संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| मध्यरङ्गविधानम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - मध्यरङ्गविधानम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत मध्यरङ्गविधानम् Translation - भाषांतर देवानां च नृपाणां च स्थानकासनयोग्यकम्मुक्ताप्रपाङ्गमानं च लक्षणं वक्ष्यतेऽधुना ॥१॥यद्युक्तमध्यरङ्गे तु चतुस्त्रिंशद्विभाजितेएकैकं भागहीनं स्यात्प्रपाविस्तारमिष्यते ॥२॥तच्चतुर्भागिकैकेन तन्मसूरकतुङ्गकम्तद्द्वयं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ॥३॥अथवाष्टांशकं तुङ्गे विभजेत्तद्विशेषतःअर्धार्धांशेन वेदिः स्यात्पञ्चांशं चाङ्घ्रितुङ्गकम् ॥४॥प्रपातुङ्गं शिवांशं स्यादथवा षड्विभाजितेएकांशं वेदिकोत्तुङ्गं चतुर्भागाङ्घ्रितुङ्गकम् ॥५॥एकांशं मञ्चतुङ्गं स्यात्सर्वालङ्कारसंयुतम्एकत्रिभक्तिकं वापि चतुरर्धाङ्घ्रिसंयुतम् ॥६॥सर्वेषां पादविस्तारं त्रिचतुष्पञ्चाङ्गुलं भवेत्धान्यस्तम्भमिति प्रोक्तं शिलास्तम्भं विशेषतः ॥७॥षट्सप्ताष्टाङ्गुलं वापि शिलास्तम्भं विशालकम्वृत्तं वा चतुरश्रम् वा अष्टाश्रं षोडशाश्रकम् ॥८॥पादतुङ्गेऽष्टभागे तु त्रयांशेनोर्ध्वमलङ्कृतम्बोधिकं मुष्टिबन्धं च फलका नाटिका घटम् ॥९॥सर्वालङ्कारसंयुक्तम् मूले पद्मसमन्वितम्चतुर्दिक्षु चतुर्भद्रं केचिद् भद्रं तु कारयेत् ॥१०॥कुट्टिमं चोपपीठं वा सोपपीठमसूरकम्अथवा चिन्हवेदिः स्यात्प्रपालङ्कारमुच्यते ॥११॥उत्तरं वाजनं चैव मुष्टिबन्धलुपादिभिःपरितः क्षुद्र नासिभ्योऽष्टषोडशमेव च ॥१२॥तदूर्ध्वे व्यालरूपादिमकरादि विभूषितम्तत्र मध्ये सभामध्ये न्यसेत्सिंहासनादिभिः ॥१३॥नित्यनैमित्तिकाख्यादिकाम्यैरपि च सर्वभिःचक्रवर्त्यादिभूतैश्च देवसिंहासनोपरि ॥१४॥स्वशक्तिभिरधिष्ठित्य संस्थिता जनसेविता ॥१५॥सिंहासनं मकरतोरणकल्पवृक्षम्मुक्ताप्रपाङ्गमपि दारुशिलेष्टकाद्यैःरत्नैरनेकबहुलोहविशेषकैश्चकुर्यान्मनोहरतरं चाथ सालभक्त्या ॥१६॥मुक्ताप्रपाङ्गार्थमुदीरितानिपादाद्यधिष्ठानानि तथोत्तराभिःमानानि हीनान्यधिकानि चेत्राजराष्ट्रस्य निकृन्तनानि ॥१७॥इति मानसारे वास्तुशास्त्रे मध्यरङ्गविधानं नाम सप्तचत्वारिंशोऽध्यायः N/A References : N/A Last Updated : October 07, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP