संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्|
पीठलक्षणम्

मानसारम् - पीठलक्षणम्

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


सर्वेषामपि लिङ्गानां वक्ष्यते पीठलक्षणम्
लिङ्गतारं त्रिधापीठं तारं स्वयम्भुलिङ्गके ॥१॥

अथवा लिङ्गनाहे तु स्थूलदेशे समं भवेत्
लिङ्गतुङ्गसमं वापि तत्पादाधिकमेव वा ॥२॥

अध्यर्धं वा त्रिपादोनं द्विगुणम् त्रिगुणं तु वा
स्वयम्भुलिङ्गपीठस्य चोत्सेधमिति कथ्यते ॥३॥

एवं पूजांशमानेन पीठं तन्मानयेद् बुधः
पूर्वोक्तमानलिङ्गानामधुना पीठलक्षणम् ॥४॥

लिङ्गस्य बाह्यदेशे तु लिङ्गतारं समन्ततः
यल्लिङ्गपरिणाहस्य समं वा पीठविस्तृतम् ॥५॥

वैष्णवांशं समोत्सेधं पीठं स्वस्तिकलिङ्गके
अथवा पादांशमाधिक्यं ब्रह्मांशे संभवं भवेत् ॥६॥

अन्यैस्तु सर्वलिङ्गानां ब्रह्मांशोदयं बुधैः
कुर्यात्तन्मान संग्राह्य द्वित्रिवेदशरांशकम् ॥७॥

तदेकांशाधिकं विष्णुमानं पीठोदये तथा
पीठांशसार्धयोर्देशे वैष्णवांशं नवधाशृतम् ॥८॥

पीठं तु योजयेत्तत्तद्विस्तारे तु त्रिभागिकम्
एकांशं नालदीर्घं स्यान्मूलविस्तारं तत्समम् ॥९॥

चतुर्भागैकांशहीनं स्यात् शेषाग्रविस्तृतम्
अथवा पञ्चत्र्! यंशेन चाग्रनालं विशालकम् ॥१०॥

तदेकांशाधिकं वापि पूर्वोक्तं नालदीर्घके
ग्रीवोर्ध्वं चोक्तमानं यन्नालस्य बहुलं भवेत् ॥११॥

नालतारं त्रिभागैकं जलधारविशालकम्
पीठस्योर्ध्वे विशाले तु चतुष्पञ्चषडंशके ॥१२॥

एकांशेन शेषं तु वृतवारिविशालकम्
घृतवारिविशाले तु तत्तदश विभाजिते ॥१३॥

एकांशं निम्नविस्तारं पट्टिकान्तसमन्वितम्
नन्द्यावर्तशिला चोर्ध्वे तस्मान्नारायणान्तकम् ॥१४॥

पीठतुङ्गमिति प्रोक्तं गण्यमानमिहोच्यते
उत्सेधे षोडशांशे तु प्रथमोच्चं द्विभागिकम् ॥१५॥

पद्मोच्चं तु त्रिभागं स्यात्तदूर्ध्वे क्षेपणांशकम्
कन्धरं च त्रिभागं स्यात्तदूर्ध्वे कम्पमंशकम् ॥१६॥

ऊर्ध्वपद्मं त्रिंशं स्याद् वाजनं च त्रिभागिकम्
एकांशं घृतवारि स्याद् भद्र पीठमिति स्मृतम् ॥१७॥

तदेव गलदेशे तु कुमुदं निर्गमं भवेत्
त्रियग्रं वृत्तकुम्भं वा श्रीभद्र मिति कीर्तितम् ॥१८॥

कुम्भस्योपरि तस्याधश्चार्धोर्धेन पद्मयुक्
तस्याधोऽर्धेन कार्धेन कुर्यात्तत्तद्विचक्षणः ॥१९॥

शेषं तु पूर्ववत्पीठं श्रीविशालमिति स्मृतम्
अथवा कुम्भं दिग्भागं पद्मतुङ्गं युगांशकम् ॥२०॥

शेषं प्रागुक्तवत्कुर्यादुपपीठं प्रकल्पयेत्
अथवाधिष्ठानवद् गुह्यं कुर्यात्तत्सर्वलिङ्गके ॥२१॥

यत्तुङ्गस्य वशावेशं पीठकर्णावसानकम्
उक्ततारादिहीनं स्यात्सर्वदोषसमुद्भवम् ॥२२॥

तस्मात्तु निर्गमं कुर्याद् विस्तारं तत्प्रकल्पयेत्
कुर्यात्तु नागरे लिङ्गे पीठं नागरमेव च ॥२३॥

द्रा विडे द्रा विडं प्रोक्तं वेसरे वेसरं तथा
धारालिङ्गं तु सर्वेषां धारा पीठं प्रकल्पयेत् ॥२४॥

यत्तदाकारलिङ्गानां तत्तदाकारलिङ्गके
तत्तच्छिखराकारं कुर्यादेवं विचक्षणः ॥२५॥

विपरीते भूसुरादीनां विपत्त्य हि समावहेत्
तस्मात्तु पीठलिङ्गादि हर्म्यादि परिहृद्यते ॥२६॥

नागरं चतुरश्रं स्यादष्टाश्रम् द्रा विडं तथा
वृत्तं च वेसरं प्रोक्तमेतत्पीठाकृतिस्तथा ॥२७॥

धारा लिङ्गं तु पीठानां सर्वं धारा कृतिस्तथा
कुर्यात्तु शिल्पिभिः सर्वैः सर्वसंपत्करं सदा ॥२८॥

स्वयम्भुलिङ्गविस्तृतित्रिगुणं च पीठे
पीठस्य तारत्रिविधं परिशुद्धगेहम् ॥२९॥

गेहत्रिधैकं परितो बहिष्कुर्यात् तारम्
केचित्तदायामसमं पीठविशालमेतत् ॥३०॥

इति मानसारे वास्तुशास्त्रे पीठलक्षणविधानं नाम त्रिपञ्चाशदध्यायः

N/A

References : N/A
Last Updated : October 07, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP