संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्|
पदविन्यासलक्षणम्

मानसारम् - पदविन्यासलक्षणम्

'मानसारम्' वास्तुशास्त्रावरील एक प्राचीन ग्रंथ आहे.


अधुना पदविन्यासलक्षणं वक्ष्यते क्रमात्
प्रथमं चैकपदं स्यात्सकलं नाममेव च ॥१॥

द्वितीयं चतुष्पदं चैव नाम पैशाचमेव च
तृतीयं नवपदं चैव नाम पीठमिति स्मृतम् ॥२॥

चतुर्थं षोडशपदं महापीठमिति स्मृतम्
पञ्चमं पञ्चपञ्चांशमुपपीठमिति स्मृतम् ॥३॥

षष्ठमं षष्ठषष्ठांशं चोग्रपीठं च कथ्यते
सप्तमं सप्तसप्तांशं स्थण्डिलं परिकीर्तितम् ॥४॥

अष्टमं तु चतुःषष्टिपदं चण्डितमीरितम्
कथितमेकाशीतिपदं नवमं परमशाधिकम् ॥५॥॥

दशमं शतपदं स्यान्नाममासनमीरितम्
एकादशं तथा प्रोक्तं चैकविंशच्छतं पदम् ॥६॥

स्थानीयं नाममेव तु चाथ द्वादशकं तथा
वेदाधिक्यं चत्वारिंशदेव शताधिकं पदम् ॥७॥

त्रयोदशं तथा प्रोक्तं नवषष्ट्यधिकं शतम्
पदमेवं विधिं ज्ञात्वा नाम चोभयचण्डितम् ॥८॥

चतुर्दशं तथा प्रोक्तं षण्णवत्यधिकं शतम्
नाम तद्भद्र मेवं तु अथ पञ्चदशं तथा ॥९॥

पञ्चविंशपदाधिक्यं शतद्वयपदान्वितम्
नामं महासनं प्रोक्तमथ षोडशकं तथा ॥१०॥

सप्ताष्टाधिकं द्विशतं पद्मगर्भं पदं भवेत्
तथा वै सप्तदशकं नवाशीतिशतद्वयम् ॥११॥

त्रियुतं पद्मेवोक्तं तथाष्टादशमं तथा
चतुर्विंशत्सत्रिशतं चैव कर्णाष्टकं भवेत् ॥१२॥

एकोनविंशति तथा चैव षष्टिशतत्रयम्
गणितं पदमित्येवं तथा विंशतिकं ततः ॥१३॥

चतुःशतपदं चैव प्रोक्तं कुर्याद्विशालकम्
तथा चैकविंशतिकं चैकपञ्चाष्टमाधिकम् ॥१४॥

चतुःशतपदं युक्तं सुसंहितमितीरितम्
तथाऽपि द्वाविंशतिकं वेदाशीतिचतुःशतम् ॥१५॥

पदं सुप्रतिकान्तं स्यात्त्रयोविंशद्विधानके
नवविंशत्पञ्चशतं पदमेतद्विशालकम् ॥१६॥

चतुर्विंशद्विधाने तु षडाधिक्यं ससप्तति
पञ्चशतपदयुतं विप्रगर्भमिति स्मृतम् ॥१७॥

पञ्चविंशद्विधाने तु पञ्चविंशत्सषट्शतम्
पदं विवेश संज्ञात्वा नाममेवं प्रकीर्तितम् ॥१८॥

षड्विंशतिविधाने तु षट्सप्ततिकसंयुतम्
षट्शतं पद संज्ञात्वा विपुलं भोगमिति स्मृतम् ॥१९॥

सप्तविंशद्विधाने तु नवविंशतिसप्तशः
शतयुतं पदं चैव विप्रकान्तमिति स्मृतम् ॥२०॥

तथाऽपि चाष्टाविंशत्ये वेदाशीतिं च माधिकम्
सप्तसंख्याशतयुतं विशालाक्षमिति स्मृतम् ॥२१॥

नवविंशद्विधाने तु चत्वारिंशैकमाधिकम्
अष्टशतपदं युक्तं विप्रभक्तीति कीर्तितम् ॥२२॥

तत्र त्रिंशद्विधाने तु पदं नवशतं तथा
एवं विश्वेशसारं च चैकत्रिंशद्विधानतः ॥२३॥

एकषष्टिसमाधिक्यं पदं नवशतयुतम्
एवमीश्वरकान्तं स्याद्द्वात्रिंशद्विधानके ॥२४॥

चतुर्विंशतिसंयुक्तं सहस्रपदसम्मितम्
एवं तु चन्द्र कान्तं स्यादेवमुक्तं पुरातनैः ॥२५॥

चतुःसूत्त्रं तु संयुक्तं सकलमेकपदं भवेत्
तत्पूर्वसूत्रमादित्यं दक्षसूत्रं यमाख्यकम् ॥२६॥

प्रत्यक्सूत्रं जलेशं स्यात्सौम्यसूत्रं क्षपाहरम्
देवतागुरुपूजार्थं चाग्निकार्यार्थमेव वा ॥२७॥

यतीनामासनायापि भोजनार्थं सनातनम्
पैतृकार्थं तु संपूज्य एवं तु सकलं स्मृतम् ॥२८॥

पैशाचाष्टसूत्रेण संयुक्तं तु चतुष्पदम्
पैशाचेशपदे स्थाप्य वह्नेश्च वाऽग्निदेवतम् ॥२९॥

पवनं वायुकोणे तु गगनं चैव नैरृते
एवं तद्ग्रहपूजार्थं स्नपनं स्याज्जनार्थकम् ॥३०॥

महापीठपदे मध्ये ब्राह्मणस्य चतुष्पदम्
तद्बहिः सूत्रदेशेशादापवश्चार्यकं तथा ॥३१॥

सावित्रं च विवस्वां च इन्द्रं चैव तु मित्रकम्
रुद्रं चैव भूधरं चैव एवं प्रदक्षिणं क्रमात् ॥३२॥

तद्बहिः परितः सूत्रे चैशं चैव जलान्तकम्
आदित्यं विमृशं चैव कृशानुं विततं तथा ॥३३॥

यमं च भृङ्गराजं च पितृसुग्रीवकौ तथा
शोषं मारुतं मुख्यसोमादितस्तथा ॥३४॥

पञ्चपञ्चामरान् प्रोक्तं चैशात्तु पूर्ववत्क्रमात्
एवं सूत्रस्थितान्देवान्पदस्थांश्चोपपीठके ॥३५॥

एतेषामुक्तसर्वेषु पदेषु द्वयमुच्यते
तन्मण्डूकं पदं चैव यं तत्परमशायिकम् ॥३६॥

युग्मं हि निष्कलं प्रोक्तमयुग्मं सकलं तथा
एतत्पदद्वयं सर्वं वास्तूनां हि सनातनम् ॥३७॥

एतत्पदस्थितं सर्वदेवानां रूपमुच्यते
त्रिंशत् सूत्रसंयुक्तं चाष्टाविंशत्तु सन्धिभिः ॥३८॥

चतुष्कैश्च षडाधिक्यं त्रिंशत्संयुक्तमेव च
षट्कद्वादशसंयुक्तं कर्णे शूलं चतुष्टयम् ॥३९॥

मध्ये चाष्टकसंयुक्तं सूत्र मण्डूकनामकम्
चतुर्दिक्षु चतुःसूत्रं षोडशान्यत्र सूत्रकम् ॥४०॥

दक्षिणाद्युत्तरान्तं स्यात्पूर्वादिपश्चिमान्तकम्
एते विंशतिसूत्रं स्यात्कर्णसूत्रं चतुष्टयम् ॥४१॥

एतद्बहिस्ततश्चैशाच्चतुष्कर्णे प्रदक्षिणे
अपवत्सापवत्स्यश्च प्रत्यगर्धार्धभोग्यता ॥४२॥

सवित्रं चैवं सावित्रं देवार्धार्धपदे स्थितम्
इन्द्रं चैवेन्द्र राजं च प्रत्येकार्धपदे पराः ॥४३॥

रुद्रो रुद्र जयं चैव चार्धार्धपदभोगिनः
एवं चाष्टामराः प्रोक्तास्तद्बहिश्च समारभेत् ॥४४॥

ईशानश्चैव पर्जन्यः अग्निः पूषाग्निकोणके
मृषश्च दौवारिकश्चैव कोणे नैरृत्यदेशके ॥४५॥

रोगं नाश द्वयो वायुकोणे चार्धार्धपदेश्वरे
बहिश्चतुष्षत्क तत्पार्श्वौ चतुष्कोणे समारभेत् ॥४६॥

जयन्तस्तत्परे सौम्ये न्तरिक्षे कपूर्वकं
वितथश्चैकपदे पूर्वे दक्षिणे कपदे मृगः ॥४७॥

सुग्रीवो दक्षिणे चैव गोथैकपद पश्चिमे
प्रत्यक् चैव पदे मुख्यमुदितश्चोत्तरेऽपि च ॥४८॥

पूर्वाद्दिनकं मध्यस्थसूत्रस्य सौम्यदिक्द्विपदे
तथोत्तरे महेन्द्र स्य द्विपदं दक्षिणे तथा ॥४९॥

सत्यस्य द्विपद तस्य दक्षिणे द्वयं भृशम्
दक्षिणे मध्यसूत्रस्य पूर्वे च द्विपदे यमः ॥५०॥

तत्पूर्वे द्विपदे स्थित्वा राक्षसं चैव पश्चिमे
गन्धर्वे द्विपदे स्थाप्यं मृश द्विपदं भवेत् ॥५१॥

पश्चिमे मध्यसूत्रस्य दक्षिणे वरुण स्थितः
द्विपदं पुष्पदन्तस्य द्विपदं चोत्तरे तथा ॥५२॥

द्विपदे द्विपदे चैव चेश्वरः शोषरोगयोः
तत्तद्विपदं ज्ञात्वा चतुर्दिक्षु क्रमाद्बुधः ॥५३॥

चरकीशानबहिः स्थाप्या विदारी पावके विधिः
बहिर्नैरृत्यसै बाह्ये पूतना च बहिस्तथा ॥५४॥

वयुकोणप्रदेशे तु बाह्ये वा पापराक्षसी
एवं तु चण्डितं प्रोक्तं परमशायिकमुच्यते ॥५५

एकाशीतिपदं कृत्वा मध्ये नवपदं विधिम्
पूर्वे रसपदं चैव तदेवमार्यमनः स्मृतम् ॥५६॥

दक्षिणे रसपदं चैव विवस्वान् एव कथ्यते
पश्चिमे षट्पदं चैव मित्रस्य मिति संस्मृतम् ॥५७॥

सौम्ये रसपदं चैव भूधरस्य चतुष्टयम्
चतुर्दिक्ष्वन्तराले च ई विशादीनि चतुष्टयम् ॥५८॥

तत्तच्चतुष्पदे सर्वे कर्णे चाश्रयमीरितम्
भूधरस्य ततः पूर्वे द्विपदा चापवस्तथा ॥५९॥

आर्यस्य पदे सौम्ये अपवत्स्या द्वयोस्तथा
पूर्वे रसपदाद्याद्ये द्विपदे च सवित्रकः ॥६०॥

विवस्वती द्विपूर्वादिद्वंश साविन्द्र मेव च
दक्षे रसपदात्प्रत्यक् द्विपदे च तथैन्द्र कः ॥६१॥

मित्रकस्य पदे याम्ये द्विपदे इन्द्र जयस्तथा
पश्चिमे रसपदात्सौम्ये द्विपदे रुद्र देवता ॥६२॥

सौम्ये रसपदात्प्रत्यक् द्व्यंशे रुद्र जयस्तथा
एवमन्तर्गते देवांस्तद्बाह्ये देशे राक्षसान् ॥६३॥

इन्द्रे चैव पदे भानुश्चाग्निश्चैव पदाग्निके
यमे चैव पदे चक्रि नैरृत्ये कपदेपितत् ॥६४॥

जलेशैकपदे प्रत्यक् पवनैकपदे मरुत्
सौम्ये चैकपदे चैन्द्र श्चेशस्यैकपदैशके ॥६५॥

पर्जन्येकपदं चैव चेशकस्य तु दक्षिणे
जयन्तस्य पदं चैकं पर्जन्यस्य तु दक्षिणे ॥६६॥

महेन्द्र स्य पदं चैकं जयन्तस्य तु दक्षिणे
सत्यकस्य पदं चैकमादित्यस्य तु दक्षिणे ॥६७॥

भृशस्यैकपदं प्रोक्तं सत्यकस्य तु दक्षिणे
अन्तरिक्षस्यैकपदं वह्निकोणस्य चोत्तरे ॥६८॥

पूषस्य पदमेकं स्याच्चाग्निकोणस्य पश्चिमे
विधातस्य पदं चैकं पूषकस्य तु पश्चिमे ॥६९॥

गृहक्षतस्यैकपदं विधातस्य पश्चिमे
गन्धर्वस्य पदं चैकं धर्मदेवस्य पश्चिमे ॥७०॥

भृङ्गराजस्यैकपदं गन्धर्वस्य तु पश्चिमे
वृषस्यैकपदं शरतं भृङ्गराजस्य पश्चिमे ॥७१॥

दौवारिकस्यैकपदं गगनस्य तु चोत्तरे
सुग्रीवस्य पदं चैकं दौवारिकस्य चोत्तरे ॥७२॥

पुष्पदन्तस्यैकपदं सुग्रीवस्य तु चोत्तरे
असुरस्यैकपदं शस्तं वरुणस्य तु चोत्तरे ॥७३॥

शोषकस्य पदं चैकं चासुरस्य तु चोत्तरे
रोगस्यैकपदं प्रोक्तं शोषकस्यैव चोत्तरे ॥७४॥

नगस्यैकपदं शस्तं पवनस्य तु पूर्वके
मुख्यस्यैकपदं ज्ञात्वा नागस्यैव च पूर्वके ॥७५॥

भल्लाटस्य पदं चैकं प्रोक्तं मुख्यस्य पूर्वके
मृगस्यैकपदं शस्तं सोमदेवस्य पूर्वकम् ॥७६॥

अदितेस्तु पदं चैकं शस्तं मृगात्तु पूर्वके
अदितीशानयोर्मध्ये चोदिते कपदं भवेत् ॥७७॥

हेमवर्णं चतुर्हस्तं चतुर्वक्त्राष्टलोचनम्
श्वेतवस्त्रजटामौलियज्ञसूत्रोत्तरीयकम् ॥७८॥

कर्णकुण्डलसंयुक्तमष्टकर्णं चतुर्गलम्
कमण्डलुं चाक्षमाला च वामसव्यकरौ धृतौ ॥७९॥

अभयं दक्षिणे पूर्वेऽन्तस्य वा वरदे तरे
सर्वाभरणसंयुक्तं गण्डेन तिलकान्वितम् ॥८०॥

पदे सर्वेषु मध्ये तु सृष्ट्यर्थमिति रूपकम्
एवं पितामहं ध्यात्वा पद्मसिंहासनोपरि ॥८१॥

रक्तवर्णं चतुर्हस्तमेकवक्त्रं द्विनेत्रकम्
करण्डमकुटोपेतं रक्तवस्त्रोत्तरीयकम् ॥८२॥

सर्वाभरणसंयुक्तं परहस्तौ चाब्जधारिणौ
पूर्वे च त्वभयं सर्वे वरदं वामहस्तकौ ॥८३॥

एवमार्यदेवस्य ध्यात्वा धेनुञ्च पूर्ववत्
श्वेतवर्णं चतुर्हस्तं परे पाशाङ्कुशौ धृतौ ॥८४॥

शेषमार्यवत्प्रोक्तं ध्यात्वा देवं विवस्वतम्
श्यामवर्णं तु मित्रं स्याच्छेषं पूर्ववदाचरेत् ॥८५॥

भूधरं हेमवर्णं तच्चाब्जपाशापरं करे
शेषं प्रागुक्तवद्ध्यात्वा वास्तुभूतोपरिस्थितम् ॥८६॥

द्विभुजं च द्विनेत्रं च करण्डमकुटान्वितम्
श्वेतवर्णातिरिक्ताक्षं हेमवर्णांशुकाम्बरम् ॥८७॥

सर्वाभरणसंयुक्तं वरदं चाङ्कुशोधृतम्
अपवत्समिति प्रोक्तं चापवत्साश्च रक्तकम् ॥८८॥

शेषं प्रगुक्तवद्ध्यात्वा समिन्द्रं रक्तवर्णवत्
द्विभुजान्तं समुद्धृत्य शेषं तत्पूर्ववद्भवेत् ॥८९॥

साविन्द्र श्यामवर्णां वा रक्तवस्त्रोत्तरीयकम्
इन्द्र स्य रक्तवर्णं च चेन्द्र राजस्य हेमवत् ॥९०॥

सर्वाभरणसंयुक्त रौप्य दृष्टिसमन्वितम्
शेषं पूर्ववदुद्दिष्टं ध्यात्वा शेषं तु पूर्ववत् ॥९१॥

रुद्रौ च रक्तवर्णौ च द्विभुजौ च त्रिनेत्रकौ
त्रिशूलौ वरदौ चैव चर्माम्बरोत्तरीयकम् ॥९२॥

जटामकुटसंयुक्तौ सर्वाभरणभूषितौ
वृषारूढां सदेवीं च व्याघ्रचर्माम्बरां तथा ॥९३॥

श्वेतवर्णनिभं चैव सर्वाभरणशोभितम्
दक्षिणे च करे टङ्कं हरिणीं वामके करे ॥९४॥

अभयं पूर्वकेऽसव्ये वरदं वामहस्तके
ईशमूर्तिमिति ध्यात्वा रक्तवर्णं च शीष्पतम् ॥९५॥

द्विभुजं च द्विनेत्रं च रथैरावतवाहनम्
वराङ्कुशधरं देवं सर्वाभरणभूषितम् ॥९६॥

नीलाम्बरधरं चैव यज्ञसूत्रोत्तरीयधृत्
अग्निवर्णं चाग्निदेवं मेषवाहनसंयुतम् ॥९७॥

द्विभुजं च त्रिनेत्रं च ज्वालासदृशमूर्ध्वजम्
स्रुक्स्रुवं पाणियुगले स्वाहादेव्या च संयुतम् ॥९८॥

सर्वाभरणसंयुक्तं शेषं प्रागुक्तवद्भवेत्
महिषारूढं त्रिणेत्रं च ज्वालासदृशकुन्तलम् ॥९९॥

त्रिशूलं दक्षिणे हस्ते पाशं वामकरेऽधरे
धूम्रवर्णं रक्तवस्त्रं देव्या यम्या च संयुतम् ॥१००॥

यमं ध्यात्वा यथोक्तवत् सर्वाभरणभूषितम्
नरारूढं निरृतिं द्विभुजं च द्विनेत्रकम् ॥१०१॥

सव्यहस्ते गदां चैव वरदं वामहस्तके
श्यामवर्णेन्द्र देव्यां च संयुक्तं रक्तवस्त्रकम् ॥१०२॥

करण्डमकुटोपेतं ध्यात्वा शेषं तु पूर्ववत्
वरुणं मकरारूढं भरण्या सह सेवितम् ॥१०३॥

द्विभुजं च द्विनेत्रं च करण्डमकुटान्वितम्
पाशाङ्कुशधरं चैव धवलं रक्तं वाससम् ॥१०४॥

यज्ञसूत्रोत्तरीयं च नानाभरणभूषितम्
वायुदेवं मृगारूढं मारुत्या सह सेवितम् ॥१०५॥

द्विभुजं च त्रिनेत्रं च पाशं च वरदं तथा
शेषं च पूर्ववद्ध्यात्वा शशिरूपमिहोच्यते ॥१०६॥

द्विभुजं च द्विनेत्रं च पङ्कजद्वयधारिणम्
अश्वारूढं चन्द्रि कया संयुक्तं श्वेतवर्णकम् ॥१०७॥

श्वेताम्बरधरं यज्ञसूत्रं च मकुटान्वितम्
सर्वाभरणसंयुक्तं सौम्यं ध्यात्वा यथोक्तवत् ॥१०८॥

पर्जन्यं रक्तवर्णं च महान्तं श्यामवर्णकम्
महेन्द्रं पीतवर्णं च द्विभुजं च द्विनेत्रकम् ॥१०९॥

करण्डमकुटोपेतं सर्वाभरणशोभितम्
पाशपद्मावधारौ च रक्तवस्त्रोत्तरीयकौ ॥११०॥

सत्यं च श्वेतवर्णं च भृङ्गेशं धूम्रवर्णकम्
नीलवर्णं चान्तरिक्षं च द्विभुजं च द्विनेत्रकम् ॥१११॥

दण्डं पाशं च शूलं च वरदं च यथाक्रमम्
शेषं च पूर्ववद्ध्यात्वा सर्वाभरणभूषितम् ॥११२॥

पूषं च रक्तवर्णं च वितथं पीतवर्णकम्
गृहक्षतं कृष्णवर्णं वस्त्रकं रक्तपीतकम् ॥११३॥

गदा शूलश्च शक्तिश्च त्रयः पाशौ समुद्धृतौ
शेषं पूर्ववदुद्दिष्टं करण्डमकुटान्वितम् ॥११४॥

गन्धर्वं रक्तवर्णं च भृङ्गस्याञ्जनवर्णकम्
मृशस्य धूम्रवर्णं च शेषं प्रागुक्तवद्भवेत् ॥११५॥

दौवारिकः श्यामवर्णं सुग्रीवं रक्तवर्णकम्
पुष्पदन्तं तथा कृष्णं गदापाशोद्धृतं तथा ॥११६॥

शेषं पूर्ववदुद्दिष्टं वस्त्रं च मकुटद्वयम्
असुरं कृष्णवर्णं च शोषस्य धूम्रवर्णकम् ॥११७॥

रोगं च कृशरूपं स्याद्र क्ताक्षौ श्वेतवर्णकौ
शूलं कपालं चोद्धृत्य शेषं प्रागुक्तवद्भवेत् ॥११८॥

भुजङ्गाननं नागस्य पीतवर्णकरद्वयम्
मुसलं शूलमुद्धृत्य सर्वाभरणभूषितम् ॥११९॥

मुख्यं गजमुखं चैव द्विभुजं मकुटान्वितम्
रक्तवर्णांशुकोपेतं श्यामवर्णांशशोभितम् ॥१२०॥

पाशाङ्कुशोद्धृतौ हस्तौ सर्वाभरणभूषितम्
भल्लाटं मेषवक्त्रं च जयं तत्पूर्ववद्भवेत् ॥१२१॥

मृगस्य मृगवक्त्रं च मृगवर्णानि मौलिका
शूलं च खेटकोद्धृत्य अदितिं नीलवर्णकम् ॥१२२॥

खङ्गं कपालमुद्धृत्य मकुटाभरणान्वितम्
उदितं रक्तवर्णं च सिंहवक्त्रं गदाधरम् ॥१२३॥

शेषं प्रागुक्तवद्ध्यात्वा चैव प्रोक्तं पदेऽमरात्
चरकी श्वेतवर्णा च विदारी रक्तवर्णका ॥१२४॥

पूतना श्यामवर्णा च नीला स्यात्पापराक्षसी
एवं चतुर्विधाः प्रोक्ताः शूलं कपालमुद्धृतौ ॥१२५॥

रक्तवस्त्रधरास्तासां द्रं ष्ट्रा ग्रविलोचनी
रक्तकेशैर्विकीर्णैश्च चैशादिक्कर्णयोर्बहिः ॥१२६॥

स्थितवास्तुपुरुषोध्वेतब्रह्मादिदेवतान्स्थितान्
तद्वास्तुपुरुषं ज्ञात्वा ब्रह्मांशे मध्यकायं च ॥१२७॥

आर्यस्य च पदे मूर्ध्नि प्रागुदङ्मुखतो विदुः
ऐशाने कोणसूत्रे तु सव्यहस्तं प्रसारितम् ॥१२८॥

नैरृत्ये कोणसूत्रे तु सव्यपादं प्रसारितम्
अग्निकोणे तु सूत्रे तु सव्यहस्तं प्रसारितम् ॥१२९॥

वायुकोणे च सूत्रेत्वामपादं प्रसारितम्
विवस्वति पदे चैव दक्षिणं पार्श्वमीरितम् ॥१३०॥

भूधरस्य पदे चैव वामपार्श्वं विधीयते
मित्रस्य च पदे चैव ज्ञात्वा मेढ्रमुदीरितम् ॥१३१॥

कर्णे मर्मशिरा प्रोक्ता षड्विंशद् हृदये कचम्
पश्चिमे दक्षिणे वंशो मूलं तत्प्रागुदग्रयोः ॥१३२॥

एवं वास्तुपुरुषं कुब्जं च कुटिलिकं कृशम्
वास्तुवस्तु प्रयत्नेन देवानां तु नृणां तथा ॥१३३॥

शुभाशुभविधातारं तस्याङ्गानां न पीडयेत्
अज्ञानादङ्गहीनं च कर्ता चैव विनश्यति ॥१३४॥

तस्मात्तु शिल्पिभिः प्राज्ञैः ऊहापोहान् न योजयेत्
देवानामपि सर्वेषां ब्रह्मणां पश्यते विदुः ॥१३५॥

तत्तत्पदेऽमरान् सर्वान् स्थितान्भक्तिं प्रदक्षिणम् ॥१३६॥

इति मानसारे वास्तुशास्त्रे पदविन्यासलक्षणं नाम सप्तमोऽध्यायः

N/A

References : N/A
Last Updated : October 01, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP