संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| तोरणविधानम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - तोरणविधानम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत तोरणविधानम् Translation - भाषांतर देवानां भूपतीनां च भूषणार्थं च तोरणम्तल्लक्षणं विधानं च यथा सम्यक् प्रवक्ष्यते ॥१॥आसनोपरि विन्यस्य सर्वेषामपि तोरणम्विस्तारे मध्यसूत्रस्य चापर तोरणा न्यसेत् ॥२॥पीठतारार्धभागे तु मध्ये चाङ्घ्रिकमध्यमम्अथवा तत्त्रिभागैकद्व्यंशं चापरपूर्वके ॥३॥तन्मध्ये तोरणस्तम्भं मध्यं वा सर्वतो न्यसेत्पीठायामं त्रिभागैकं द्व्यंशायामार्धमेव वा ॥४॥पीठायामे चतुर्भागे त्रियंशं चाग्रकान्तम्अथवा पञ्चषट्सप्तसाष्टभागैकहीनकम् ५स्तम्भमध्ये तु बाह्ये वा पूर्ववच्चान्तरं तु वापीठतारसमोच्चं वा सपादाधिकमेव वा ॥६॥त्रिपादादधिकोत्सेधं तत्समं वाधिकोन्नतम्आयामसदृशोत्सेधं तत्पादाधिकमेव वा ॥७॥अर्धं त्रिपादं तत्तुल्याधिकं वा तोरणोदयम्तेन मानोदयं सर्वं शुद्धतोरणमानकम् ॥८॥त्रिचतुष्पञ्चषट्सप्तचाष्टनन्ददशाङ्गुलम्एकादशाङ्गुलं वापि नवधा तोरणोदयम् ॥९॥त्रिचतुष्पञ्चषण्मात्रं पादविष्कम्भमिष्यतेतत्समं च त्रिपादं च सार्धं वा बहलं भवेत् ॥१०॥पादं सतोरणं कुर्यात्तोरणाङ्घ्रि परिन्यसेत्पादाग्रे पट्टिकोपेतं तन्मानं वक्ष्यतेऽधुना ॥११॥पादतारसमं वापि द्विगुणं वाजनोदयम्तद्दीर्घं फलकान्तं वा चतुष्पञ्चाङ्गुलान्तिकम् ॥१२॥वाजनादितोरणो ह्येवं केवलं वाथ तोरणम्तोरणस्योक्ततुङ्गे तु चाष्टभागं विभाजिते ॥१३॥तदेवं पञ्चभागाङ्घ्रितुङ्गं बन्धाशतोरणम्अथवा नवांशकं तुङ्गे षड्भागं चाग्रतुङ्गकम् ॥१४॥दशभागे सप्तभागे तु पादं शेषांशतोरणम्देवानां भूपतीनां च स्थानकस्यासनस्य च ॥१५॥वृत्तं वाथ त्रियुग्मं वा चार्धचन्द्रा कृतिस्तथाजना चापकृतिर्वापि यथेष्टाकारं तोरणम् ॥१६॥मध्यात्तु भ्रामयेच्छिल्पी वृत्ताकारं च तोरणम्तदर्धे नासिकादौ तद् भ्रामयेदर्थचन्द्र कम् ॥१७॥तदर्धेन द्विपार्श्वे तु भ्रामयेद्धनुराकृतिम्त्रिभुजं तत्समं नीत्वा तोरणं युक्तितो न्यसेत् ॥१८॥पत्रं पुष्पं च रत्नं च चित्रतोरणमेव चएवं चतुर्विधं प्रोक्तं देवानां च त्रिमौलिनाम् ॥१९॥अन्येषां भूपतीनां च पुष्पं रत्नं च तोरणम्पत्रवल्यादि संभूष्य पत्रतोरणमीरितम् ॥२०॥नानापुष्पैरलङ्कृत्य पुष्पतोरणमेव चसर्वरत्नैरलङ्कृत्य कर्तव्यं रत्नतोरणं ॥२१॥नानालङ्कारसंयुक्तं यक्षविद्याधरादिभिःतच्चित्रतोरणं प्रोक्तं पूर्वोक्तानां तु संमतम् ॥२२॥सर्वेषां तोरणमध्ये चोर्ध्वे तुम्बुरुनारदम्तत्प्रदेशे द्विपार्श्वे तु मकरादिविभूषितम् ॥२३॥तोरणस्याग्रमूले तु गृहापत्रैश्च भूषितम्तोरणाद्यं तु पत्रादिभूतवल्यासनान्वितम् ॥२४॥पादानां च द्विपार्श्वे तु व्याल तोरणधारिणम्पत्रतोरणमित्युक्तम् शेषं युक्त्या प्रयोजयेत् ॥२५॥तदेव रत्नपुष्पैश्च नानालङ्कारसंयुतम्यक्षविद्याधराद्यैश्च युक्तं स्याच्चित्रतोरणम् ॥२६॥ग्राहकिम्बरीसंयुक्तं चित्रपद्मादिभिर्विनासर्वाङ्गं पुष्पसंयुक्तं सर्वालङ्कारसंयुतम् ॥२७॥पुष्पतोरणमित्युक्तं मकरन्दैश्च पुष्पकम्सर्वाङ्गं नवरत्नैश्च ग्राहकिन्नरभूषितम् ॥२८॥ग्राहपुच्छादिसर्वेषां सर्वरत्नेन बन्धयेत्रत्नतारागणैर्युक्तं कुक्षि रावृतलम्बितम् ॥२९॥तोरणस्योपरि देशे तु भुजङ्गपादद्वयोरपिग्राहान्तं सर्वरत्नैश्च पूरितं श्रेणिसंयुतम् ॥३०॥रत्नतोरणमित्युक्तं सर्वालङ्कारसंयुतम्वाजनपादलङ्कारं सर्वं प्रागुक्तवन्नयेत् ॥३१॥कृतं मध्ये कमलां कुर्यात् वारणम्तन्मध्ये कल्पयेल्लक्ष्मीं नानालङ्कारभूषितम् ॥३२॥नाटिकाफलकामुष्टिबन्धनं पत्रवल्लिकम्मकरं किम्बरीवक्त्रं नाटकादि भुजङ्गवत् ॥३३॥केसरिमण्डनं भवति चित्रतोरणनाटकैः ॥३४॥पत्रपुष्पमयरत्नतोरणैःचित्रहीनमित्युच्चभूषणैःकल्पयेत्त्वपि च रत्नतोरणैःचित्रहीनमित्युच्चभूषणैः ॥३५॥कल्पयेत्त्वपि च तोरणैःपुष्पहीनमथ पत्रहीनकम्रत्नहीनमथ पत्रतोरणैःपद्मयुक्तमथ पुष्पतोरणैः ॥३६॥पत्रपुष्पनहि चान्यभूषणम्कल्पयेत्त्वपि शिल्पिभिर्वरैः ॥३७॥इति मानसारे वास्तुशास्त्रे तोरणविधानं नाम षट्चत्वारिंशोऽध्यायः N/A References : N/A Last Updated : October 07, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP