संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्| मौलिलक्षणम् मानसारम् अन्तर्विषयाः संग्रहः शिल्पिलक्षणपूर्वकं मानोपकरणविधानम् वास्तुप्रकरणम् भूमिसंग्रहविधानम् भूपरीक्षाविधानम् शङ्कुस्थापनलक्षणम् पदविन्यासलक्षणम् बलिकर्मविधानम् ग्रामलक्षणम् नगरविधानम् भूमिलम्बविधानम् गर्भविन्यासविधानम् उपपीठविधानम् अधिष्ठानविधानम् स्तम्भलक्षणम् प्रस्तरविधानम् सन्धिकर्मविधानम् विमानलक्षणम् एकतलविधानम् द्वितलविधानम् त्रितलविधानम् चतुस्तलविधानम् पञ्चतलविधानम् षट्तलविधानम् सप्ततलविधानम् अष्टतलविधानम् नवतलविधानम् दशतलविधानम् एकादशतलविधानम् द्वादशतलविधानम् प्राकारविधानम् परिवारविधानम् गोपुरविधानम् मण्डपविधानम् शालाविधानम् गृहमानस्थानविधानम् गृहप्रवेशविधानम् द्वारस्थानविधानम् द्वारमानविधानम् राजहर्म्यविधानम् राजाङ्गविधानम् राजलक्षणम् रथलक्षणम् शयनविधानम् सिंहासनलक्षणम् तोरणविधानम् मध्यरङ्गविधानम् कल्पवृक्षविधानम् मौलिलक्षणम् भूषणलक्षणम् त्रिमूर्तिलक्षणम् लिङ्गविधानम् पीठलक्षणम् शक्तिलक्षणम् जैनलक्षणम् बौद्धलक्षणम् मुनिलक्षणम् यक्षविद्याधरादिलक्षणम् भक्तलक्षणम् हंसलक्षणम् गरुडलक्षणम् वृषभलक्षणम् सिंहलक्षणम् प्रतिमाविधानम् उत्तमदशतालविधानम् मध्यमदशतालविधानम् प्रलम्बलक्षणम् मधूच्छिष्टविधानम् अङ्गदूषणविधानम् नयनोन्मीलनलक्षणम् मानसारम् - मौलिलक्षणम् प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : manasaramsanskritvasru shastraमानसारम्वास्तु शास्त्रसंस्कृत मौलिलक्षणम् Translation - भाषांतर कन्यकादिधनरत्नसंग्रहाशालिभूमिगृहदासवाहनम्शिल्पिनां च गुरवे निवेदयेत्कर्तृपत्र वरहस्ततो बहुः ॥१॥योगात्कुर्याद्युक्तसंमानहीनम्कर्ता यावद् भूमिचन्द्रं पतेत्सःतस्मात्कर्ता चोक्तसंमानं राजासर्वैश्वर्यं काम्यसिद्धिं लभेत ॥२॥शिल्पिचित्तं प्रसन्नं चेद्यजमानेष्टदं फलम्शिल्पिनस्त्वप्रसन्नं चेत्सर्वसम्पद्विनाशनम् ॥३॥तस्मात्सर्वथा कर्ता शिल्पाचार्यमुपाचरेत्देवानां भूपतीनां च मौलिलक्षणमुच्यते ॥४॥जटामौलिकिरीटं च करण्डं च शिरस्त्रकम्कुन्तलं केशबन्धं च धम्मिल्लालकचूलकम् ॥५॥मकुटं च मिति ख्यातं तत्तदाधारमानतःपद्मपट्टं रत्नपट्टं पुष्पपट्टं त्रिधा मतम् ॥६॥पितामहस्य रुद्र स्य जटामकुटं योग्यकम्किरीटमकुटं चैव नारायणस्य योग्यकम् ॥९॥कन्यसा देवतानां च करण्डमकुटान्वितम्जटामौलि मनोन्मन्या मण्डला कुण्डलं तथा ॥१०॥सरस्वत्याश्च सावित्र्! याः केशबन्धं च कुण्डलम्अथवा सर्वशक्तीनां करण्डमकुटान्वितम् ॥११॥किरीटं सार्वभौमस्य चाधिराजस्य योग्यकम्नरेन्द्र स्य करण्डं स्यत्पार्ष्णिकस्य शिरस्त्रकम् ॥१२॥चक्रवर्त्यादिभूपस्य करण्डमकुटं तु वापत्रपट्टं पट्टधरो रत्नपट्टं च पार्ष्णिके ॥१३॥पट्टभाक् पुष्पपट्टं च चोक्तमेवं पुरातनैःप्राहारकास्त्रग्राहौ च पुष्पमाल्यं प्रकीर्तितम् ॥१४॥चक्रवर्तिमहिष्याश्च कुड्मलं मकुटं भवेत्अधिराज नरेन्द्र स्य महिष्याः केशबन्धनम् ॥१५॥पार्ष्णिकं पट्टकरोमण्डलेशस्य पट्टभाक्एतेषां महिषीभ्यां च धम्मिल्लमकुटाहृतम् ॥१६॥प्राहारकास्त्रग्राहाभ्यां महिष्यालकचूडकम्वक्त्रायामत्रिधायामं द्वयं वा मकुटोदयम् ॥१७॥पितामहस्य रुद्र स्य पादोनद्वयमेव चअन्यथा देवतानां च चालपादोनमेव च ॥१८॥किन्नरयक्षकाणां च अध्यर्धं वा समन्तकम्सर्वेषामपि शक्तीनां मुखायामद्वयं भवेत् ॥१९॥केशान्तात्कुड्मलान्तं स्यात्सर्वेषां मकुटायतम्मुखायामसमं मूलविस्तारं भूषणान्यपि ॥२०॥तदष्टांशेन हीनं वा षोडशांशोनमेव वामकुटाग्रविशालं स्याच्छिखायाममध्यादिदेशिकम् ॥२१॥मूलतारार्धभागं वा त्रिभागैकांशमेव चएवं करण्डमौल्याग्रे विस्तारं परिकीर्तितम् ॥२२॥सर्वेषां मकुटानां तु चामूलाग्रक्षयं क्रमात्भूपानां च शिरोबाहुतुल्यं तन्मकुटोदयम् ॥२३॥तत्तुङ्गे षोडशांशं स्यान्महाराजस्य हीनकम्तत्तुङ्गे द्व्यंशहीनोच्चं नरेन्द्रा ख्यस्य भूपतेः ॥२४॥अर्धं पार्ष्णिकभूपस्य शिरस्त्रोदयमीरितम्शिरोनाहसमं दीर्घे तत्त्रिभागं द्विभागिकम् ॥२५॥चक्रवर्त्यादि राजस्य महिषीमकुटोदयम्अन्यत्सर्वं महिषीणां मुखायामसमं बुधैः ॥२६॥पादोनं च तदर्धं वा धम्मिल्लाकादिकोदयम्शेषं प्रागुक्तवन्मानं कुर्यात्तत्र विचक्षणः ॥२७॥शिरोनाहं त्रिभागैकं पट्टस्त्रीदयमेव चएवं पट्टधरं प्रोक्तं पट्टमेवं शिरोवृतम् ॥२८॥चतुर्भागैकपट्टं स्यात्तुङ्गानां मण्डलेश्वरम्पट्टमेवं शिरोनाहे षड्भागे चैकभागिकम् ॥२९॥पट्टभागाख्यभूपस्य पट्टतुङ्गमथैव चसर्वानां चेति प्रोक्तमलङ्कारमिहोच्यते ॥३०॥दशपर्णैश्च हेमादिभिर्माल्यादीनां प्रकल्पयेत्पञ्चशत सहस्रं च निष्कं च द्विसहस्रकम् ॥३१॥अथवा पञ्चशताधिक्यं निष्कान्तं द्विसहस्रकम्कन्यस्यादुत्तमान्तं स्यात्स्वर्णसंख्यात्रयोदिते ॥३२॥प्राप्तं च मङ्गलं चैव वीरं च विजयं तथाचतुर्विधाभिषेकस्य चक्रवर्तेश्च कथ्यते ॥३३॥तदर्धं चावरोधस्य हिरण्य मकुटस्य वाद्विसहस्रान्तमुक्तादित्रयसमं तथा ॥३४॥अधिराजस्य मकुटे स्वर्णसंख्याप्रकीर्तितम्पञ्चशतनिष्कमारभ्य पञ्चशतविवर्धनात् ॥३५॥पञ्चाशतसहस्रादि कन्यसादुत्तमान्तकम्पट्टयुक्तं तथाबेरे भूपानां च विशेषतः ॥३६॥एवं नरेन्द्र भूपस्य हेम स्यान्मकुटस्य चचतुःशतनिष्कमादौ चतुःशतविवर्धनात् ॥३७॥शतद्वादशनिष्कान्तं कन्यसादि त्रयं त्रयम्पार्ष्णिकस्य शिरस्त्रस्य हेमं तत्परिकीर्तितम् ॥३८॥त्रिशतनिष्कमारभ्य त्रिशतनिष्कविवर्धनात्निष्कं नवशतान्तं स्यात्कन्यसादुत्तमान्तकम् ॥३९॥पट्टधृक् भूपतेश्चैव हेम पट्टस्य कीर्तितम्द्विशतं निष्कमारभ्य निष्कद्विशतवर्धनात् ॥४०॥सप्तशतनिष्कान्तं स्यादुत्तमान्तं त्रयोदितम्मण्डलेशस्य पट्टस्य हेमसंख्या प्रकथ्यते ॥४१॥स्वर्णनिष्कशतमारभ्य शतनिष्कविवर्धनात्त्रिशतनिष्कपर्यन्तं कन्यसादुत्तमान्तकम् ॥४२॥पट्टभाक् भूपपट्टस्य संयुक्तं हेममेव चभूपानां मकुटाग्रान्तं केशान्तं मकुटोदयम् ॥४३॥तदूर्ध्वे चाधिकं कुर्यात्तच्छिखामणितुङ्गकम्जटामकुटकेशबन्धं च धवला त्रिपुषा कृतिः ॥४४॥किरीटं वेणुकर्णाभं करण्डं शिखितुण्डवत्शिरस्त्रं बुद्वुदाकारं धम्मिल्लं वल्लिकाकृतिः ॥४५॥केशान्तादलकाचूडं कुर्यात्तु मकुटानि वैभूपानां मकुटोत्सेधं षड्विंशं तु विभाजिते ॥४६॥फालपट्टोदयं पञ्चभागं चूडं तदर्धकम्पुरमुत्सेधं पञ्चांशं मूलतारं षडंशकम् ॥४७॥देवानां मकुटोच्चं तु नव विंशति भाजितेपार्श्वपूरितं नन्दाशं तुङ्गतारं षडंशकम् ॥४८॥अध्यर्धांशाग्रपट्टं स्यात्त्रिपादांशेन वेत्रकम्पट्टार्धे चोर्ध्वदेशे तत्पादांशेन त्रिवेत्रकम् ॥४९॥तदूर्ध्वे पद्ममेकेन द्व्यंशेन कुड्मलोदयम्मकुटान्तात्पट्तिकान्तं स्यात्तदूर्ध्वे तु शिखामणिः ॥५०॥वेत्रादिकुड्मलान्तं स्याच्छिखामण्युदयमीरितम्अधोवेत्रोदयदेशे रत्नदामावृतांशकम् ॥५१॥वृत्ताकारं तु सर्वाङ्गं युक्त्या तत्रैव योजयेत्अन्यत्र सर्वदेशे तु तरङ्गाकृति योजयेत् ॥५२॥तरङ्गाकारमध्ये तु पुष्परत्नैश्च विभूषितम्पूरितं च द्विभागं च मकरैश्च विभूषितम् ॥५३॥तन्मध्ये रत्नबन्धं स्यात्तस्यावृतसपत्रयुक्अग्रे च रत्नबन्धं स्याद्बाह्ये तु वल्लिकावृतम् ॥५४॥मकरस्यास्य देशे तु वल्लिदामं च निर्गमम्पुरतः पृष्ठतश्चैव मकरान्मकरान्तकम् ॥५५॥मौलिबन्धेन बल्ल्येव मुक्तादामैरलङ्कृतम्ललाटपट्टतुङ्गं तच्चतुर्भाग विभजिते ॥५६॥एकांशं पट्टबन्धं स्यात्सर्वरत्नैरलङ्कृतम्तस्याधो रत्नदामैश्चललाटोर्ध्वेऽर्धचन्द्र वत् ॥५७॥कर्णपत्रसमायुक्तं श्रोत्रोर्ध्वे कर्णपुष्पयुक्तस्मात्तु लम्बनं दाम सर्वरत्नैरलङ्कृतम् ॥५८॥पूरिमध्यादधोदेशे चूलरत्नानि विन्यसेत्चतुष्पूरी संयुक्तं कर्णोर्ध्वे पार्श्वपूरितम् ॥५९॥शिरःपृष्ठोर्ध्वदेशे तु पृष्ठपूरिसंयुतम्पृष्टस्याधश्च मध्ये तु शिरःशक्रं तु सम्युतम् ॥६०॥शिरोनाहत्रिभागैकं शिरःशक्रविशालकम्चक्राकारं तु संयुक्तं सर्वरत्नानि विन्यसेत् ॥६१॥एतत्किरीट मकुटं सर्वालङ्कारसंयुतम्जटाचूडोर्ध्वबन्धं स्यादग्रे पट्टादिकान्वितम् ॥६२॥मध्ये शिखामणिं कुर्यात्तत्पार्श्वे दामलम्बनम्जटान्तरालैः पुष्पैश्च शेषं पूर्ववदाचरेत् ॥६३॥तदेव केशबन्धं स्यान्मौलिमध्ये सुबन्धनम्तदूर्ध्वे चालकापङ्क्तिः कुर्यात्तद्भ्रमराकृतिः ॥६४॥शेषं तु पूर्ववत्कुर्यात्सर्वालङ्कारसंयुतम्तदेव कुन्तलं कुर्यान्मध्यबन्धेन योजयेत् ॥६५॥सर्वाङ्गे भ्रमरं कुर्यात्तद्विशेषं तु पूर्ववत्शिरस्योर्ध्वे शिखारत्नं तन्मध्ये कुड्मलोदयम् ॥६६॥अग्रतारत्रिभागैकं सर्वकुड्मलविस्तृतम्विनाकृतिना सर्व तच्छेसं पूर्ववद् भवेत् ॥६७॥त्रिचतुष्पञ्चवलयं च तारे वेत्रपद्मयुक्उक्तवच्चाग्रदेशे तु कुड्मला स्यान्न दामकम् ॥६८॥शेषं प्रागुक्तवत्प्रोक्तं करण्डमकुटान्वितम्शिरोनाहत्रिभागैकं धम्मिल्लाग्रिवशालकम् ॥६९॥पञ्चत्रिंशेन तन्मूलं तत्र संविस्तृतं भवेत्कुर्यात्त्रिवलयोपेतं न कुर्यात्तु शिखामणिम् ॥७०॥सर्वरत्नानि विन्यस्य विना च कर्णपूरकम्शिरश्चूलं तु संयुक्तं शेषं तत्पूर्ववद् भवेत् ॥७१॥तदेवकलचूडे तु मूले तु रत्नबन्धनम्मूलमग्रसमं तारं मध्ये चोक्तविशालकम् ॥७२॥तद्विस्तारत्रिभागैकं तदूर्ध्वोदयविस्तृतम्नवरत्नैश्च संयुक्तं शेषं पूर्ववदाचरेत् ॥७३॥फालपट्टाभवत्कुर्यात्पट्टैः सर्वाकृतिस्तथापत्ररत्नादिसंयुक्तं पत्रपट्टमिति स्मृतम् ॥७४॥नवरत्नैश्च संयुक्तं कुर्यात्तद्र त्नपट्टकम्नानापुष्पैश्च संयुक्तं पुष्पपट्टमिति स्मृतम् ॥७५॥सर्वेषां मौलिदेशे तु चाष्टमङ्गलसंयुतम्श्रीवत्सं मध्यम कुर्यात्तस्याधः पूर्णकुम्भकम् ॥७६॥तत्पार्श्वे चामरं दीपं चोर्ध्वे च छत्रसंयुतम्दक्षिणे दर्पणं वामे स्वस्तिकं शङ्खमेव च ॥७७॥एवं तु नृपमध्ये तु गलपट्टोपरि न्यसेत्सर्वेषां भूपतीनां च महिषीणां च योग्यकम् ॥७८॥सर्वेषां मकुटानां च सर्वालङ्कारसंयुतम्सर्वेषां पुष्पमकुटं शिरोनासहमोदयम् ॥७९॥त्रिपादं चार्धमेवं वा सर्वपुष्पैरलङ्कृतम्चतुरश्रं चतुर्दिक्षु चाथवा वृत्तमेव च ॥८०॥मकुटाकारसंयुक्तं करण्डं वा किरीटकम्वेमं विना तु कुसुमैर्मकुटं कुर्याद्यथाविधि ॥८१॥पट्टबन्धस्य नृपतेः पुष्पपट्टं तदर्धकैःअन्येषां भूपतीनां च मूर्ध्नि मालां च बन्धयेत् ॥८२॥प्राप्तं च मङ्गलं चैव वीरं च विजयं तथाचतुर्विधाभिषेकस्य चक्रवर्तेश्च कथ्यते ॥८३॥मौलिनां च त्रिपुत्राणामाद्याभिषेकपूर्वकैःउक्तवच्छास्त्रमार्गे तु कुर्यात्पुष्पाभिषेककम् ॥८४॥भूपानां चाभिषेकाख्यं कर्मकाले विशेषतःस्थपतिः स्थापकैर्विप्रैः स्थापित स्वङ्कुरार्पणम् ॥८५॥अधिवासादिपर्यन्तं कर्मकुर्याद्बुधैः सहउक्ताधिवासात्कुम्भानां जलपूर्णान्समारभेत् ॥८६॥यागमण्डपसौम्ये तु सिंहासनस्य चोपरिनृपालस्तत्र संकल्प्य अभिषेकं समारभेत् ॥८७॥सरित्समुद्र सलिलं कुम्भैः पूर्णा दधिमयैःअथर्वसामगीतैश्च चान्यैश्चागमन्त्रकैः ॥८८॥जलाभिषेक संपूर्णं कुर्यात् स्थपतिर्गुरौपश्चात्तु होमशिष्टा च दर्भं दत्वा त्रिपुण्ड्रकम् ॥८९॥ललाटे धारणं कुर्याद् भूपतेस्तु यथाविधिहंसश्चि ह्नदुकूलं च धारयेत्तदनन्तरम् ॥९०॥श्रीचन्दनं च कस्तूरीकुङ्कुमं चानुलेपयेत्यज्ञसूत्रोत्तरीयं च सर्वाभरणभूषितम् ॥९१॥सर्वालङ्कारसंयुक्तमभिषेकाख्यमण्डपम्आनयेन्मकुटं सिंहं पीठं च स्थपतिर्गुरुः ॥९२॥प्रोक्षयेत्पञ्चगव्यादि मध्यरङ्गे तु विन्यसेत्पुरोहितपुरगाश्च मकुटं धारयेत्ततः ॥९३॥पश्चात्सिंहासनाद्यैश्च कल्पवृक्षं च तोरणम्निर्यूहाद्यैरलङ्कृत्य नृपालं तत्र वेशयेत् ॥९४॥होपवेशनं कुर्यान्महिषीं सव्यपार्श्वकेसुमुहूर्ते सुलग्ने च स्थपतिस्थापकावुभौ ॥९५॥रत्नसंदष्टमकुटं मूर्ध्नि राजोपयोजयेत्सर्वमङ्गलघोषैश्च स्वस्तिवाचनपूर्वकम् ॥९६॥दूर्वां मधूकमालाश्च दधिविन्दु ललाटकेवक्षस्थले बाहुमाला नयनाञ्जनरञ्जनः ॥९७॥दूपदीपं दधेत् पश्चात्परमाङ्गं प्रदर्शयेत्यवाङ्कुरं च दूर्बा च प्लक्षत्वक् भाजनोपरि ॥९८॥ज्ञानवृद्धैरमात्यैश्व कुर्यान् नीराञ्जलाविधैःवृद्धैः सुमङ्गलीभिस्तैराशीर्वचनपूर्वकम् ॥९९॥आद्रा र्ह!रिद्रा संमिलितान् साक्षतान्प्रोक्षयेद् द्विजैःकुर्यादारोहणं पश्चाद्रा जा त्वैरावतोपरि ॥१००॥ऐरावतारूढनृपाल मौलिमुक्तान्यकान्वादयदीप्यमान्ललाटपट्टस्य मुखेन्दुकात्यदिङ्मण्डलं भास्वस्य श्च तस्तम् ॥१०१॥इतस्ततश्चामरवीज्यमानेरूपाङ्गनाभिः परितो निषेव्यःसपल्लवैश्छत्रचतुष्टयैश्चविराजमानं मणिदर्पणादिभिः ॥१०२॥कलशं च सुवर्णनिर्मितम्ध्वजसंपातपताकयावृतम्नगरस्य ततः प्रदक्षिणम्कुरुतां नृत्तसंगीतवाद्यकैः ॥१०३॥नगरं प्रदक्षिणं कुर्यात्सर्वमङ्गलघोषणैःगृहप्रवेशसमये नेत्रबन्धं च कारयेत् ॥१०४॥धान्यादिपायसक्षीरसवस्त्रादिधरादिकम्मङ्गलद्र व्यमाङ्गल्यमखिलं निक्षिपेद्बुधः ॥१०५॥स्वयमागत्य तद्द्रव्यं राजा हस्तेनोपस्पृशेत्दुर्भिक्षं च सुभिक्षं च विद्वान् पश्चाद् विनिर्दिशेत् ॥१०६॥वीर्यं च विजयं चापि कीर्तिं लक्ष्मीं च निर्दिशेत्पायसाद्यन्नसंस्पर्शे चान्नवृद्धिः सदा भवेत् ॥१०७॥ढान्यराशिं करेणैव स्पर्शद्र व्या सुभिक्षकम्स्वर्णादिलौहरत्नं च प्रजानां श्रीकरं भवेत् ॥१०८॥खङ्गाद्यस्त्रं स्पृशेद्वापि शौर्यं तस्य विनिर्दिशेत्दुद्र व्यस्पर्शनान्तस्य राज्यस्य स्यात्त्वमङ्गलम् ॥१०९॥द्र व्यादीनां तत्सर्वं रौप्यादिस्पर्शने भवेत्प्राप्तं च मङ्गलं चैव वीरं च विजयं तथा ॥११०॥एते चतुर्विधाः प्रोक्ता चाभिषेका यथोक्तवत् ॥१११॥उक्ताः सर्वाभिषेकाः सकलनृपतिभिः काम्यनित्याख्यकं चअन्यैर्नैर्मित्तिकाद्यैरपि च यदुचितं तत्तदेवाभिषेकःइत्थं वेदैः पुराणैः सकलमुनिवरैर्मानसारादिमुख्यैःविद्वद्भिद्वः शिल्पशास्त्रैरपि च यदुदितं शास्त्रतन्त्रं प्रकुर्यात् ॥११२॥इति मानसारे वास्तुशास्त्रे अभिशेकलक्षणविधानं नाम एकोनपञ्चाशदध्यायः N/A References : N/A Last Updated : October 07, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP