संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| द्वारमानविधानम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - द्वारमानविधानम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत द्वारमानविधानम् Translation - भाषांतर द्वारमानविधिं वक्ष्ये लक्षणं वक्ष्यतेऽधुनाभूसुराणां सुरादीनां वर्णानां चालयादिकम् ॥१॥वासं वातायनादीनां कुड्यगोपुरमण्डपेद्वारस्तम्भयुतं सर्वद्वारमानाद् बहिर्भवेत् ॥२॥सार्धहस्तं समारभ्य षट्षडङ्गुलवर्धनात्त्रयोविंशत्तदुत्सेधं द्वारं सप्तकरान्तकम् ॥३॥महद्द्वारमिति प्रोक्तमुपद्वारमिहोच्यतेएकहस्तं समारभ्य त्रित्र्! यङ्गुलविवर्धनात् ॥४॥उपद्वार त्रिहस्तान्तं सप्तादशविधोदयम्द्वादशाङ्गुलमारभ्य त्रित्रिमात्रविवर्धनात् ॥५॥वातायन द्विहस्तान्त त्रयोदशविधोदयम्शुद्धद्वारोदयं ह्येवं तद्विस्तारमिहोच्यते ॥६॥सर्वेषां द्वारतुङ्गार्धं शुद्धद्वारं विशालकम्अथवा द्वारमुख्यानां हर्म्यपादमिहोच्यते ॥७॥तत्तत्पादोदये वाथ वसुनन्ददशांशकैःतत्तदेकांशहीनं स्याद् द्वारतुङ्गमिति स्मृतम् ॥८॥तदर्धं विस्तृतं प्रोक्तमथ हर्म्यवशोच्यतेसत्रिपादकरारभ्य षट्षडङ्गुलवर्धनात् ॥९॥सत्रिपादत्रिहस्तान्तं कन्यसादि नवोदयम्एवं तु क्षुद्र हर्म्ये तु मुख्ये द्वारं प्रकल्पयेत् ॥१०॥द्विहस्तं तु समारभ्य षट्षडङ्गुलवर्धनात्चतुर्हस्तावसानं स्यात्कन्यसादि त्रयं त्रयम् ॥११॥एवं तु मध्यहर्म्ये तु मुख्ये द्वारोदयं भवेत्सार्धद्विहस्तमारभ्य षट्षडङ्गुलवर्धनात् ॥१२॥सार्धवेदकरान्तं स्यात्कन्यसादि नवोदयम्मुख्यद्वारमिति प्रोक्तं मुख्यहर्म्ये तु योजयेत् ॥१३॥सप्तविंशोदयं ह्येवं तदर्धं विस्तृतं भवेत्एवं जातिवशात्प्रोक्तं छन्दादीनां प्रवक्ष्यते ॥१४॥पञ्चविंशाङ्गुलारभ्य द्विद्व्यङ्गुलविवर्धनात्त्रयोविंशशतान्तं स्याच्छन्दद्वारविशालकम् ॥१५॥एकविंशाङ्गुलारभ्य द्विद्व्यङ्गुलविवर्धनात्एकविंशं शतान्तं स्याद्विकल्पद्वारविस्तृतम् ॥१६॥नवपङ्क्त्यङ्गुलारभ्य द्विद्व्यङ्गुलविवर्धनात्एकपङ्क्त्यङ्गुलाधिक्यं शतान्तमाभासविस्तृतम् ॥१७॥विस्ताराद् द्विगुणोत्सेधं सामान्यमिति कथ्यतेद्विगुणात्पादमाधिक्यमर्धाधिकमथापि वा ॥१८॥तदुत्सेधं नवांशं स्यात्पञ्चाशद् द्वारविस्तृतम्आयादिकर्मषड्वर्गप्रवाहं वक्ष्यतेऽधुना ॥१९॥जातिद्वारोदये सर्वेचायादिसंग्रहं भवेत्छन्दादीनां तु सर्वेषां तारे चायादिसंग्रहम् ॥२०॥वृद्धिहान्यादिसर्वेषां प्रासादस्योक्तवद् भवेत्कन्यसे कन्यसा मानं मध्यमे मध्यमं तथा ॥२१॥मुख्ये मुख्यं तु मानं स्यात्कुर्याद् द्वारं शुभावहम्हीनाधिकमानं चेत् श्रेष्ठकन्यसमानकम् ॥२२॥तद्द्वयोर्मध्यमं चोक्तं मध्यमे तद्द्वयं तु वासर्वेषामपि वर्णानां सर्वसंपद्विनाशनम् ॥२३॥शान्तिकादि यथाहर्म्यं द्वारं तच्छान्तिकादिकम्कुर्यादारोग्यमायुष्यं भुक्तिमुक्तिफलप्रदम् ॥२४॥विपरीते नृपादीनां विपत्यं नित्यमावहेत्द्वारमानमिति प्रोक्तं पादादीन्वक्ष्यतेऽधुना ॥२५॥शुद्धद्वारस्य परितः पादोदर्कद्वारयुतम्भौमान्तं द्यातपादं वा चोत्तरान्तमथापि वा ॥२६॥द्वारयोगस्य मूलाग्रे छिद्रं कुर्याद् द्वयोर्द्वयम्पट्टिकाद्वयमूलाग्रे शिखायुक्ताद्वारं योजयेत् ॥२७॥दारुद्वारमिति प्रोक्तं शिलाभग्नं तु योजयेत्कुड्यद्वारार्कभागं स्यात्तद्वाह्ये पञ्चभागिकम् ॥२८॥अन्तःसप्तांशयोर्मध्ये द्वारयोगस्य मध्यमेतदंश त्रिचतुर्भागं पञ्चषट्सप्तभागिकम् ॥२९॥अष्टांशं योगविस्तारं तदर्धं बहलं भवेत्विस्तारस्य समं वापि त्रिपादं वाथ कल्पयेत् ॥३०॥पट्टिकोच्चायतं तारं घनं द्वारस्य योग्यकम्द्वारयोगद्वयं चैव पट्टिकाद्वयमेव वा ॥३१॥चतुरश्रं समाश्रं वा भूषणालङ्कृतं तु वायोगादिघनमानं च कृत्वा बाह्ये नवांशकम् ॥३२॥कुड्यान्ते पट्टबन्धांशं तस्माद् द्व्यंशेन बन्धनम्एकेन कम्पपट्टं स्याद्बन्धभागेन योजयेत् ॥३३॥अथवांशेन पट्टं स्यात्पद्ममध्येऽर्धभागिकम्अर्धेन कम्पसंयुक्तं कर्णबन्धांशमीरितम् ॥३४॥कम्पमर्धेन संयुक्तं चान्त्यं चेदलं भवेत्एकांशं बाह्यपट्टं स्याद् द्व्यंशं भुवाङ्गकम् ॥३५॥पद्म द्वयांशकं चैव कम्पमेकेन कारयेत्मध्यभुवाङ्गं युग्मांशं बाह्यपद्मं द्वयांशकम् ॥३६॥पट्टिकायोगबाह्ये तु द्वारांशं परितोऽन्वितम्अथवा भूषणं तु स्यात्कुर्यात्त्वथ पट्टिका ॥३७॥द्वारयोगविशाले तु कर्णं वा द्विगुणं तु वायोगमूलाग्रतुङ्गं स्यात् अग्रे विन्यास कुद्मलम् ॥३८॥सर्वालङ्कारसंयुक्तं पत्रवल्ल्यादिभूषितम्द्वारोर्ध्वे मध्यदेशे तु अधिराजोपरि न्यसेत् ॥३९॥तत्पार्श्वे चाच्चरादन्त द्विपयुग्मं तु कारयेत्दक्षिणे तु गणेशं स्यद्वामभागे सरस्वतीम् ॥४०॥छत्रचामरसंयुक्तं तोरणादिविभूषितम्तस्याधो पूर्णकुम्भाद्यैः दर्पणाद्यैर्विभूषितम् ॥४१॥कुर्यादेवं तु रक्षार्थं सम्पदामास्पदं सदाअथवा द्वारयोगस्य विशालं वक्ष्यतेऽधुना ॥४२॥त्रिचतुष्पञ्चषण्मात्रं तस्मात्तु द्व्यङ्गुलाधिकम्पञ्चविंशाङ्गुलान्तश्च चतुर्विंशाङ्गुलान्तकम् ॥४३॥एकविंशाङ्गुलान्तं स्याद् द्वाविंशाङ्गुलन्तकम्त्रयोविंशाङ्गुलान्तं स्याद् द्वारयोगस्य विस्तृतम् ॥४४॥अथवा हस्तमारभ्य त्रित्र्! यङ्गुलविवर्धनात्तत्त्रिहस्तावसानं स्यात्कन्यसादुत्तमान्तकम् ॥४५॥दारुके तु शिला वापि कुर्याद् द्वारं विचक्षणःक्षुद्र विस्तार सर्वेषां द्वारयोगविशालकम् ॥४६॥द्वारमानं तु सर्वेषां वर्णानां हर्म्यके न्यसेत्देवानां हर्म्यके कुर्यात्तत्र दोषो न विद्यते ॥४७॥द्वारभूषणसार्धं स्याद् द्वारमानेन कल्पयेत्तद्विशालायततुल्यं कवाटायामविस्तृतम् ॥४८॥एकद्वित्रिचतुष्पञ्च कवाटस्य घनं भवेत्एकं वा द्विकवाटं वा युक्त्या तत्रैव योजयेत् ॥४९॥युग्मदारु न योग्यं स्यादयुग्मं चैव योजयेत्युगलं तत्कवाटं स्याद् दारुयुग्मं प्रयोजयेत् ॥५०॥दक्षिणस्य कवाटं तु विशालाधिकमायतम्एकद्वित्र्! यङ्गुलं वामकवाटं स्याद् द्विहस्तकम् ॥५१॥तत्समग्रं शिख तारं तद्द्वयं तस्य तुङ्गकम्वृत्ताकारं शिखा सर्वा मूलोद्भवरुचा भवेत् ॥५२॥मध्ये तु क्षेपणं वामे शुद्धद्वारावसानकम्त्रिचतुष्पञ्चषण्मात्रं मध्ये क्षेपणविस्तृतम् ॥५३॥युग्मवेदकुमाराष्टपङ्क्त्यंशं द्वादशांशकम्कुर्यात्कवाटदीर्घे क्षेपणं विस्तृतोधिकम् ॥५४॥त्रिचतुष्पञ्चाङ्गुलं वा तस्य विस्तार मानयेत्शुद्धद्वारसमायामे विस्तारे परिकल्पयेत् ॥५५॥आयदण्ड त्रिधापञ्चसप्तकाकृतमेव चदीर्घं ह्रस्वं च सर्वेषामिदं युक्त्या प्रयोजयेत् ॥५६॥सन्दिमध्ये तु वेदाश्रं पट्टिकानां तु पादयुक्पद्मपत्रादि सर्वेषां युक्त्या च समलङ्कृतम् ॥५७॥प्राकारे च महाद्वारं क्षुद्र द्वारं कवाटकेसप्ताङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥५८॥पञ्चविंशाङ्गुलायामं त्रिचतुर्थाङ्गुलं ततिःतदर्धं तद्घनं कुर्यात्त्रिचतुष्पञ्चाङ्गुलोन्नतम् ॥५९॥कीलभाजनमित्युक्तं कीलनं तु प्रवक्ष्यतेभाजनायामवत्कुर्यात्कीलायामं यथोक्तवत् ॥६०॥एकद्वित्र्! यङ्गुलं वापि कीलतारं यथेष्टकम्कवाटयुक्तं तथैकं चेद् द्वारदक्षिणपार्श्वके ॥६१॥द्वारपादे पदे वापि योजयेत्कीलभाजनम्पर्वयुक्कीलमूलाग्रे भाजने छिद्रं योजयेत् ॥६२॥अयस्कीलं च पट्टं च पद्मपत्रादिशोभितम्कुर्यात्तत्तत्कवाटानां युक्त्या तत्कीलशूलके ॥६३॥यथाबलं यथाशोभं तथा युञ्जीत बुद्धिमान्द्वारोर्ध्वे भूपरार्धं च कुर्यात्तच्छिद्र पट्टिका ॥६४॥कवाटस्योर्ध्वशूलं च तत्तच्छिद्रे प्रवेशयेत्अन्तरद्वारं तु कवाटं चैव योजयेत् ॥६५॥कीलं च भाजनं चैव कवाटयुग्मं तु योजयेत्कवाटायामविस्तारे मध्ये छिद्रं तु युग्मतः ॥६६॥छिद्र योर्मध्यं तस्योर्ध्वतः कीलं तदन्योऽन्यं निवेशयेत्एवं युक्त्या कवाटं च सव्यासव्यं तु योजयेत् ॥६७॥देवानां मूलहर्म्ये तु कवाटाधिक्यवामकेसर्वेषामालये चान्तं यथेष्टं स्यापयेत्सुधीः ॥६८॥उक्तवत्स्थापयेद् द्वारं स्थपतिः स्थापकैः सहदेवानां हर्म्यके सर्वं मध्यद्वारं तु जालकम् ॥६९॥द्विजातीनां च वर्णानां गृहे वातायनं बुधःमध्यस्तम्भं यथायुक्त्याकारं यत्तु यथेष्टकम् ॥७०॥देवानां भूसुरादीनां वर्णानां च गृहे गृहेद्वारपट्टिकाया मानं लक्षणं वक्ष्यतेऽधुना ॥७१॥द्वारस्य पुरतो देशे द्वारमध्ये सभद्र कम्एकभाग द्विभागं वा निर्गमं पट्टिका भवेत् ॥७२॥एकत्रिपञ्चभागेन पट्टिकाविस्तृतं भवेत्विस्तारं द्विगुणं वापि पादोनं द्विगुणं तु वा ॥७३॥विस्तारार्धाधिकं वापि तद्द्वारं पट्टिकोदयम्तुङ्गे चाष्टांशकं कृत्वा चैकभागं मसूरकम् ॥७४॥तद्द्वयं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम्तत्समं ग्रीवतुङ्गं स्यात् शिरतुङ्गं द्वयांशकम् ॥७५॥तदर्धं स्तूपितुङ्गं स्यात् शालाकारं शिरो भवेत्अथवा नासिकाकारं कुर्याद् भित्ति सहैव च ॥७६॥षड्वर्गमिति प्रोक्तं च चतुर्वर्गमिहोच्यतेतुङ्गे षडंशके कृत्वा एका द्व्येकवेदिका ॥७७॥पादं शिरः शिखा प्रोक्तं शेषं प्रागुक्तवन्नयेत्सर्वालङ्कारसंयुक्तमेवमुक्तं पुरातनैः ॥७८॥अज्ञानाद् विपरीतं चेत्सर्वसम्पद्विनाशनम् ॥७९॥एवं द्वारं तैतलानां द्विजानाम्भूपानां चैव वैश्यकानां परेषाम्मानं यत्तच्चोक्तवद्घर्म्यदेशेकुर्यात्सर्वसम्पदास्पदं स्यात् ॥८०॥इति मानसारे वास्तुशास्त्रे द्वारमानविधानं नाम एकोनचत्वारिंशोऽध्यायः N/A References : N/A Last Updated : October 03, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP