संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ४८

पातालखण्डः - अध्यायः ४८

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शेष उवाच
इति प्रोक्तं तु मुनिना संश्रुत्य परवीरहा
विस्मयं मानयामास हृदि शौनकमब्रवीत् ॥१॥
शत्रुघ्न उवाच
कर्मणो गहना वार्ता यया सात्वकनामधृत्
दिवं प्राप्तोऽपि महता कर्मणा राक्षसीकृतः ॥२॥
स्वामिन्वद महर्षे त्वं कर्मणां स्वगतिर्यथा
येन कर्मविपाकेन यादृशं नरकं भवेत् ॥३॥
शौनक उवाच
धन्योसि राघवश्रेष्ठ यत्ते मतिरियं शुभा
जानन्नपि हितार्थाय लोकानां त्वं ब्रवीषि भोः ॥४॥
कथयामि विचित्राणां कर्मणां विविधा गतीः
ताः शृणुष्व महाराज यच्छ्रुत्वा मोक्षमाप्नुयात् ॥५॥
परवित्तं परापत्यं कलत्रं पारकं च यः
बलात्कारेण गृह्णाति भोगबुद्ध्या च दुर्मतिः ॥६॥
कालपाशेन संबद्धो यमदूतैर्महाबलैः
तामिस्रे पात्यते तावद्यावद्वर्षसहस्रकम् ॥७॥
तत्र ताडनमुद्धूताः कुर्वंति यमकिंकराः
पापभोगेन संतप्तस्ततो योनिं तु शौकरीम् ॥८॥
तत्र भुक्त्वा महादुःखं मानुषत्वं गमिष्यति
रोगादिचिह्नितं तत्र दुर्यशो ज्ञापकं स्वकम् ॥९॥
भूतद्रोहं विधायैव केवलं स्वकुटुंबकम्
पुष्णाति पापनिरतः सोंऽधतामिस्रके पतेत् ॥१०॥
ये नरा इह जंतूनां वधं कुर्वंति वै मृषा
ते रौरवे निपात्यंते भिद्यंते रुरुभी रुषा ॥११॥
यः स्वोदरार्थे भूतानां वधमाचरति स्फुटम्
महारौरवसंज्ञे तु पात्यते स यमाज्ञया ॥१२॥
यो वै निजं तु जनकं ब्राह्मणं द्वेष्टि पापकृत्
कालसूत्रे महादुष्टे योजनायुतविस्तृते ॥१३॥
यावंति पशुरोमाणि गवां द्वेषं करोति यः
तावद्वर्षसहस्राणि पच्यते यमकिंकरैः ॥१४॥
यो भूमौ भूपतिर्भूत्वा दंडायोग्यं तु दंडयेत्
करोति ब्राह्मणस्यापि देहदंडं च लोलुपः ॥१५॥
स सूकरमुखैर्दुष्टैः पीड्यते यमकिंकरैः
पश्चाद्दुष्टासु योनीषु जायते पापमुक्तये ॥१६॥
ब्राह्मणानां गवां ये तु द्रव्यं वृत्तं तथाल्पकम्
वृत्तिं वा गृह्णते मोहाल्लुंपंति स्वबलान्नराः ॥१७॥
ते परत्रांधकूपे च पात्यंते च महार्दिताः
योऽन्नं स्वयमुपाहृत्य मधुरं चात्तिलोलुपः ॥१८॥
न देवाय न सुहृदे ददाति रसनापरः
स पतत्येव नरके कृमिभोजनसंज्ञिते ॥१९॥
अनापदि नरो यस्तु हिरण्यादीन्यपाहरेत्
ब्रह्मस्वं वा महादुष्टे संदंशे नरके पतेत् ॥२०॥
यः स्वदेहं प्रपुष्णाति नान्यं जानाति मूढधीः
स पात्यते तैलतप्ते कुंभीपाकेऽतिदारुणे ॥२१॥
यो नागम्यां स्त्रियं मोहाद्योषिद्भावाच्च कामयेत्
तं तया किंकराः सूर्म्या परिरंभं च कुर्वते ॥२२॥
ये बलाद्वेदमर्यादां लुंपंति स्वबलोद्धताः
ते वैतरण्यां पतिता मांसशोणितभक्षकाः ॥२३॥
वृषलद्यं यः स्त्रियं कृत्वा तया गार्हस्थ्यमाचरेत्
पूयोदे निपतत्येव महादुःखसमन्वितः ॥२४॥
ये दंभमाश्रयंते वै धूर्ता लोकस्य वंचने
वैशसे नरके मूढाः पतंति यमताडिताः ॥२५॥
ये सवर्णां स्त्रियं मूढा रेतः स्वं पाययंति च
रेतःकुल्यासु ते पापा रेतःपानेषु तत्पराः ॥२६॥
ये चौरा वह्निदा दुष्टा गरदा ग्रामलुंठकाः
सारमेयादने ते वै पात्यंते पातकान्विताः ॥२७॥
कूटसाक्ष्यं वदत्यद्धा पुरुषः पापसंभृतः
परकीयं तु द्रव्यं यो हरति प्रसभं बली ॥२८॥
सोऽवीचिनरके पापी अवाग्वक्त्रः पतत्यधः
तत्र दुःखं महद्भुक्त्वा पापिष्ठां योनिमाव्रजेत् ॥२९॥
यो नरो रसनास्वादात्सुरां पिबति मूढधीः
तं पाययंति लोहस्य रसं धर्मस्य किंकराः ॥३०॥
यो गुरूनवमन्येत स्वविद्याचारदर्पितः
स मृतः पात्यते क्षारनरकेऽधोमुखः पुमान् ॥३१॥
विश्वासघातं कुर्वंति ये नरा धर्मनिष्कृताः
शूलप्रोते च नरके पात्यंते बहुयातने ॥३२॥
पिशुनो यो नरान्सर्वानुद्वेजयति वाक्यतः
दंदशूके च पतितो दंदशूकैः स दश्यते ॥३३॥
एवं राजन्ननेके वै नरकाः पापकारिणाम्
पापं कृत्वा प्रयांत्येते पीडां यांति सुदारुणाम् ॥३४॥
यैर्न श्रुता रामकथा न परोपकृतिः कृता
तेषां सर्वाणि दुःखानि भवंति नरकांतरे ॥३५॥
अत्र यस्य सुखं स्वर्गे भूयात्तस्य इतीर्यते
ये दुःखिनो रोगयुता नरकादागताश्च ते ॥३६॥
शेष उवाच
एतच्छ्रुत्वा महीपालः कंपमानः क्षणे क्षणे
पप्रच्छ भूयस्तं विप्रं सर्वसंशयनुत्तये ॥३७॥
तत्तत्पापस्य चिह्नानि कथयस्व महामुने
केन पापेन किं चिह्नं भूलोके उपजायते ॥३८॥
इति श्रुत्वा तु तद्वाक्यं मुनिः प्रोवाच भूपतिम्
शृणु राजन्प्रवक्ष्यामि चिह्नानि पापकारिणाम् ॥३९॥
शौनक उवाच
सुरापः श्यामदंतश्च नरकांते प्रजायते
अभक्ष्यभक्षकारी च जायते गुल्मकोदरः ॥४०॥
उदक्यावीक्षितं भुक्त्वा जायते कृमिलोदरः
श्वमार्जारादिसंस्पृष्टं भुक्त्वा दुर्गंधिमान्भवेत् ॥४१॥
अनिवेद्य सुरादिभ्यो भुंजानो जायते नरः
उदरे रोगवान्दुःखी महारोगप्रपीडितः ॥४२॥
परान्नविघ्नकरणादजीर्णमभिजायते
मंदोदराग्निर्भवति सति द्रव्ये कदन्नदः ॥४३॥
विषदश्छर्दिरोगी स्यान्मार्गहा पादरोगवान्
पिशुनो नरकस्यांते जायते श्वासकासवान् ॥४४॥
धूर्तोऽपस्माररोगी स्याच्छूली च परतापनः
दावाग्निदायकश्चैव रक्तातीसारवान्भवेत् ॥४५॥
सुरालये जले वापि शकृत्क्षेपं करोति यः
गुदरोगो भवेत्तस्य पापरूपः सुदारुणः ॥४६॥
गर्भपातनजा रोगाः क्षयमेहजलोदराः
प्रतिमा भंगकारी च अप्रतिष्ठश्च जायते ॥४७॥
दुष्टवादी खंडितः स्यात्खल्वाटः परनिंदकः
सभायां पक्षपाती च जायते पक्षघातवान् ॥४८॥
परोक्तहास्यकृत्काणः कुनखी विप्रहेमहृत्
तुंदीवरी ताम्रचौरः कांस्यहृत्पुंडरीकिकः ॥४९॥
त्रपुहारी च पुरुषो जायते पिंगमूर्द्धजः
शीसहारी च पुरुषो जायते शीर्षरोगवान् ॥५०॥
घृतचौरस्तु पुरुषो जायते नेत्ररोगवान्
लोहहारी च पुरुषो बर्बरांगः प्रजायते ॥५१॥
चर्महारी च पुरुषो जायते मेदसा वृतः
मधुचौरस्तु पुरुषो जायते बस्तिगंधवान् ॥५२॥
तैलचौर्येण भवति नरः कण्ड्वातिपीडितः
आमान्नहरणाच्चैव दंतहीनः प्रजायते ॥५३॥
पक्वान्नहरणाच्चैव जिह्वारोगयुतो भवेत्
मातृगामी च पुरुषो जायते लिंगवर्जितः ॥५४॥
गुरुजायाभिगमनान्मूत्रकृच्छ्रः प्रजायते
भगिनीं चैव गमने पीतकुष्ठः प्रजायते ॥५५॥
स्वसुतागमने चैव रक्तकुष्ठः प्रजायते
भ्रातृभार्याभिगमने गुल्मकुष्ठः प्रजायते ॥५६॥
स्वामिगम्यादिगमने जायते दद्रुमंडलम्
विश्वस्तभार्यागमने गजचर्मा प्रजायते ॥५७॥
पितृष्वस्रभिगमने दक्षिणांगे व्रणी भवेत्
मातुलान्यास्तु गमने वामांगे व्रणवान्भवेत् ॥५८॥
पितृव्यपत्नीगमने कटौ कुष्ठः प्रजायते
मित्रभार्याभिगमने मृतभार्यः प्रजायते ॥५९॥
स्वगोत्रस्त्रीप्रसंगेन जायते च भगंदरः
तपस्विनीप्रसंगेन प्रमेहो जायते नरे ॥६०॥
श्रोत्रियस्त्रीप्रसंगेन जायते नासिकाव्रणी
दीक्षितस्त्रीप्रसंगेन जायते दुष्टरक्तसृक् ॥६१॥
स्वजातिजायागमने जायते हृदयव्रणी
जात्युन्नतस्त्रीगमने जायते मस्तकव्रणी ॥६२॥
पशुयोनौ च गमनान्मूत्रघातः प्रजायते
एते दोषा नराणां स्युर्नरकांते न संशयः ॥६३॥
स्त्रीणामपि भवंत्येते तत्तत्पुरुषसंगमात्
एवं राजन्हि चिह्नानि कीर्तितानि सुपापिनाम् ॥६४॥
दानपुण्यप्रसंगेन तीर्थादिक्रियया तथा
रामस्य चरितं श्रुत्वा तपसा वाक्षयं व्रजेत् ॥६५॥
सर्वेषामेव पापानां हरिकीर्तिधुनी नृणाम्
क्षालयेत्पापिनां पंकं नात्र कार्या विचारणा ॥६६॥
यो नावमन्येत हरिं तस्य यागाविधि श्रुताः
तीर्थान्यपि सुपुण्यानि पावितुं न क्षमाणि तम् ॥६७॥
हसते कीर्त्यमानं यश्चरित्रं ज्ञानदुर्बलः
न तस्य नरकान्मुक्तिः कल्पांतेऽपि भविष्यति ॥६८॥
या हि राजन्विमोक्षार्थं हयस्यानुचरैः सह
श्रावय श्रीशचरितं यतो वाहगतिर्भवेत् ॥६९॥
शेष उवाच
इति श्रुत्वा प्रहृष्टोऽभूच्छत्रुघ्नः परवीरहा
प्रणम्य तं परिक्रम्य ययौ सेवकसंयुतः ॥७०॥
तत्र गत्वा स हनुमान्हयवर्यस्य पार्श्वतः
उवाच रामचरितं महादुर्गतिनाशकम् ॥७१॥
याहि देव विमानं स्वं रामकीर्तनपुण्यतः
स्वैरं चर स्वलोके त्वं मुक्तो भव कुयोनितः ॥७२॥
इति वाक्यं समाकर्ण्य शत्रुघ्नो यावदास्थितः
तावद्ददर्श विमलं देवं वैमानिकं वरम् ॥७३॥
स उवाच विमुक्तोऽहं रामकीर्तनसंश्रुतेः
यामि स्वं भवनं राजन्नाज्ञापय महामते ॥७४॥
इत्युक्त्वा प्रययौ देवो विमाने स्वे परिस्थितः
तदा विस्मयमापुस्ते शत्रुघ्नेन सहानुगाः ॥७५॥
ततो वाहो विनिर्मुक्तो गात्रस्तंभाच्च भूतलात्
ययौ तद्विपिनं सर्वं भ्रमन्पक्षिसमाकुलम् ॥७६॥
इति श्रीपद्मपुराणे पातालखंडे रामाश्वमेधे शेषवात्स्यायनसंवादे हय-
निर्मुक्तिर्नामाष्टचत्वारिंशत्तमोऽध्यायः ॥४८॥

N/A

References : N/A
Last Updated : November 05, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP