संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः १४

पातालखण्डः - अध्यायः १४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शेष उवाच
अथ स्वागतसंतुष्टं शत्रुघ्नं प्राह भूमिपः
रघुनाथकथां श्रेष्ठां शुश्रूषुः पुरुषर्षभः ॥१॥
सुमद उवाच
कच्चिदास्ते सुखं रामः सर्वलोकशिरोमणिः
भक्तरक्षावतारोऽयं ममानुग्रहकारकः ॥२॥
धन्या लोका इमे पुर्यां रघुनाथमुखांबुजम्
ये पिबंत्यनिशं चाक्षिपुटकैः परिमोदिताः ॥३॥
अर्थजातं मदीयं च नितरां पुरुषर्षभ
कृतार्थं कुलभूम्यादि वस्तुजातं महामते ॥४॥
कामाक्षया प्रसादो मे कृतः पूर्वं दयार्द्रया
रघुनाथमुखांभोजं द्रक्ष्येद्य सकुटुंबकः ॥५॥
इत्युक्तवति वीरे तु सुमदे पार्थिवोत्तमे
सर्वं तत्कथयामास रघुनाथगुणोदयम् ॥६॥
त्रिरात्रं तत्र संस्थित्य रघुनाथानुजः परम्
गंतुं चकार धिषणां राज्ञा सह महामतिः ॥७॥
तज्ज्ञात्वा सुमदः शीघ्रं पुत्रं राज्येऽभ्यषेचयत्
शत्रुघ्नेन महाराज्ञा पुष्कलेनानुमोदितः ॥८॥
वासांसि बहुरत्नानि धनानि विविधानि च
शत्रुघ्नसेवकेभ्योऽसौ प्रादात्तत्र महामतिः ॥९॥
ततो गमनमारेभे मंत्रिभिर्बहुवित्तमैः
पत्तिभिर्वाजिभिर्नागैः सदश्वैरथ कोटिभिः ॥१०॥
शत्रुघ्नः सहितस्तेन सुमदेन धनुर्भृता
जगाम मार्गे विहसन्रघुनाथप्रतापभृत् ॥११॥
पयोष्णीतीरमासाद्य जगाम स हयोत्तमः
पृष्ठतोऽनुययुः सर्वे योधा वै हयरक्षिणः ॥१२॥
आश्रमान्विविधान्पश्यन्नृषीणां सुतपोभृताम्
तत्रतत्र विशृण्वानो रघुनाथगुणोदयम् ॥१३॥
एष धीमान्हरिर्याति हरिणा परिरक्षितः
हरिभिर्हरिभक्तैश्च हरिवर्यानुगैर्मुहुः ॥१४॥
इति शृण्वञ्छुभा वाचो मुनीनां परितः प्रभुः
तुतोष भक्त्युत्कलितचित्तवृत्तिभृतां महान् ॥१५॥
ददर्श चाश्रमं शुद्धं जनजंतुसमाकुलम्
वेदध्वनिहताशेषा मंगलं शृण्वतां नृणाम् ॥१६॥
अग्निहोत्रहविर्धूम पवित्रितनभोखिलम्
मुनिवर्यकृतानेक यागयूपसुशोभितम् ॥१७॥
यत्र गावस्तु हरिणा पाल्यंते पालनोचिताः
मूषका न खनंत्यस्मिन्बिडालस्य भयाद्बिलम् ॥१८॥
मयूरैर्नकुलैः सार्द्धं क्रीडंति फणिनोनिशम्
गजैः सिंहैर्नित्यमत्र स्थीयते मित्रतां गतैः ॥१९॥
एणास्तत्रत्य नीवारभक्षणेषु कृतादराः
न भयं कुर्वते कालाद्रक्षिता मुनिवृंदकैः ॥२०॥
गावः कुंभसमोधस्का नंदिनी समविग्रहाः
कुर्वंति चरणोत्थेन रजसेलां पवित्रिताम् ॥२१॥
मुनिवर्याः समित्पाणि पद्मैर्धर्मक्रियोचिताम्
दृष्ट्वा पप्रच्छसुमतिं सर्वज्ञं राम मंत्रिणम् ॥२२॥
शत्रुघ्न उवाच
सुमते कस्य संस्थानं मुनेर्भाति पुरोगतम्
निर्वैरिजंतु संसेव्यं मुनिवृंदसमाकुलम् ॥२३॥
श्रोष्यामि मुनिवार्तां च विदधामि पवित्रताम्
निजं वपुस्तदीयाभिर्वार्ताभिर्वर्णनादिभिः ॥२४॥
इति श्रुत्वा महद्वाक्यं शत्रुघ्नस्य महात्मनः
कथयामास सचिवो रघुनाथस्य धीमतः ॥२५॥
सुमतिरुवाच
च्यवनस्याश्रमं विद्धि महातापसशोभितम्
निर्वैरिजंतुसंकीर्णं मुनिपत्नीभिरावृतम् ॥२६॥
योऽसौ महामुनिः स्वर्गवैद्ययोर्भागमादधात्
स्वायंभुवमहायज्ञे शक्रमानविभेदनः ॥२७॥
महामुनेः प्रभावोऽयं न केनापि समाप्यते
तपोबलसमृद्धस्य वेदमूर्तिधरस्य ह ॥२८॥
श्रुत्वा रामानुजो वार्तां च्यवनस्य महामुनेः
सर्वं पप्रच्छ सुमतिं शक्रमानादिभंजनम् ॥२९॥
शत्रुघ्न उवाच
कदासौ दस्रयोर्भागं चकार सुरपंक्तिषु
किं कृतं देवराजेन स्वायंभुव महामखे ॥३०॥
सुमतिरुवाच
ब्रह्मवंशेऽतिविख्यातो मुनिर्भृगुरिति श्रुतः
कदाचिद्गतवान्सायं समिदाहरणं प्रति ॥३१॥
तदा मखविनाशाय दमनो राक्षसो बली
आगत्योच्चैर्जगादेदं महाभयकरं वचः ॥३२॥
कुत्रास्ति मुनिबंधुः स कुत्र तन्महिलानघा
पुनः पुनरुवाचेदं वचो रोषसमाकुलः ॥३३॥
तदाहुतवहो ज्ञात्वा राक्षसाद्भयमागतम्
दर्शयामास तज्जायामंतर्वत्नीमनिंदिताम् ॥३४॥
जहार राक्षसस्तां तु रुदंतीं कुररीमिव
भृगो रक्षपते रक्ष रक्ष नाथ तपोनिधे ॥३५॥
एवं वदंतीमार्तां तां गृहीत्वा निरगाद्बहिः
दुष्टो वाक्यप्रहारेण बोधयन्स भृगोः सतीम् ॥३६॥
ततो महाभयत्रस्तो गर्भश्चोदरमध्यतः
पपात प्रज्वलन्नेत्रो वैश्वानर इवांगजः ॥३७॥
तेनोक्तं मा व्रजाशु त्वं भस्मी भव सुदुर्मते
न हि साध्वी परामर्शं कृत्वा श्रेयोऽधियास्यसि ॥३८॥
इत्युक्तः स पपाताशु भस्मीभूतकलेवरः
माता तदार्भकं नीत्वा जगामाश्रममुन्मनाः ॥३९॥
भृगुर्वह्निकृतं सर्वं ज्ञात्वा कोपसमाकुलः
शशाप सर्वभक्षस्त्वं भव दुष्टारिसूचक ॥४०॥
तदा शप्तोऽतिदुःखार्तो जग्राहांघ्र्याशुशुक्षणिः
कुरु मेऽनुग्रहं स्वामिन्कृपार्णव महामते ॥४१॥
मयानृतं वचोभीत्या कथितं न गुरुद्रुहा
तस्मान्ममोपरि कृपां कुरु धर्मशिरोमणे ॥४२॥
तदानुग्रहमाधाच्च सर्वभक्षो भवाञ्छुचिः
इत्युक्तवान्हुतभुजं दयार्द्रो मुनितापसः ॥४३॥
गर्भाच्च्युतस्य पुत्रस्य जातकर्मादिकं शुचिः
चकार विधिवद्विप्रो दर्भपाणिः सुमंगलः ॥४४॥
च्यवनाच्च्यवनं प्राहुः पुत्रं सर्वे तपस्विनः
शनैःशनैः स ववृधे शुक्ले प्रतिपदिंदुवत् ॥४५॥
स जगाम तपः कर्तुं रेवां लोकैकपावनीम्
शिष्यैः परिवृतः सर्वैस्तपोबलसमन्वितैः ॥४६॥
गत्वा तत्र तपस्तेपे वर्षाणामयुतं महान्
अंसयोः किंशुकौ जातौ वल्मीकोपरिशोभितौ ॥४७॥
मृगा आगत्य तस्यांगे कंडूं विदधुरुत्सुकाः
न किंचित्स हि जानाति दुर्वारतपसावृतः ॥४८॥
कदाचिन्मनुरुद्युक्तस्तीर्थयात्रां प्रति प्रभुः
सकुटुंबो ययौ रेवां महाबलसमावृतः ॥४९॥
तत्र स्नात्वा महानद्यां संतर्प्य पितृदेवताः
दानानि ब्राह्मणेभ्यश्च प्रादाद्विष्णुप्रतुष्टये ॥५०॥
तत्कन्या विचरंती सा वनमध्ये इतस्ततः
सखीभिः सहिता रम्या तप्तहाटकभूषणा ॥५१॥
तत्र दृष्ट्वाथ वल्मीकं महातरुसुशोभितम्
निमेषोन्मेषरहितं तेजः किंचिद्ददर्श सा ॥५२॥
गत्वा तत्र शलाकाभिरतुदद्रुधिरं स्रवत्
दृष्ट्वा राज्ञांगजा खेदं प्राप्तवत्यतिदुःखिता ॥५३॥
न जनन्यै तथा पित्रे शशंसाघेन विप्लुता
स्वयमेवात्मनात्मानं सा शुशोच भयातुरा ॥५४॥
तदा भूश्चलिता राजन्दिवश्चोल्का पपात ह
धूम्रा दिशो भवन्सर्वाः सूर्यश्च परिवेषितः ॥५५॥
तदा राज्ञो हया नष्टा हस्तिनो बहवो मृताः
धनं नष्टं रत्नयुतं कलहोभून्मिथस्तदा ॥५६॥
तदालोक्य नृपो भीतः किंचिदुद्विग्नमानसः
जनानपृच्छत्केनापि मुनये त्वपराधितम् ॥५७॥
पारंपर्येण तज्ज्ञात्वा स्वपुत्र्याः परिचेष्टितम्
ययौ सुदुःखितस्तत्र समृद्धबलवाहनः ॥५८॥
तं वै तपोनिधिं वीक्ष्य महता तपसायुतम्
स्तुत्वा प्रसादयामास मुनिवर्य दयां कुरु ॥५९॥
तस्मै तुष्टो जगादायं मुनिवर्यो महातपाः
तवात्मजाकृतं सर्वमुत्पाताद्यमवेहि तत् ॥६०॥
तव पुत्र्या महाराज चक्षुर्विस्फोटनं कृतम्
बहुसुस्राव रुधिरं जानती त्वामुवाच न ॥६१॥
तस्मादियं महाभूप मह्यं देया यथाविधि
ततश्चोत्पातशमनं भविष्यति न संशयः ॥६२॥
तच्छ्रुत्वा दुःखितो राजा प्रज्ञाचाक्षुष आत्मजाम्
ददौ कुलवयोरूप शीललक्षणसंयुताम् ॥६३॥
दत्ता यदा नृपेणेयं कन्या कमललोचना
तदोत्पाताः शमं याताः सर्वे मुनिरुषोद्गताः ॥६४॥
राजा दत्त्वात्मजां तस्मै मुनये तपसांनिधे
प्राप स्वां नगरीं भूयो दुःखितोऽयं दयायुतः ॥६५॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे
च्यवनोपाख्यानंनाम चतुर्दशोऽध्यायः ॥१४॥

N/A

References : N/A
Last Updated : November 04, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP