संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| त्रिमूर्तिलक्षणम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - त्रिमूर्तिलक्षणम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत त्रिमूर्तिलक्षणम् Translation - भाषांतर ब्रह्माविष्णुमहेशानां लक्षणं वक्ष्यतेऽधुनाहिरण्यरजतेनैव ताम्रेणैव शिले वापि ॥१॥दारुजे सुधे वापि शर्कराभासमृत्तिकाएतैस्तु नवधाद्र व्यैः चोत्तमादि त्रयं त्रयम् ॥२॥चलं चाप्यचलं चापि नवद्र व्यैस्तु निर्मितःलोहजैर्मृत् सुधा चैव शर्कराभासमृत्तिका ॥३॥चलद्र व्यमिति प्रोक्तमन्येषां च चलम् विदुःचित्राङ्गमर्धचित्राङ्गमाभासाङ्गं त्रिधोच्यते ॥४॥सर्वाङ्गं द्र व्यमानं यच्चित्रमेव प्रकथ्यतेअर्धाङ्गद्र व्यमानं च तदर्धचित्रमिति स्मृतम् ॥५॥अर्धार्धदर्शनं मानमाभासमिति कथ्यतेआभासं पञ्चवर्णेन पट्टवित्त्येव कल्पयेत् ॥६॥चित्रं यच्चोत्तमं प्रोक्तमर्धचित्रं तु मध्यमम्आभासमधमं प्रोक्तं कुर्यादेवं तु सर्वदा ॥७॥उत्तमं सर्वसिद्धिः स्यान्मध्यमं भोगमोक्षकम्अधमं भोगसिद्धिः स्यादीश्वरेणैव कीर्तितम् ॥८॥स्थावरं जङ्गमं चैव विविधं बेरमुच्यतेजङ्गमं चोत्सवं भवेत्सर्व स्थावरमिष्यते ॥९॥उत्तमं लोहजं बिम्बं पीठाभासं तु चोत्समम्स्थानकम् चासना शयनं वैशाखं वैष्णवं तथा ॥१०॥मृत्तादिसर्वबेराणां द्र व्यमुक्तं सनातनम्तत्तद्द्रव्यैस्तु बिम्बानां भिन्नपीठं प्रकल्पयेत् ॥११॥लम्बासने च शयने शिलापीठं तु भिन्नकम्एककाले कृतं सर्वं सुधामृत्कटशर्करैः ॥१२॥बेराणां द्र व्यमित्युक्तं मूर्त्तिध्यानं प्रवक्ष्यतेचतुर्भुजं चतुर्वक्त्रं द्विपादं चाष्टलोचनम् ॥१३॥अष्टकर्णसमायुक्तं तनुश्चैकाकृतिस्तथाउत्तमं दशतालेन मानयेत्त्वङ्गमानकम् ॥१४॥स्थानकं चासनं वापि चीरबेरधरं तथावरदाभयहस्तं च जटामकुटमण्डितम् ॥१५॥कुण्डिका चाक्षमाला च वामे वामे करे क्रमात्स्रुक्स्रुवधारणं वापि प्राग्वरदाभयान्वितम् ॥१६॥मकरलाञ्छितं पुष्पं कुण्डलं वाथ कर्णयोःयज्ञसूत्रोत्तरीयादि मात्रादोदरबन्धनम् ॥१७॥हारोपग्रीवसंयुक्तं बाहुमालाविभूषितम्केयूरकटकाद्यैश्च कुर्यत्तु मणिबन्धनम् ॥१८॥कटकत्रयसंयुक्तं नलकाकटकान्वितम्कटिसूत्रादिपट्टं स्यान्नीव्यं चलनसंयुतम् ॥१९॥रत्नाङ्गुलीयकौ हस्तौ पादं जालसरत्नकम्ललाटे वृत्ततिलकं स्याच्चन्दनागरुमेव च ॥२०॥सर्वाङ्गं हेमवर्णं स्यान्नलकान्तं तु चीरयुक्पार्श्वयोः शक्तिकोपेतं दक्षिणे तु सरस्वती ॥२१॥वामपार्श्वे तु सावित्री सर्वाभरणभूषितम्एवं पितामहं प्रोक्तं कुर्याच्छास्त्रविद्बुधः ॥२२॥चतुर्भुजं द्विनेत्रं च किरीटमकुटान्वितम्पीताम्बरधरं युक्तं श्यामवर्णाङ्गशोभितम् ॥२३॥सर्वे वक्षःस्थले कुर्यात्तदूर्ध्वे श्रीवत्सलाञ्छनम्उत्तमं दशतालेन चाङ्गमानं च मानयेत् ॥२४॥कटकं वा गदाधारं चोर्व्यामाश्रितमेव वाअथवा वरदहस्तं स्यात्पुरतो वामहस्तके ॥२५॥दक्षिणे त्वभयं पूर्वे सव्ये चापर चक्रयुक्अपरे वामहस्ते तु पाञ्चजन्यावधारणम् ॥२६॥तत्समं कर्णपत्रं स्यात्कुर्यान्मकरकुण्डलम्प्रसन्नवदनं तुङ्गं नासि दीर्घाक्षिशोभितम् ॥२७॥हारोपग्रीवसंयुक्तं यज्ञसूत्रोत्तरीयकम्रत्नोदरबन्धं स्याद् बाहुमालाविभूषितम् ॥२८॥कटकं कटिसूत्रं च केयूरं रत्नपूरितम्रत्नाङ्गुलीयकैर्युक्तं पादजालविभूषितम् ॥२९॥नलकान्तं चलान्तं स्यात्पीताम्बरविलम्बनम्शिरश्चक्रं शिरःपृष्ठे युक्तं सर्वाङ्गभूषणम् ॥३०॥द्वयोर्जङ्घावसानं स्याद् वनमालामनोहरम्एवं तु विष्णुमूर्तिः स्याच्छक्तियुक्तं तु पार्श्वयोः ॥३१॥त्रिभूमिं दक्षिणे वामे स्थावरे जङ्गमेऽपि वाकुर्यादासनं वापि स्थानकं चापिमे व च ॥३२॥चतुर्भुजं त्रिणेत्रं च जटामकुटमण्डितम्व्याघ्रचर्माम्बरं जानु चोर्ध्वे च समलङ्कृतम् ॥३३॥नीव्याञ्चलं च संयुक्तं रक्तवर्णाङ्गशोभितम्हारोपग्रीववक्षस्तु सालमालावलम्बनम् ॥३४॥करोटिरत्नबन्धं स्याद् रुद्र बन्धमथापि वापत्रोदरं च बन्धं वा रत्नोदरनिबन्धनम् ॥३५॥कटकं कटिसूत्रं स्यात्केयूरं पूरिमान्वितम्बाहुभूलाभिदामैश्च सर्वाभरणभूषितम् ॥३६॥वामे तु लम्बपत्रं स्यादवामे करकुण्डलम्प्राचभयहस्तं सर्वे वरदं वामहस्तके ॥३७॥अपरे वामसव्ये तु हरिणद्र ङ्कधारणम्मकुटं वामपार्श्वे तु चन्दरेखासमन्वितम् ॥३८॥दक्षिणे चार्कपुष्पैश्च नागं गङ्गा जटान्तरेदूर्वाभिः सुवर्णसिन्दुरं पुष्करं स्यान्मकुटान्तरे ॥३९॥मध्ये चान्वितवक्त्रं स्याल्ललाटे चैकनेत्रयुक्ग्रीवस्य वामपार्श्वे तु कालकूटसमन्वितम् ॥४०॥यज्ञसूत्रोत्तरीयं च सर्वरत्नाङ्गुलीयकेस्थानकं चासनं वापि पाद नूपुरशोभितम् ॥४१॥एवं तु रुद्र मूर्तिः स्याद् वामभागे तु पार्वतीउत्तमं दशतालेन मानयेत्त्वङ्गमानकम् ॥४२॥देवीनामपि सर्वेषां मध्यमं दशतालकम्पद्मपीठं महापीठं त्रिमूर्तीनां च योजयेत् ॥४३॥प्रभाव तोरणं वापि कल्पवृक्षं च संयुतम्एवं तु रुद्र विष्णूनां कुर्यात्तत्तु विधिवत्ततः ॥४४॥सर्वालङ्कारसंयुक्तं देवं ध्यात्वा त्रिमूर्तिनम्अन्यान्यनुक्तं सर्वेषां शास्त्रमार्गेण योजयेत् ॥४५॥उत्तमं दशतालवशात्तु यत्ब्रह्माविष्णुशिवसकलाङ्गकैःस्थावरे च जङ्गमकेशिल्पिभिः कुरु ताक्त मुनिवरैः ॥४६॥इति मानसारे वास्तुशास्त्रे त्रिमूर्तिलक्षणविधानं नाम एकपञ्चाशदध्यायः N/A References : N/A Last Updated : October 07, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP