संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्|
चतुस्तलविधानम्

मानसारम् - चतुस्तलविधानम्

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


चतुस्तलविधानस्य लक्षणं वक्ष्यतेऽधुना
विस्तारोत्सेधभित्तीश्च पूर्ववत्परिकल्पयेत् ॥१॥

तुङ्गे चैकोनविंशांशमत्यर्धांश मसूरकम्
तद्द्वयं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ॥२॥

सत्रिपदं च भागं वा तदूर्ध्वे पादोदयं भवेत्
प्रस्तरोच्चं शिवांशं स्यात्सत्रिपादांशमङ्घ्रिकम् ॥३॥

ऊर्ध्वमञ्च त्रिपादं स्यात्तद्द्वयं चोर्ध्वपादकम्
तदर्धं प्रस्तरोत्सेधं वेदिकार्धेन योजयेत् ॥४॥

अंशेन गलतुङ्गं स्यात्तद्द्वयं शिरतुङ्गकम्
तदर्धं स्तूपिकोत्तुङ्गं मूलतः परिकल्पयेत् ॥५॥

विष्णुकान्तमिति प्रोक्तं कर्णहर्म्यादिभूषितम्
चत्वारिंशद्वयाधिक्यं भागतुङ्गे विभाजिते ॥६॥

अधिष्ठानं त्रिभागं स्यात्तद्द्वयं पादतुङ्गकम्
प्रस्तरोच्चं गुणांशं स्यादूर्ध्वे पादं रसांशकम् ॥७॥

सार्धद्विभागमञ्चं स्यात्सार्धवेदाङ्घ्रितुङ्गकम्
तदर्धं प्रस्तरोत्सेधं पादोनं चतुरङ्घ्रिकम् ॥८॥

प्रस्तरं च त्रिभागं स्यात्तदर्धं वेदिकोन्नतम्
गलोच्चं तद्द्विभागं स्याद्युगांशं मस्तकोदयम् ॥९॥

द्वयांशं स्तूपिकोत्तुङ्गं तस्य मूले विशेषतः
विस्तारे भागिकांशेन चावृतालिन्दमेव च ॥१०॥

तद्बहिश्चैकभागेन मूलपादाग्रकान्तकम्
अधिष्ठानादिवर्गाढ्यं कर्णहर्म्यादिमण्डितम् ॥११॥

एतच्चतुर्मुखं प्रोक्तं सर्वालङ्कारसंयुतम्
पञ्चषट्त्रिशदंशं स्यात्तुङ्गार्धांश मसूरकम् ॥१२॥

पञ्चांशं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम्
ऊर्ध्वे वेदांशकं पादं प्रस्तरं च द्विभागिकम् ॥१३॥

सार्धबन्धांशपादोर्ध्वं तदर्धं प्रस्तरोदयम्
तदूर्ध्वाङ्घ्रि गुणांशं स्यादत्यर्धं चोर्ध्वमञ्चकम् ॥१४॥

वेदिकोच्चं शिवांशं स्यात्तद्द्वयं ग्रीवतुङ्गकम्
शिरीषं च युगांशं स्याच्छेषांशं तच्छिखोदयम् ॥१५॥

मूले तु पूर्ववत्कुर्याच्चतुर्द्वारसमन्वितम्
एवं सदाशिवं प्रोक्तं सर्वालङ्कारसंयुतम् ॥१६॥

भागेन चतुरष्टांशं हर्म्यतुङ्गं विभाजिते
द्विभागाधिष्ठानतुङ्गं तद्द्वयं पादतुङ्गकम् ॥१७॥

युगांशं मञ्चतुङ्गं स्यादंशं चोर्ध्वमसूरकम्
तदूर्ध्वे पाद बन्धांशं गोपानोच्चं तदर्धकम् ॥१८॥

तदूर्ध्वे कुट्टिमं चांशं सार्धपक्षाङ्घ्रितुङ्गकम्
सपादांशं प्रस्तरोत्तुङ्गं त्रिपादूर्ध्वे मसूरकम् ॥१९॥

सपादद्विशकं चाङ्घ्रि चांशेन प्रस्तरोदयम्
तदर्धं वेदिकोत्तुङ्गं सार्धभागं गलोदयम् ॥२०॥

शिखरोच्चं गुणांशं स्यात्तदर्धं तच्छिरोदयम्
रुद्र कान्तमिति प्रोक्तं कर्णहर्म्यादिभूषितम् ॥२१॥

तदेव हर्म्यमूले तु पूर्ववत्परिकल्पयेत्
तच्चतुर्द्वारसंयुक्तं चांशेन भद्र संयुतम् ॥२२॥

एवमीश्वरकान्तं स्यादधिष्ठानादि क्रमान्नयेत्
तुङ्गे पञ्चदशांशं स्याद्वह्न्यंशक मसूरकम् ॥२३॥

पादतुङ्गं षडंशं स्यात्प्रस्तरोच्चं गुणांशकम्
तत्समं चोर्ध्वमञ्चं स्यात्तदूर्ध्वे पञ्जरांशकम् ॥२४॥

तदर्धं प्रस्तरोत्सेधमूर्ध्वमञ्चं द्विभागिकम्
वेदिकोच्चं शिवांशं स्यात्सार्धद्विशं गलोदयम् ॥२५॥

युगांशं चोर्ध्वपादं च द्व्यंशेन प्रस्तरोदयम्
तदूर्ध्वे त्वर्धमञ्चं स्यात्सार्धबन्धांशकाङ्घ्रिकम् ॥२६॥

तदर्धं प्रस्तरोत्सेधं पादभागोर्ध्वमञ्चकम्
वेदिकोच्चं शिवांशं स्यात्सार्धद्विंशं गलोदयम् ॥२७॥

मस्तकोच्चं शरांशं स्याच्छेषं कुम्भोदयं भवेत्
मञ्चकान्तमिति प्रोक्तं कर्णहर्म्यादिमण्डितम् ॥२८॥

तदूर्ध्वे च विमानं च वेदिका वेदिकं तथा
सर्वालङ्कारसंयुक्तं शेषं पूर्ववदाचरेत् ॥२९॥

तुङ्गे षड्विंशमंशेन चात्यर्धांशमसूरकम्
रुद्रा त् पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ॥३०॥

सपादांशमधिष्ठानं द्व्यर्धांशमङ्घ्रितुङ्गकम्
तदर्धं प्रस्तरोत्सेधं तदूर्ध्वेऽशं मसूरकम् ॥३१॥

पादतुङ्गं द्विभागं स्यान्मञ्चतुङ्गं शिवांशकम्
पादोनद्विंशपादं स्यात्तदर्धं प्रस्तरोदयम् ॥३२॥

सपादांशाङ्घ्रितुङ्गं स्यात्तदर्धं प्रस्तरोदयम्
तदूर्ध्वे पादमेकांशं सार्धांशं प्रस्तरोदयम् ॥३३॥

तत्समं वेदितुङ्गं स्याद्ग्रीवतुङ्गं शिवांशकम्
शिखरोच्च द्विभागं स्याच्छेषं तत्स्तूपिकोदयम् ॥३४॥

मूले च मध्यमे चाग्रे देवतास्थापनं भवेत्
तदूर्ध्वे शिखराकारं कल्पयेत्तु चतुस्स्थले ॥३५॥

युक्तं विस्तार तत् बाह्ये वेदांशावृत मूलके
विस्तृतार्धं समं वापि यथायुक्तिवशान्न्यसेत् ॥३६॥

अधिष्ठानं च पादं च प्रस्तरं च त्रिवर्गिकम्
शालाकूटं च हारं च युक्त्या तत्रैव योजयेत् ॥३७॥

सर्वालङ्कारसंयुक्तं मूले प्रासादतो न्यसेत्
तदूर्ध्वे द्व्यंशमाश्रित्य कर्णहर्म्यादिमण्डितम् ॥३८॥

अथवा विस्तृतार्धेन प्राकाराकृतिरावृतम्
एकेन कर्णहर्म्यादि तस्यान्तर्जलतत् स्थलम् ॥३९॥

अथवा द्विंशमाश्रित्य लिङ्गं कुर्याद्विचक्षणः
तदूर्ध्वे विस्तृता बाह्ये द्विंशेनावृत पूर्ववत् ॥४०॥

तस्यान्तश्चोक्तवत्कुर्याद्भागमेवरलङ्कृतम्
एकेन कर्णहर्म्यादिमण्डितं चावृतं न्यसेत् ॥४१॥

भागेन परितोऽलिन्दं चोर्ध्वे तद्वज्जलस्थलम्
तत्तद्बाह्येऽपि सर्वाङ्गं कर्णहर्म्यादिमण्डितम् ॥४२॥

द्विभागेन तु मध्ये तु शालायामं तु विन्यसेत्
कूटानामेकभागेन शेषं हार सपज्जरम् ॥४३॥

इन्द्र कान्तमिति प्रोक्तं क्षुद्र मध्ये च मुख्यके
तन्मुखे मण्डपं युक्तं तद्दक्षिणे मण्डपं स्यात् ॥४४॥

प्राग्दिशि सोपानमध्यानामूर्ध्ववासनराननम्
सालामूलस्य तन्मध्ये चोर्ध्वं तत्र समायुतम् ॥४५॥

शेषं पूर्ववदुद्दिष्टं चाष्टधा विधमीरितम्
क्षुद्रं मध्यं मुखं च कुर्याद्धर्म्यं सर्वदेवतानाम् ॥४६॥

अन्येषामुक्तमानं युक्त्या कुर्यात्पुरातनैः कथितम्
नानाधिष्ठानपादैश्च वलभिश्च बहुविधैः ॥४७॥

कूटनीडैश्च शालैश्च भद्रै र्दाष्टपादगर्भबहुतारैः
क्षुद्रै श्च नासागणैर्नानापञ्जरवेदितोरणमहानासैश्च वातायनैः ॥४८॥

कोष्ठैर्विद्याधराद्यैर्गर्भाधिपतिसुरान्भूषणं कुर्वते स्म ॥४९॥

क्षुद्र मन्यमथ मुख्य भौमके
रुद्र विष्णुजिनकादिहर्म्यके
दक्षिणामूर्तिनरसिंहमूर्तितत्त्वादि
मूर्तिपुरतोक्तदेवानाम् ॥५०॥

एवं मूर्तिं दक्षिणादिक्रमेण
एकानेकभौमतलस्थलादीन्
कुर्यात्सर्वं ग्रीवदेशे पतित्वाद्
युक्त्या धीमान् देवतां विन्यसेत्तत् ॥५१॥

इति मानसारे वास्तुशास्त्रे चतुस्तलविधानं नाम द्वाविंशोऽध्यायः

N/A

References : N/A
Last Updated : October 03, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP