संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| प्राकारविधानम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - प्राकारविधानम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत प्राकारविधानम् Translation - भाषांतर बलार्थं परिवारार्थं शोभार्थं रक्षणार्थकम्पञ्चप्राकार्हर्म्याणामधुना वक्ष्यते क्रमात् ॥१॥जात्यादिभेदहर्म्याणां तन्मानेन तु विन्यसेत्जातिप्राकारसर्वेषां हस्तमानेन योजयेत् ॥२॥छन्दादि सर्वशालानां प्रासादांशेन मानयेत्जातीनां जातिसालानां रस्यतारं विभाजिते ॥३॥तदूर्ध्वे वेदिकादीनां ग्रीवमूर्ध्नि शिखान्तकम्समकन्धरवृद्धिः स्यात्पञ्चसालावसानकम् ॥४॥छन्दादिपञ्चसाला च छन्दाद्यंशेन मानयेत्जातिप्रासादविस्तारे विन्यसेत्सकलं पदम् ॥५॥आदिशालां ततः कुर्यादन्तर्मण्डलमीरितम्द्वितीयमन्तहारा च मध्यहारा तृतीयकम् ॥६॥प्राकारं तच्चतुर्थं च कथितं तन्मयाधिकम्ततः पञ्चमशाला च महामर्यादमीरितम् ॥७॥पञ्चशालामिति प्रोक्तं तन्त्रविद्भिः पुरातनैःतत्पीठपादविन्यास चादिशालविशालके ॥८॥तथा द्वितीयशाले तु स्थण्डिलं पदं विन्यसेत्तत्तत्कुर्यात्तु शालायां तृतीये चोभयचण्डितम् ॥९॥सुसंहितपदं मध्ये मर्यादाया विशालकेमहामर्यादाविस्तारे पदमीश्वरकान्तकम् ॥१०॥एवं तु जातिशाला च कुर्याद्धर्म्यवशात्सुधीःवेचकं मूलहर्म्ये तु छन्दादीनां प्रवक्ष्यते ॥११॥प्रथमं तु महापीठं द्वितीयं चण्डितं पदम्तृतीयं भद्र संयुक्तं ततः शालाबहिस्तथा ॥१२॥चतुर्थं सुप्रतीकान्तं पञ्चमं चेन्द्र कान्तकम्एतच्छन्दं प्रकर्तव्यं विकल्पं तदिहोच्यते ॥१३॥छन्दप्राकारविस्तारे सार्धार्धेन कराधिकम्प्रथमात्पञ्चमानं स्यात्सार्धं युग्मकरान्तकम् ॥१४॥एवं विकल्पमानं स्यात्पञ्चशाला प्रकीर्तिताःतदेव पञ्चशालानां षडङ्गुलविवर्धनात् ॥१५॥सप्तहस्तावसानं स्यात्प्रथमात्पञ्चमानकम्एवमाभास कर्तव्यं हर्म्यपादं तु वर्धनात् ॥१६॥केचिच्छन्दकमाने तु त्रित्रिहस्तविवर्धनात्प्रथमात्पञ्चमानं स्यात्पञ्चादशकरान्तकम् ॥१७॥एतत्क्षुद्र विमाने तु सालाच्छन्दविमानकम्केवलहस्तमानेन जातिप्राकार मानयेत् ॥१८॥त्रिहस्तेनादिसालादि द्विद्विहस्तविवर्धनात्प्रत्येकं पञ्चशालानां पञ्चपञ्चप्रमाणकम् ॥१९॥क्षुद्रा ल्पमध्यमुख्यानां जातिसालां प्रकल्पयेत्प्रासादार्धविशालेन मध्यमुख्यांशमानके ॥२०॥सालानां पञ्चधाद्यन्तं मानयेत्पूर्ववद्भवेत्हर्म्यपादस्य बाह्यात्तु सालं कुड्यावसानकम् ॥२१॥अन्तर्वापि बहिर्वापि कुट्य मध्यावसानकम्उपपीठं चाङ्घ्रिकं वा हर्म्यपादं तु निर्गमम् ॥२२॥तत्कुड्यवेदिकान्तर्वा सालं प्रागुक्तमानकम्हर्म्यसार्धवृधामानं यद्वास्तयमतत्समम् ॥२३॥तच्चतुर्भागिकैकेन वर्धयेत्तन्मुखायतम्विस्तारात्पञ्चधायामं पञ्चधा विस्तृतान्तकम् ॥२४॥पञ्चसालामुखायामं प्रत्येकं पञ्चधा ततःएकैकं विंशदायामं पञ्चविंशमुखायतम् ॥२५॥षडङ्गुलं समारभ्य षट्षडङ्गुलवर्धनात्रसहस्तावसानं स्यात्प्रथमात्पञ्चमान्तकम् ॥२६॥सालानां कुड्यविस्तारं प्रत्येकं पञ्चधा मतम्विशालोच्चसमं वापि तच्चतुर्थांशवर्धनात् ॥२७॥प्रत्येकं पञ्चसालानां कुड्यानां पञ्चधोदयम्अथवाधिष्ठानमानेन कुड्यतुङ्गमिहोच्यते ॥२८॥कुट्टिमोच्चं समारभ्य पञ्चविंशोदयान्तकम्अन्तर्मण्डलमारभ्य महामर्यादिकान्तकम् ॥२९॥पञ्चकुड्यस्य चोत्सेधं प्रत्येकं पञ्चधा भवेत्जन्मादि चोत्तरान्तं वा प्रस्तरान्तं तथोदयम् ॥३०॥कुड्यस्यान्तप्रदेशे तु युक्त्या चावृतमालिकम्वेदिका चोपपीठ च पादप्रस्तरभूषितम् ॥३१॥यथेष्टभागपदेन युग्मायुग्ममथापि चतस्यान्तः परिवारार्थं भद्रं सोपानसंयुतम् ॥३२॥मालिकोपरि वप्र स्यादधिष्ठानं समोदयम्अथवा द्विगुणोत्तुङ्गं त्रिगुणं वा यथेष्टकम् ॥३३॥वज्राकृति च वप्राग्रं छत्रकारमथापि वाउत्तरं वाजनं चैव मुष्टिबन्धं त्रिधान्वितम् ॥३४॥अधिष्ठानादि वर्गाढ्यमथवा रज्जुभित्तिकम्प्रस्तरस्योपरिदेशे कर्णहर्म्यादिमण्डितम् ॥३५॥शैले वा चेष्टके वापि दार्वे वाथ प्रकल्पयेत्शुद्धं संकीर्णं मिश्रं वा यथाशोभं यथाबलम् ॥३६॥युक्त्या च प्रच्छादनं कुर्यात्सुधेष्टकादिगुलोदकैःपरिवारं विमानानां मानं तद्वक्ष्यतेऽधुना ॥३७॥मूलहर्म्ये समं वापि त्रिपादं वार्धमेव वाएकभूमि द्विभूमिं वा मूलहर्म्याकृति तु वा ॥३८॥मूलस्थलसमं वापि तन्निम्नोन्नतमेव वाचतुर्दिक्षु चतुर्द्वारैमुपद्वारमद्वारान्तरालके ॥३९॥देवानां चक्रवर्तिनां मध्ये द्वारं प्रकल्पयेत्महद्द्वारमिति प्रोक्तमुपद्वारं तु चोक्तवत् ॥४०॥भूसुरादिनराणां च मध्ये द्वारं न योजयेत्मध्यसूत्रंतु वामे तु महाद्वारं प्रकल्पयेत् ॥४१॥तद्बहिः परितो देशे सप्तसालां प्रकल्पयेत्नारावासार्थ रथ्या च प्राकारद्वयमण्डितम् ॥४२॥तत्तद्विस्तारमानानि दण्डमानेन मानयेत्त्रिचतुर्दण्डमारभ्य द्विद्विदण्डविवर्धनात् ॥४३॥नवपङ्क्तिदण्डपर्यन्तं सान्तरादिमहान्तकम्प्रत्येकं तत्त्रिधा मानं सप्तप्राकारमीरितम् ॥४४॥शेषं प्रागुक्तवत्कुर्यात्सर्वालङ्कार संयुतम्चतुर्द्वारसमायुक्तं महागोपुरमायतम् ॥४५॥दैवानां मानुषाणां च गृहप्राकारमीरितम्एकद्वित्रिचतुष्पञ्च सालं कुर्यात्सभित्तिकम् ॥४६॥संकुलं चेत्तु सालानां सान्तरं भित्तिकं न्यसेत्एतानि सालमानानि हीनाधिक्यं न कारयेत् ॥४७॥द्विङ्गुलं च समारभ्य चैकाङ्गुलविवर्धनात्षडङ्गुलावसानं स्यात्क्रमात्सर्वे जलस्थले ॥४८॥केचित्वङ्गुलमारभ्य एकाङ्गुलवर्धनात्षडङ्गुलावसानं स्याद्गोपुरापानतत्समम् ॥४९॥प्रासादादन्यशालान्तं जलस्रावार्थनिर्गमम्कुर्यात्तु भित्तिमूले तु जलद्वारं यथेष्टदिक् ॥५०॥जातिप्रासादाद्बहिरथ परितः सालमानं कराभ्याम्तस्मिन् विस्तारमानं प्रथम करयुगादेकमेकेन वृद्ध्या ॥५१॥चत्वारिंशत्करान्तं महतिरिति तत्पञ्च पञ्चप्रमाणम्कुर्यात्क्षुद्रं क्रमात्तत्कथितमिति बुधैर्भित्तिरत्यावसानम् ॥५२॥इति मानसारे वास्तुशास्त्रे प्राकारविधानं नाम एकत्रिंशोऽध्यायः N/A References : N/A Last Updated : October 03, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP