षेपमण्डपम् ॥४७॥

वरुणे नैरृते वापि मुहुर्वस्त्रधनालयम्
सोमे च मुख्यके वापि रत्नहेमादिकालयम् ॥४८॥

गन्धर्वे भृङ्गराजे वा भूषणालयमेव च
दक्षिणे नैरृते वापि भोजनार्थं तु मण्डपम् ॥४९॥

तथेशानपदे वापि पचनालयमेव च
अनिले चाग्निके वापि पुष्करिण्या च कल्पयेत् ॥५०॥

महिष्यावाससौम्ये कञ्चुकीरा आलयं भवेत्
वायव्येन धनाङ्गांशे पुष्पमण्डपं योजयेत् ॥५१॥

अदिते चोदिते वापि मञ्जनालयमेव च
तत्तद्बाह्यप्रदेशे तु कायशुद्ध्यर्थमण्डपम् ॥५२॥

वायव्ये नैरृते वापि सूतिकामण्डपं भवेत्
पूत्रे वा वितथे चैव दासदास्यालयं भवेत् ॥५३॥

गृहक्षतपदे चैव शयनालयमेव च
मुख्ये वा अथ भल्लाटे विलासिनीनां चालयम् ॥५४॥

दौवारिकपदे चैव राजकन्यकरालयम्
द्वारस्य वामपार्श्वे तु गजाश्वादिकालयम् ॥५५॥

द्वारस्य दक्षिणे पार्श्वे रक्षकावासमेव च
सत्यके चान्तरिक्षे च क्षौरकालयमेव च ॥५६॥

भृशे यानालयं कुर्याच्छे प्रागुक्तवद् भवेत्
अन्तःसालमिति प्रोक्तं बाह्यशालमिहोच्यते ॥५७॥

वरुणे युवराजस्य चालयं तत्प्रकल्पयेत्
तत्पूर्वे चोत्तरे वापि तस्यैवानुचरालयम् ॥५८॥

याम्ये च सोमदिग् वापि वायव्ये वाथ नैरृते
आस्थानमण्डपं कुर्यात्पुष्करिण्यां च वायवे ॥५९॥

नागस्य वामके याम्ये कुर्यादारामदेशकम्
पुष्पोद्यानं ततः कुर्यान्मुख्य भल्लाटकेऽपि च ॥६०॥

नृत्तागारं ततः कुर्यान्नानानृत्ताङ्गनानि च
आत्मार्थं यजमानार्थं देवताहर्म्यमीशके ॥६१॥

द्वितीये हर्म्ये याम्ये तु पुरोहितालयमेव च
रोगे वा मुख्यके वापि स्वामिकारालयमेव च ॥६२॥

द्वितीयः सालबाह्ये तु द्वारं तस्य तु दक्षिणे
महाशस्त्रालयं कुर्याद् भैरवं तु बहिर्बहिः ॥६३॥

ईशे तु धेनुशालाश्च द्वारं कुर्यान्महेन्द्र के
पार्श्वके मेषशालाश्च सत्यके वानरालयम् ॥६४॥

सोमादीशानपर्यन्तं वाजिशाला प्रकल्पयेत्
याम्यादिपावकान्तं स्याद् गजशालां प्रकल्पयेत् ॥६५॥

तस्मात्तु नैरृत्यान्तं कुत्कुटालयमेव च
वायुकोणादिमुख्यान्तं मृगाणां हरिणालयम् ॥६६॥

सुग्रीवे पुष्पदन्ते च कल्पयेन्मल्लमण्डपम्
उत्तरे बाह्यके वापि चोत्तरे वायवे तथा ॥६७॥

तद्देशे चोर्ध्ववेदिः स्याद्विपदार्थाङ्कणान्वितम्
परितः शूलकम्पं स्याद् द्वारं तद्दक्षिणोत्तरे ॥६८॥

तत्तत्पश्चिमदेशे तु युद्धालोकनमण्डपम्
आरुह्यावलोकनार्थं कुर्याद्युक्त्या च मण्डपम् ॥६९॥

वरुणे पुष्पदन्ते वा मेषयुद्धार्थमण्डपम्
मृगे च भृङ्गराजे वा कुक्कुटायुद्धमण्डपम् ॥७०॥

मण्डपाङ्गणमध्यं तु परितो मेखलैर्युतम्
एकद्वित्रिचतुष्पञ्चहस्तमूलाग्रविस्तृतम् ॥७१॥

सार्धद्विहस्तनिम्नं स्यात्सार्धार्धपरिघान्वितम्
द्वौवारिकपदे चैव मयूरालयमेव च ॥७२॥

द्वारस्य दक्षिणे बाह्ये व्याघ्रकालयमेव च
तद्बाह्ये तत्र देवादीन् किरातालयमेव च ॥७३॥

तृतीये वितथे तस्यांशे रहस्यावासमण्डपम्
चतुर्थे यमदिग्भागे सन्धिविग्रहमण्डपम् ॥७४॥

षट्सप्तावरणे वापि दक्षिणे पश्चिमेऽपि च
उत्तरे पूर्वके वापि गजमश्वादिवाहनम् ॥७५॥

आरुह्यालोकनार्थं च मण्डपं परिकल्पयेत्
ईशे वा वितथे चैव रङ्गमण्डपमेव च ॥७६॥

भृशे वा सान्तरीक्षे वा कारागृहमेव च
प्राकारस्य चतुर्दिक्षु द्वारगोपुरकान्वितम् ॥७७॥

शेषं प्रागुक्तवत्कुर्यान्नृपचित्तवशात्तु यत्
अनुक्तं मण्डपं युक्त्या कुर्यादापोडशान्वितम् ॥७८॥

ब्रह्मांशे ब्रह्मपीठं स्यात्कुर्यादावृतमण्डपम् ॥७९॥

हस्तेन भूतमुनिरन्ध्रेण करेण कृत्वा
विस्तारभित्तिं चतुरश्रं त्रियैकवेन
ग्रामस्य मध्यमथ भूपतिमध्यहर्म्ये
नित्यं त्रिकाल इव पूजित ब्रह्मपीठम् ॥८०॥

इति मानसारे वास्तुशास्त्रे राजहर्म्यविधानं नाम चत्वारिंशोऽध्यायः

N/A

References : N/A
Last Updated : October 03, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP