संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः| अध्यायः ३० पातालखण्डः वि्षयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ पातालखण्डः - अध्यायः ३० भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ३० Translation - भाषांतर शेष उवाचअथ तेजःपुरं प्राप्तस्तुरगः पत्रशोभितःयस्यां पालयते राजा प्रजाः सत्येन सत्यवान् ॥१॥अथ कोटिपरीवारो रघुनाथानुजस्ततःहयानुगो ययौ तस्य पुरतः पुरधर्षणः ॥२॥तद्दृष्ट्वा नगरं रम्यं चित्रप्राकारशोभितम्कांचनैः कलशैस्तत्र परितः प्रतिभासितम् ॥३॥देवायतनसाहस्रैः सर्वतश्च विराजितम्यतीनां तु मठास्तत्र शोभंते यतिपूरिताः ॥४॥वहत्यत्र महादेवी शिखिलोचनमूर्धगाहंसकारंडवाकीर्णामुनिवृंदनिषेविता ॥५॥ब्राह्मणानां प्रत्यगारमग्निहोत्रभवः पुनःधूमस्तत्र पुनात्यंग पातकाप्लुतमानसान् ॥६॥उवाच सुमतिं राजा शत्रुघ्नः शत्रुतापनःतत्पुरप्रेक्षणोद्भूतहर्षविस्मितमानसः ॥७॥शत्रुघ्न उवाचमंत्रिन्कथय कस्येदं पुरं मे दृष्टिगोचरम्करोति मानसाह्लादं धर्मेण प्रतिपालितम् ॥८॥शेष उवाचइति वाक्यं समाकर्ण्य शत्रुघ्नस्य महीपतेःउवाच सुमतिः सर्वं यथातथमनुद्धतम् ॥९॥सुमतिरुवाचशृणुष्वावहितः स्वामिन्वैष्णवस्य कथाः शुभाःयाः श्रुत्वा मुच्यते पापाद्ब्रह्महत्यासमादपि ॥१०॥जीवन्मुक्तो वरीवर्ति रामांघ्र्यंबुजषट्पदःसत्यवान्यज्ञयज्ञांग ज्ञाता कर्ताऽविता महान् ॥११॥धेनुं प्रसाद्य बहुभिर्व्रतैर्यं प्राप तत्पिताऋतंभराख्यो जगति ख्यातः परमधार्मिकः ॥१२॥गौः प्रसन्ना ददौ पुत्रमनेकगुणसंस्कृतम्सत्यवंतं सुशोभाढ्यं तं जानीहि नृपोत्तमम् ॥१३॥शत्रुघ्न उवाचको वा ऋतंभरो राजा किमर्थं धेनुपूजनम्कथं प्राप्तः सुतस्तस्य वैष्णवो विष्णुसेवकः ॥१४॥सर्वमेतत्समाचक्ष्व वैष्णवस्य कथानकम्श्रुतं हरति जंतूनां महापातकपर्वतम् ॥१५॥शेष उवाचइति वाक्यं समाकर्ण्य शत्रुघ्नस्य महार्थकम्कथयामास विशदं तदुत्पत्तिकथानकम् ॥१६॥ऋतंभरो नरपतिरनपत्यः पुराऽभवत्कलत्राणि बहून्यस्य न पुत्रं प्राप तेषु वै ॥१७॥तदा जाबालिनामानं मुनिं दैवादुपागतम्प्रपच्छ कुशलोद्युक्तः सपुत्रोत्पत्तिकारणम् ॥१८॥ऋतंभर उवाचस्वामिन्वंध्यस्य मे ब्रूहि पुत्रोत्पत्तिकरं वचःयत्कृत्वा जायतेऽपत्यं मम वंशधरं वरम् ॥१९॥तज्ज्ञात्वा भवतो भव्यं प्रकुर्यां निश्चितं वचःदानं व्रतं वा तीर्थं वा मखं वा मुनिसत्तम ॥२०॥इति राज्ञोवचः श्रुत्वा जगाद मुनिसत्तमःसुतोत्पत्तिकरं वाक्यं प्रणतस्य सुतार्थिनः ॥२१॥अपत्यप्राप्तिकामस्य संत्युपायास्त्रयः प्रभोविष्णोः प्रसादो गोश्चापि शिवस्याप्यथवा पुनः ॥२२॥तस्मात्त्वं कुरु वै पूजां धेनोर्देवतनोर्नृपयस्याः पुच्छे मुखे शृंगे पृष्ठे देवाः प्रतिष्ठिताः ॥२३॥सा तुष्टा दास्यति क्षिप्रं वांछितं धर्मसंयुतम्एवं विदित्वा गोपूजां विधेहि त्वमृतंभर ॥२४॥यो वै नित्यं पूजयति गां गेहे यवसादिभिःतस्य देवाश्च पितरो नित्यं तृप्ता भवंति हि ॥२५॥यो वै गवाह्निकं दद्यान्नियमेन शुभव्रतःतेन सत्येन तस्य स्युः सर्वे पूर्णा मनोरथाः ॥२६॥तृषिता गौर्गृहे बद्धा गेहे कन्या रजस्वलादेवता च सनिर्माल्या हंति पुण्यं पुराकृतम् ॥२७॥यो वै गां प्रतिषिद्ध्येत चरंतीं स्वं तृणं नरःतस्य पूर्वे च पितरः कंपंते पतनोन्मुखाः ॥२८॥यो वै यष्ट्या ताडयति धेनुं मर्त्यो विमूढधीःधर्मराजस्य नगरं स याति करवर्जितः ॥२९॥यो वै दंशान्वारयति तस्य पूर्वे ह्यधोगताःनृत्यंति मत्सुतो ह्यस्मांस्तारयिष्यति भाग्यवान् ॥३०॥अत्रैवोदाहरंतीममितिहासं पुरातनम्जनकस्य पुरावृत्तं धर्मराजपुरेऽद्भुतम् ॥३१॥एकदा जनको राजा योगेनासून्समत्यजत्तदा विमानं संप्राप्तं किंकिणीजालभूषितम् ॥३२॥तदारुह्य गतो राजा सेवकैरूढदेहवान्मार्गे जगाम धर्मस्य संयमिन्याः पुरोंऽतिके ॥३३॥तदा नरककोटीषु पीड्यंते पापकारिणःजनकस्यांगपवनं प्राप्य सौख्यं प्रपेदिरे ॥३४॥निरये दाहजापीडा जातैषां सुखकारिणीमहादुःखं तदा नष्टं जनकस्यांगवायुना ॥३५॥तदा तं निर्गतं दृष्ट्वा जंतवः पापपीडिताःअत्यंतं चुक्रुशुर्भीतास्तद्वियोगमनिच्छवः ॥३६॥ऊचुस्ते करुणां वाचं मा गच्छ सुकृतिन्नितःत्वदंगवायुसंस्पर्शात्सुखिनः स्यामपीडिताः ॥३७॥इति वाक्यं समाकर्ण्य राजा परमधार्मिकःमानसे चिंतयामास करुणापूरपूरितः ॥३८॥चेन्मत्तः प्राणिनां सौख्यं भवेदिह तदा पुनःअत्रैव च पुरे स्थास्ये स्वर्ग एष मनोरमः ॥३९॥एवं कृत्वा नृपस्तस्थौ तत्रैव निरयाग्रतःविदधत्प्राणिनां सौख्यमनुकंपितमानसः ॥४०॥तत्र धर्मस्तु संप्राप्तो निरयद्वारि दुःखदेकारयन्यातनास्तीव्रा नानापातककारिणाम् ॥४१॥तदा ददर्श राजानं जनकं द्वारिसंस्थितम्विमानेन महापुण्यकारिणं दययायुतम् ॥४२॥तमुवाच प्रेतपतिर्जनकं सहसन्गिराराजन्कुतस्त्वं संप्राप्तः सर्वधर्मशिरोमणिः ॥४३॥एतत्स्थानं पातकिनां दुष्टानां प्राणघातिनाम्नायांति पुरुषा भूप त्वादृशाः पुण्यकारिणः ॥४४॥अत्रायांति नरास्ते वै ये परद्रोहतत्पराःपरापवादनिरताः परद्रव्यपरायणाः ॥४५॥यो वै कलत्रं धर्मिष्ठं निजसेवापरायणम्अपराधादृते जह्यात्सनरोऽत्र समाव्रजेत् ॥४६॥मित्रं वञ्चयते यस्तु धनलोभेन लोभितःआगत्यात्र नरः पीडां मत्तः प्राप्नोति दारुणाम् ॥४७॥यो रामं मनसा वाचा कर्मणा दंभतोऽपि वाद्वेषाद्वाचोपहासाद्वा न स्मरत्येव मूढधीः ॥४८॥तं बध्नामि पुनस्त्वेषु निक्षिप्य श्रपयामि चयैः स्मृतो न रमानाथो नरकक्लेशवारकः ॥४९॥तावत्पापं मनुष्याणामंगेषु नृप तिष्ठतियावद्रामं न रसना गृणाति कलि दुर्मतेः ॥५०॥महापापकरा राजन्ये भवंति महामतेतानानयंति मद्भृत्यास्त्वादृशान्द्रष्टुमक्षमाः ॥५१॥तस्माद्गच्छ महाराज भुंक्ष्व भोगाननेकशःविमानवरमारुह्य भुंक्ष्व पुण्यमुपार्जितम् ॥५२॥इति वाक्यं समाकर्ण्यध र्मराजस्य तत्पतेःउवाच धर्मराजानं करुणापूरपूरितः ॥५३॥जनक उवाचअहं गच्छामि नो नाथ जीवानामनुकम्पयामदंगवायुना ह्येते सुखं प्राप्ताः स्म संस्थिताः ॥५४॥एतान्मुंचसि चेद्राजन्सर्वान्वै निरयस्थितान्ततो गच्छामि सुखितः स्वर्गं पुण्यजनाश्रितम् ॥५५॥जाबालिरुवाचइति वाक्यमथाश्रुत्य जनकं प्रत्युवाच सःप्रत्येकं निर्दिशञ्जीवान्निरयस्थाननेकशः ॥५६॥धर्म उवाचअयं मित्र कलत्रं वै विश्वस्तमनुजग्मिवान्तस्मादेनं लोहशंकौ वर्षायुतमपीपचम् ॥५७॥पश्चादेनं सूकराणां योनौ निक्षिप्य दोषिणम्मानुषेष्ववतार्योऽयं षंढचिह्नेन चिह्नितः ॥५८॥अनेन परदाराश्च बलादालिगिता मुहुःतस्मादयं पच्यतेऽत्र रौरवे शतहायनम् ॥५९॥अयं तु परकीयं स्वं मुषित्वा बुभुजे कुधीःतस्मादस्य करौ छित्त्वा पचेयं पूयशोणिते ॥६०॥अयं सायंतने प्राप्तमतिथिं क्षुधयार्दितम्वाण्यापि नाकरोत्तस्य पूजनं स्वागतं न च ॥६१॥तस्मादयं पातनीयस्तामिस्रेंधनपूरितेभ्रमरैः पीडितो यातु यातनां शतहायनम् ॥६२॥अयं तावत्परस्योच्चैर्निंदां कुर्वन्नलज्जितःअयमप्यशृणोत्कर्णौ प्रेरयन्बहुशस्तु ताम् ॥६३॥तस्मादिमावंधकूपे पतितौ दुःखदुःखितौअयं मित्रध्रुगुद्विग्नः पच्यते रौरवे भृशम् ॥६४॥तस्मादेतान्पापभोगान्कारयित्वा विमोचयेत्वं गच्छ नरशार्दूल पुण्यराशिविधायकः ॥६५॥जाबालिरुवाचएवं स निर्दिशञ्जीवांस्तूष्णीमासाघकारिणःप्रोवाच रामभक्तोऽसौ करुणापूरितेक्षणः ॥६६॥जनक उवाचकथं निरयनिर्मुक्तिर्जीवानां दुःखिनां भवेत्तदाशु कथय त्वं वै यत्कृत्वा सुखमाप्नुयुः ॥६७॥धर्म उवाचनैभिराराधितो विष्णुर्नैभिस्तस्य कथाः श्रुताःकथं निरयनिर्मुक्तिर्भवेद्वै पापकारिणाम् ॥६८॥यदि त्वं मोचयस्येतान्महापापकरानपितर्ह्यर्पय महाराज पुण्यं तत्कथयामि यत् ॥६९॥एकदा प्रातरुत्थाय शुद्धभावेन चेतसाध्यातः श्रीरघुनाथोऽसौ महापापहराभिधः ॥७०॥रामरामेति यच्चोक्तं त्वया शुद्धेन चेतसातत्पुण्यमर्पयैतेभ्यो येन स्यान्निरयाच्च्युतिः ॥७१॥जाबालिरुवाचएतच्छ्रुत्वा वचस्तस्य धर्मराजस्य धीमतःपुण्यं ददौ महाराज आजन्मसमुपार्जितम् ॥७२॥यदा जन्मकृतैः पुण्यै रघुनाथार्चनोद्भवैःएतेषां निरयान्मुक्तिर्भवत्वत्र मनोरमा ॥७३॥एवं कथयतस्तस्य जीवा निरयसंस्थिताःतत्क्षणान्निरयान्मुक्ता जाता दिव्यवपुर्धराः ॥७४॥ऊचुस्ते जनकं राजंस्त्वत्प्रसादाद्वयं क्षणात्दुःखदान्निरयान्मुक्ता यास्यामः परमं पदम् ॥७५॥तान्दृष्ट्वा सूर्यसंकाशान्नरान्निरयनिःसृतान्तुतोष चित्ते सुभृशं सर्वभूतदयापरः ॥७६॥ते सर्वे प्रययुर्लोकं दिवं देवैरलंकृतम्जनकं तु प्रशंसंतो महाराजं दयानिधिम् ॥७७॥इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे सत्यवदाख्याने जनकेन नरकस्थप्राणिमोचनंनाम त्रिंशोऽध्यायः ॥३०॥ N/A References : N/A Last Updated : November 04, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP