संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| भूपरीक्षाविधानम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - भूपरीक्षाविधानम् 'मानसारम्' वास्तुशास्त्रावरील एक प्राचीन ग्रंथ आहे. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत भूपरीक्षाविधानम् Translation - भाषांतर भूमिसंग्रहणं सर्वं शास्त्रे संक्षिप्यतेऽधुनातदुक्ताकारनादादिवर्णैर्युक्तं महीतलम् ॥१॥स्वीकृत्य शिल्पिकुशलो बलिं दत्वा यथाविधिपुण्याहं वाचयेत्पश्चात्तूर्यमङ्गलनिस्वनैः ॥२॥गच्छन्तु सर्वभूतानि राक्षसा देवता अपिअस्मात्स्थानान्तरं यायात्कुर्यात्पृथ्वीपरिग्रहम् ॥३॥जप्त्वा मन्त्रमिमं पश्चाद्विहिते कुम्भपरिग्रहात्स्थापयेत्सर्वबीजानि गोमयाक्तानि रूषिते ॥४॥प्रेक्ष्य सस्यात्पल्लवानि निविडानि निरवग्रहात्तत्र धेनुवृष नववत्सांश्चाऽपि निवेशयेत् ॥५॥पश्चात्पादक्रमैर्वर्गैर्नासाघ्राणैः समन्वितम्संघुष्ट वृषभध्वानै धवलेभूतलूषितम् ॥६॥यवप्रस्थसमेतैश्च पततीवत्सक्रमतःगोमयालेपितं पश्चाद्गोष्ठकैश्च निषेवितम् ॥७॥रोमन्थोद्गारपुलकैः शोभितं गोष्पदैरपिस्वच्छोदकसमाक्रान्त गोगन्धैश्च मनोहरम् ॥८॥एवं शुभदिनोपेतं तारकाविषयैरपिसुमुहूर्ते सुकरणे सुलग्ने सुपिद्वितिखितैः ॥९॥विप्रैश्च पश्चात्पुण्याहं कारयेत्सर्वमङ्गलम्भूतलं खननं कुर्याद्वस्तुमध्ये लयावधि ॥१०॥चतुरश्रं तूपहितो हस्तमात्रं तु निम्नकम्हरिचत्वारि परितः समं संक्षिप्य चोच्छ्रयम् ॥११॥पूजयित्वा यथाशास्त्रं प्रणम्य रूपाम्बिकाम्सर्वरत्नजलैश्चैव गन्धपुष्पाक्षतैरपि ॥१२॥पूजयेत्पायसान्नेन प्रभाते तु ततः सुधीःवापीसमीपे नियतं समाहितमनाः शुचिः ॥१३॥प्राचीत्वरिक् शिरस्ये तद्दर्भास्तरणभूतलेमहाक्षोणि विवर्धस्व धान्यैश्च साधनैरपि ॥१४॥उत्तमं शुष्कमास्थाय मङ्गलं भवते नमःमन्त्रमेतज् जपन्पश्चादुपवासमुपक्रमेत् ॥१५॥प्रभाते तु परीक्ष्येमं रूपं स्थपतिभिः सुधीःकिंचिच्छेषं जलं प्रेक्ष्य गृह्येतं मङ्गलाय वै ॥१६॥शोषितं धनधान्यानां क्षयं क्लिन्ने विनाशितम्परितस्तु मृदा गर्ते पूरिते मध्यमा मही ॥१७॥मही हीनं मृदा हीना चोत्तमा च चाधिकाप्रेक्ष्य कर्तु तन्मध्ये प्रदक्षिणचरोत्तरम् ॥१८॥कामधेनुसमां क्षोणीं स्वीकुर्यात्तु विभूतयेकर्षणार्थं बलीवर्दलक्षणं वक्ष्यतेऽधुना ॥१९॥श्वेतकं कपिलं चैव रक्तपीतं तथैव चबलीवर्दस्य चैतेषामेकैकं तु शुभावहम् ॥२०॥एकस्य वर्णसांकर्यं वर्जयेद्दण्डलाञ्च्छनम्अधो शृङ्गमतिशृङ्ग विपरीतं तु वर्जयेत् ॥२१॥अतिबालं च वृद्धं तु वर्जयेद्योननं मतम्बलिवर्दं दष्टविन्दुं दुष्टदृष्टिं च वर्जयेत् ॥२२॥ह्रस्वपुच्छं चक्रखुरं बलहीनं च वर्जयेत्छिन्नश्रोत्रं भग्नदन्तं पङ्गुपादं च वर्जयेत् ॥२३॥चतुष्पादाग्रयोः शृङ्गं मूल मध्यललाटकेस्वभावेन श्वेतवर्णमाबद्धतिलकं तथा ॥२४॥पुष्पनेत्रं च रक्तं च बन्धं चायतेक्षणम्अनस्पान्न त्यजेद्विद्वान्सूत्रं कुर्याद्विलक्षणम् ॥२५॥शृङ्गाग्रे खुराग्रे च कुर्यात्स्वर्णेन गोलकम्फालपट्टं तथा कर्णं कनकैश्चाप्यलङ्कृतम् ॥२६॥कर्षणात्पूर्वदिवसे अनस्वाश्चैव लाङ्गलम्कौतुके बन्धनं चादौ कर्षणार्थमधिवासितम् ॥२७॥कुर्यात्तदुक्तवद्विद्वान्वक्ष्ये लाङ्गललक्षणम्बन्धुरं खादिरं चैव निम्बं च सरलं तथा ॥२८॥सरक्तक्षीरिणी चैव लाङ्गलं वृक्षमिष्यतेएकहस्तं तु दीर्घं स्यात्सपादाद्यर्धमेव च ॥२९॥त्रिचतुष्पञ्चमात्रं वा लाङ्गलं मूलविस्तृतम्तस्यायामार्ध तन्मध्ये किंचिद्वक्रं सकर्णकम् ॥३०॥मूलमष्टाश्रकं चार्धत्रिपट्टं वेणुपत्रवत्तस्य मूले तदुपरि वेणुशृङ्गं प्रवेशयेत् ॥३१॥वेणुदण्डं त्रिहस्तं स्याद्दीर्घतारां यथाबलम्पुच्छायामध्यर्धकरं मूलतारं शराङ्गुलम् ॥३२॥अथवा सपादहस्तं च हस्तं वा पुच्छदीर्घकम्पुच्छाग्रं तु द्विमात्त्रं तु हलमूलावसानकम् ॥३३॥एकाद्यर्धाङ्गुलं वाऽपि युक्त्या पुच्छं घनं भवेत्पुच्छमूल विशेषेण पद्मपत्रेण भूषितम् ॥३४॥त्रिचतुष्पञ्चषण्मात्रं पुच्छाग्रे पट्टदीर्घकम्उत्सेधं द्वित्रिमात्रं वा सर्वालङ्कारसंयुतम् ॥३५॥अयष्कीलं तत्र कुक्षौ योजयेत्तक्षकेन तुसार्धद्विहस्तमानेन युगायामं प्रकल्पयेत् ॥३६॥त्रिचतुष्पञ्चमात्रं वा मध्यपट्टविशालकम्तह्वयोरग्रविस्तारं द्वित्रियङ्गुलमेव च ॥३७॥एतद्युगमानं स्यान्मध्याग्रान्तक्षयं क्रमात्तस्यार्धं च द्वयोश्छिद्रै रनड्वन् बन्धार्थकं भवेत् ॥३८॥युगमध्ये द्वयोर्वाऽपि लाङ्गलं चापि बन्धयेत्सुमुहूर्ते सुलग्ने च कर्षणं तु समारभेत् ॥३९॥अनड्वाहौ स्थपतिश्चोभौ गन्धपुष्पैः स्वलङ्कृतौपञ्चाङ्गभूषण शिल्पी श्वेतवस्त्रोत्तरीयवान् ॥४०॥आदित्यचन्द्रौ ध्यायेत्तद्बलीवर्दद्वयं बुधःवाराहं लाङ्गलं ध्यायेच्छिल्पिनं तु पितामहम् ॥४१॥ब्राह्मणैश्च यथाशक्ति वाचयेत्स्वस्तिवाचनम्सर्वमङ्गलघोषैश्च स्थपतिः कर्षयेत्तदा ॥४२॥त्रिधा प्रदक्षिणं कुर्यात्सर्वं शूद्रै श्च कर्षयेत्शूद्रोऽपि कृषिकाले तु शुद्धो भूत्वा समाहितः ॥४३॥अधिकर्षणशेषान्तात्स्थपतिभ्यां निवेदयेत्सर्वेषामपि वास्तूनामाधारं भूतलं स्मृतम् ॥४४॥तस्मात्प्रागुक्तवत्कुर्याद्भूमिसंग्रहणं बुधःअज्ञानान्तादि संग्राह्य सर्वसम्पद्विनाशनम् ॥४५॥तस्मात्कुर्याद्यथा वास्तुरेवं लक्षणपूर्वकम् ॥४६॥इति मानसारे वास्तुशास्त्रे भूमिसंग्रहो नाम पञ्चमोऽध्यायः N/A References : N/A Last Updated : October 01, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP