संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| वृषभलक्षणम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - वृषभलक्षणम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत वृषभलक्षणम् Translation - भाषांतर वृषभस्य लक्षणं सम्यग्वक्ष्यते विधिनाधुनावायोरभिमुखं स्थाप्य पीठे वाथोत्सवेपि वा ॥१॥विमाने मण्डपे वापि चारोपरि परिन्यसेत्द्वारतुङ्गसमं श्रेष्ठं त्रिभागं मध्यमं भवेत् ॥२॥कन्यसं द्विभागं स्यात्त्रिविधं वृषभोदयम्एकहस्तं समारभ्य एकहस्तेन वर्धनात् ॥३॥नवहस्तान्तमुत्सेधं कन्यसादि त्रयं त्रयम्पञ्चविंशाङ्गुलमारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥४॥एकत्रिंशति मात्रान्तं यः शुभायादिसंभवम्बेरोत्सेधसमं श्रेष्ठं कर्णान्तं मध्यमं भवेत् ॥५॥बाह्वन्तं कन्यसं प्रोक्तमुत्सवं वृषभोदयम्पीठायामे त्रिभागैकं पीठतारसमं तु वा ॥६॥पीठतारं त्रिपादं स्यात्त्रिविधं वृषभोदयम्पादादुष्णीषसीमान्तं स्थानकं मानसंग्रहम् ॥७॥स्थानकं शयनं वापि लोहजे वा शिलेऽथवादार्वाभासरत्नेन सुधामृतकटशर्करा ॥८॥घनं वाप्यघनं वापि कुर्यात्तु शिल्पिवित्तमःएवं तु वृषभोत्सेधं पञ्चादशाङ्गुलं भवेत् ॥९॥उष्णीषात्तु गलाग्रान्तं दशमात्रं प्रशस्यतेतस्याधो वसुभागं स्याद् ग्रीवतुङ्गमिति स्मृतम् ॥१०॥तस्याधो चोरुमूलान्तं षोडशाङ्गुलमेव चषडङ्गुलं चोरुदीर्घं द्विमात्रं जानुतुङ्गकम् ॥११॥जङ्घा चोरुसमं दीर्घं क्षुरोत्सेधं द्विमात्रकम्ग्रीवात्तु पुच्छमूलान्तं चत्वारिंशाङ्गुलायतम् ॥१२॥शृङ्गायामं युगाङ्गुल्यं शृङ्गतारं त्रिमात्रकम्तदष्टांशैकभागं स्यात् शृङ्गाग्रस्य विशालकम् ॥१३॥फालतारं नवाङ्गुल्यं मुखतारं शराङ्गुलम्तत्समं चोच्छ्रयं कुर्यान्नेत्रायामं द्वयाङ्गुलम् ॥१४॥अत्यर्धाङ्गुलमुत्सेधं निर्गमं सार्धमात्रकम्नेत्रमध्ये मुखायाममष्टाङ्गुलमिति स्मृतम् ॥१५॥तस्मात्कृकरकान्तं स्यात्षण्मात्रं तदुदाहृतम्शृङ्गमध्यं युगाङ्गुल्यं भालतुङ्गं तथैव च ॥१६॥नेत्रान्मूलान्तं वेदमात्रान्तरं भवेत्शरांशं श्रोत्रदीर्घं स्याच्छ्रोत्रमूलं द्विमात्रकम् ॥१७॥तत्समं विस्तृतं चैव मध्यतारं युगाङ्गुलम्शिवाङ्गुलाग्रवितारं यथाहलमर्धाङ्गुलम् ॥१८॥अत्यर्धाङ्गुलं संप्रोक्तं नासिकायाममेव चअङ्गुलं सुरविस्तारं तत्समं नासिकाग्रकम् ॥१९॥पञ्चाङ्गुल स्यायतं स्यादुत्तरोष्ठं त्रिमात्रकम्अधरोष्ठं त्रिमात्रं स्याज्जिह्वायामं गुणांशकम् ॥२०॥तद्विस्तारं द्विमात्रं स्यात्तदर्धं तद् घनं भवेत्ग्रीवतारं तु पञ्चांशं मूलतारं त्रिमात्रकम् ॥२१॥पृष्ठग्रीवस्य मूले तु घनमष्टाङ्गुलं भवेत्अग्रं षडङ्गुलं चैव कुर्याद् वासं षडङ्गुलम् ॥२२॥तदुत्सेधं चतुर्मात्रं ग्रीवात्वे लम्बनं बुधःमूलमध्याग्रविस्तारं वेदबद्धकलाङ्गुलम् ॥२३॥घनमष्टाङ्गुलसंयुक्तं कुर्यात्तत्रैव योजयेत्ग्रीवस्य पुरतो बिम्बं मूलव्यास द्वयाङ्गुलम् ॥२४॥हृदयात्स्निग्धपर्यन्तं तत्रोच्चं द्विर्नवाङ्गुलम्पृष्ठोच्चं मनुमात्रं स्यात्पृष्ठतारं चतुस्त्रयम् ॥२५॥पृष्ठोरुमूलविस्तारं दशमात्रं प्रशस्यतेमध्यमं चाष्टमात्रं स्यादग्रं तु चतुरङ्गुलम् ॥२६॥शराङ्गुलं चोरुदीर्घं स्याज्जानुतुङ्गं कलाङ्गुलम्जङ्गायामं शराङ्गुल्यं खुरतुङ्गं द्विमात्रकम् ॥२७॥सार्धवह्न्यङ्गुलं जानुविस्तारं परिकीर्तितम्खुरायामं द्विमात्रं स्यात्पुच्छमूलं द्विमात्रकम् ॥२८॥अपरोरुद्वयोर्मध्ये मुष्कशेषोदरान्वितम्स्कन्धतारं षडङ्गुल्यं तस्याधो रुविशालकम् ॥२९॥मूलं वेदाङ्गुलं प्रोक्तमग्रस्यार्धगुणाङ्गुलम्जानुतारं गुणाङ्गुल्यं तथो जङ्घाविशालकम् ॥३०॥सार्ध द्व्यङ्गुलयोर्मध्ये तत्समं तत्खुरं भवेत्शेषं युक्त्या च संयुक्तं श्वेतवर्णे शोभितम् ॥३१॥श्वेतवर्णनिभं भद्र मग्रं हि कृष्णसधूमवत् ॥३२॥वेदपादखुरैरपि कर्णयोःश्वेतरक्तसमग्रमनोहरम्शङ्खशत्यैः क्षणमरक्तं च मालाकर्णबन्धैः कर्णरुद्रा क्षमाला ॥३३॥अन्यैर्युक्तं किंशुकपुष्पमालैःवंशस्योर्ध्वे व्याघ्रचर्माभिरामम्भृङ्गकोलकललाटपट्टधृक्पत्रवल्लिबहुरत्नशोभितम् ॥३४॥कर्णयोर्वपुरपार्श्वचामरैःपादनूपुरसभूषणान्वितम् ॥३५॥इति मानसारे वास्तुशास्त्रे वृषभलक्षणविधानं नाम द्विषष्टितमोऽध्यायः N/A References : N/A Last Updated : October 07, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP