संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः| अध्यायः ११७ पातालखण्डः वि्षयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ पातालखण्डः - अध्यायः ११७ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ११७ Translation - भाषांतर सूत उवाच-भारद्वाजगृहे भुक्त्वा रामचंद्रः प्रसन्नधीःमुनींद्र विष्णुसहितो वानरर्क्षसमन्वितः ॥१॥मेघच्छन्ने तथाकाशे मंदं चरति मारुतेतद्वनाभ्यंतरे क्वापि सुदेवगृहमुत्तमम् ॥२॥अष्टापदस्तंभयुतं हेमपट्टिककल्पितम्मणिमौक्तिकसंयुक्तं राजतैः कलशैर्युतम् ॥३॥पाटीरचंद्रकस्तूरीकुंकुमैः सुरभीकृतम्कर्द्दमैर्जालकयुतं शकलोपरि संवृति ॥४॥चंद्रजोत्स्नागमं सूर्य्या निरीक्ष्य मध्यभित्तिकम्गृहांतर्भूतलं कृत्स्नं चंद्रपुष्परसोक्षितम् ॥५॥दिगुदीची तथा कृत्स्नाभित्तिकल्पनवर्जितास्तंभेस्तंभे चित्रकारी स्वपादी परिकल्पितम् ॥६॥शतहस्तांगणं तस्य स्फटिकोपरिकल्पितम्गृहांगणाधिकच्छायः पारिजातमहीरुहः ॥७॥कृत्स्नप्रावृतिकं तत्र निबिडं कदलीवनम्कदलीवनसंयुक्तं केतकीवनसंवृतम् ॥८॥मयूरनादबहुलं मंजुकूजन्मधुव्रतम्पारावतगणध्वानं नानोपवनशोभितम् ॥९॥प्रासादशतसंबाधं मत्तकोकिलनादितम्शाखालंबिमहारत्नशोभितानेकपादपम् ॥१०॥किन्नरीवनितागीतनादपूरितदिङ्मुखम्अनेकारामसुभगं गौतमीतटमुत्तमम् ॥११॥भारद्वाजगृहं पुण्यमनंतगुणसेवितम्रतिकंदर्पसंकाश दासीदासशतान्वितम् ॥१२॥नानोपकरणोपेतं भारद्वाजगृहं शुभम्तस्य चांतर्गतः सौधस्तत्रांतर्गृहवाटिकाः ॥१३॥अष्टौ तन्मध्यतो ह्येकं गृहं परमशोभनम्चतुर्दिक्षु महादेव गृहप्रासादशोभितम् ॥१४॥प्रतिदेवगृहं श्यामा तौर्य्यत्रिकसुशोभितम्स्वर्गस्थितवरस्त्रीणां विश्रामायैव कल्पितम् ॥१५॥भारद्वाजगृहाद्रामो निर्गत्याशेषसंयुतःतस्यैव च महागेहं वनमध्यगतं त्वगात् ॥१६॥तदंतराच्छादितकंबलं तदा पृथक्स्थवस्त्रासनसंयुतं चसिंहासनं मध्यगतं तथैकं मुन्यासनानेकगतं विवेश ॥१७॥पौराणिकस्यानुपमासनांतरं भूपालहर्यृक्षवरासनं चपौराणिकं पूर्वमथोपवेश्य ततो वसिष्ठं मुनिपुंगवांश्च ॥१८॥नारायणं भूमिपतीन्कपींश्च नीचासनं च स्वयमाससादमेघावृतं व्योमदिशः प्रसन्नाः सुपुष्पमुर्वीतलमुप्तबीजम् ॥१९॥तदंगणं नोष्णमहो न शीतलं संतानपुष्पं दमपुष्पगंधिशंभुं विलोक्याथ वचो बभाषे रामः कथां कीर्तय शंकरस्य ॥२०॥तृप्तिर्न जाता मुनिवर्य्य शृण्वतो माहेशमाख्यानमघौघनाशनम्चकार किं वा ननु गौतमाश्रमे महेश्वरो देवगणाधिसंवृतः ॥२१॥शिव उवाच-महाविपंचीमवलंब्य निष्ठितः स वायुसूनुः शिवमन्वपृच्छत्न्यायार्जितैरेव हि पूजने विभोः कीदृग्भवेच्चानयजैः फलं वद ॥२२॥चौर्य्यैरथो किं फलमर्पितार्पणे उपाहृतद्रव्यसमर्पणेषुएकैकशो मे भगवन्वदेश प्रश्नोत्तरं किं कथयाशु शंभो ॥२३॥अथेश्वरो वानरमाबभाषे वदामि सर्वं तव ध्यानतः शृणुन्यायार्जितैः पूज्य सदाशिवं त्वजं संप्राप चैश्वर्यमिदं हि गौतमः ॥२४॥पुरा द्विजो मंकणसूनुराकथः सुशोभनामाप सतीं द्विजन्माद्ररिद्र एकः करुणासमन्वितः षष्ठाहभोजी पितृवर्जितश्च ॥२५॥उपोष्य पंचाहमथापि भोक्तुं प्रवृत्त एवाथ समापतद्यतिःयतिर्बभाषे मधुरं तदा कथं मासोपवासी तव भोक्तुमागतः ॥२६॥तिष्ठामि भुंजे यदि चास्ति ते मुने न मे बुभुक्षान्यगृहाद्विभोक्तुम्आकथ उवाच-न मे भुजिः पंचदिनं द्विजेंद्र षष्ठे दिने मे भुजिरागतश्च ॥२७॥तदा मया कार्यमचिंतनीयं प्रक्षालयाम्येहि तवाद्य पादौओमित्यथ क्षालितपादयुग्मः स भोजनं कर्तुमियेष योगी ॥२८॥रंभादलांसे बुभुजे तदन्नं विपाच्य संपादितमाज्ययुक्तम्वन्यैः सुसंयुक्तमथादरेण न किंचिदुच्छेषितमन्नमस्य ॥२९॥अथाकथो वीक्ष्य मुनिं सुतुष्टं तुतोष भार्य्यासहितस्तपस्वीगतोऽथ भुक्त्वापि यतिः स चाकथः संतुष्टचित्तोऽथ जपं चकार ॥३०॥कपोतवृत्तिं स चकार पत्न्या तपोवितानायस सज्जनो मुनिःपीठेऽथ कृत्वा तमुमापतिं शिवं लिंगे समाराध्य समन्वितं गणैः ॥३१॥लिंगं निधायाथ निरीक्षमाणो ददर्श चाज्ञातकृशाकृतिं द्विजम्दिगंबरं पादविहीनमेतं काणं कुणिं कर्णविहीनकं प्रभुम् ॥३२॥सामोद्गिरं तं बहुशास्त्रपारगं गृहं समायांतमथो ददर्श ॥३३॥अथाकथो भार्यां सुशोभनामिदमुवाच ॥३४॥अयं हि विकृतवेषो ब्राह्मणः समायाति ॥३५॥अर्द्धं देयमेतस्मै भोजनं रक्षार्द्धमन्नं चास्मिन्नपि दिने गते षष्ठेह्नि भोजनाभावात्तव जीवितं न तिष्ठतीति मम प्रतीयते किं तु त्वं मन्यसे वद ॥३६॥सा शोभनोवाच-आयुर्ललाटे लिखितं नांतरा नश्यति ॥३७॥आकथ आहयथा बद्धायुषोऽपि यज्ञस्य वीरभद्रेणच्छिन्नं शिर अजस्रात्मनः किमुत नु याणां पापात्मनामिति तदेनं परिहृत्य त्वया भुज्यते यदि त्वेतस्मै मयान्नं दीयतेतवेच्छानुसारतो मम कर्तव्यम् ॥३८॥भार्य्या प्राह कथमहं भोक्ष्ये त्वय्यभुक्ते मया किं पूर्वं भुक्तमिदमपरं शृणु ॥३९॥अन्नं हि प्राणिनां प्राणाः प्रत्यक्षं सर्वदेहिनाम्तस्मादन्नप्रदो यस्तु प्राणदः स निगद्यते ॥४०॥अन्नाद्भूतानि जायंते वर्द्धंते तानि वै यतःतस्मादन्नाधिकं किंचिन्नास्य दानं महाफलम् ॥४१॥अश्वत्थचलपत्राग्र लीनतोयद्रवास्तिकेजीवितेन हि यो दद्यात्तस्य जन्म निरर्थकम् ॥४२॥परलोकसहायो हि धर्मो भार्या न बांधवाःभार्य्या वा पितरौ पुत्रा यावदायुर्न बांधवाः ॥४३॥संपद्वयः सुहृदिह इहामुत्र हि तं स्थितम्धर्मं धर्मभृतां श्रेष्ठं भुंक्ते चान्ये किमावयोः ॥४४॥इति भार्य्यावचः श्रुत्वा आकथः करुणानिधिःअविशंकितमेवास्मै दत्तवानन्नमूर्ज्जितम्अयं स शंकरो देवो नानाकरणमागतः ॥४५॥इति निश्चित्य मनसा तस्यांगं पापनाशनम् ॥४६॥आजानुपादं प्रक्षाल्य परा जंघमतः परम्गुल्फं च तदधस्तस्य प्रक्षाल्याचामय द्द्विजम् ॥४७॥अथाकथोऽपि पत्संधिं गृहांगणमुपानयत्उन्मुच्य पादसंधिं स निषसादार्पितासने ॥४८॥समभ्यर्च्याकथः सम्यग्भोजयामास तं मुनिम्एतस्मिन्नंतरे कश्चिदुन्मत्तो गृहमागतः ॥४९॥पादसंधिमथादाय गृहबाह्यमुपानयत्अथादहच्च तद्गेहं दंपती चाप्यताडयत् ॥५०॥आकथस्ताडितो विप्रो दह्यमानं गृहं तदाविवेश देवमीशानमादातुं तूर्णमेव वा ॥५१॥अथादाय महेशानं दग्धपूजं द्विजोत्तमःनिर्गत्य च ततो दृष्ट्वा मुखसंतापमेव च ॥५२॥दग्धपूजां तिरस्कृत्य वीक्ष्य दग्धांगमप्युतभार्यामुवाच धर्मात्मा यथापूजा महेशितुः ॥५३॥तथा मम समस्तांगं कर्त्तव्यमविशंकितम्व्यंग उवाच-पश्चादपि कृता पूजा सफला ते भविष्यति ॥५४॥यथान्यद्रव्यदहने तादृशं दीयते जनैःपूजाया दहने तद्वत्पूजास्य क्रियतामिति ॥५५॥आकथ उवाच-चौर्येणाप्यर्जितैर्द्रव्यैः पूजया न हितं भवेत्न चान्यायार्ज्जितैर्विप्र शंभोः पूजा शुभप्रदा ॥५६॥इत्युक्त्वा चाकथस्तूर्णं स्वांगं दग्धुमुपाक्रमत्दग्धं लिंगं तदोन्मत्तो गृहीत्वांतर्दधे क्षणात् ॥५७॥अथ व्यंगो हरो भूत्वा वारयामास चाकथम्किमर्थं खिद्यते विप्र वरदोऽहं वरं वृणु ॥५८॥आकथोऽपि विभोः पादे भक्तिं वव्रे सुनिश्चलाम्सूत उवाच-एतां श्रुत्वा कथां रामः प्रहृष्टो मुनिभिर्वृतः ॥५९॥भारद्वाजं नमस्कृत्य प्रयाणाज्ञामयाचत ॥६०॥अथो भरद्वाजमुनिः प्रसन्नः शंभुं वसिष्ठं मुनिपुंगवं चनारायणं चर्षिगणांश्च नत्वा व्यसर्जयत्तेऽपि ययुः प्रणम्य ॥६१॥नैमिषीया ऊचुः -गत्वायोध्यां महातेजाः समस्तमुनिसंयुतःकिं चकार ततो रामः स च शंभुर्महायशाः ॥६२॥सूत उवाच-कौसल्या मासिकश्राद्धमपरेऽहनि राघवःचिकीर्षुर्द्विजप्रवरानृषिकल्पान्न्यमंत्रयत् ॥६३॥शंभुं समस्तत्त्वज्ञं नारदं रोमशं भृगुम्विश्वामित्रमथो राम एकभक्तव्रती ततः ॥६४॥भूमौ सुखास्तृतायां च सुष्वापा व्याकुलेंद्रियःपरेद्युरथ संप्राप्ते प्रातःस्नात्वा विधानवित् ॥६५॥अन्नं शाकादिकं शुद्धं जनैरेवान्वकारयत्नानान्नानि विचित्राणि चोष्याद्यानि तथैव च ॥६६॥वटकादींस्तथा भक्ष्यानष्टत्रिंशदकल्पयत्पायसं षड्विधं चैव पक्वशाकशतद्वयम् ॥६७॥अपक्वमिश्रकाणां च शतत्रयमकल्पयत्कालशाकादिकं शाकं फलानि विविधानि च ॥६८॥मूलानि चैककंदानि वल्कलानि च राघवःकारयित्वा नदीं गत्वा सहभ्रातृपुरोहितः ॥६९॥सरयूसलिले स्नात्वा हुत्वाग्निं स्वागतान्द्विजान्उक्त्वा तु स्वागतं तांस्तु कृतदेवार्चनो नृपः ॥७०॥प्राणानायम्य संकल्प्य क्षणं चैव प्रदत्तवान्रोमशं नारदं रामो वैश्वदेवे न्यमंत्रयत् ॥७१॥शंभुं भृगुं कौशिकं च मातृस्थाने न्यमंत्रयत्गोमयेन ततः कृत्वा मंडलं पूज्य चार्हतः ॥७२॥पादप्रक्षालनं चक्रे सीतादत्तोदकेन चआचामयित्वा तान्विप्रान्गृहं गंतुमथोद्यतः ॥७३॥अभ्यागतः समायातः स्थविरो विकृताकृतिःकृशः संप्रचलद्गात्रो वेपितांघ्रिशिरास्तथा ॥७४॥लंबमानत्वगुत्कर्षच्छ्वासकासादिपीडितःदूषिकाक्लिन्नगंडश्च लालासंपृक्तकूर्चकः ॥७५॥उवाच रामं राजानमहमेको द्विजः स्थितःममापि भोजनं देयं स्थविरस्य कृशस्य च ॥७६॥रामोऽपि तद्वचः श्रुत्वा लक्ष्मणं वाक्यमब्रवीत्पादौ प्रक्षालयास्य त्वमहमभ्यर्चये द्विजम् ॥७७॥अभ्यागतोऽपि वचनमाह राममथाकुलम्त्वया प्रक्षालिते पादे मम भोजनमिष्यते ॥७८॥मत्तोऽधिका द्विजाः किं ते येन मामवमन्यसेश्राद्धधर्मं न जानीषे महर्षिगणसेवितम् ॥७९॥ममावमानतः सर्वविप्राणामवमाननम्श्राद्धं विहन्यते चापि नरकं च गमिष्यसि ॥८०॥अथ रामः स्वयं विप्रपादौ प्राक्षालयत्तदाआचामयित्वा तं विप्रं गृहं प्रावेशयत्ततः ॥८१॥आचान्तश्च स्वयं रामो विष्टरं दत्तवानथआसीनेषु च विप्रेषु प्राणवायुं निरुध्य च ॥८२॥स्वकर्मकरणानुज्ञां लब्ध्वाऽथ सतिलं जलम्अपहतेति मन्त्रेण द्वारदेशे विचिक्षिपेत् ॥८३॥उदीरतामिति तथा पितृपात्रस्थले क्षिपेत्गायत्र्या चाक्षतजलं देवपात्रस्थले क्षिपेत्पाकजातं तथाऽभ्युक्ष्यम न्त्रमेतदुदीरयेत् ॥८४॥श्राद्धभूमिं गयां ध्यात्वा ध्यात्वा देवं जनार्दनम्वस्वादींश्च पितॄन्ध्यात्वा ततः श्राद्धं प्रवर्तयेत् ॥८५॥विश्वेदेवार्चनं कुर्याद्यवैर्वा तण्डुलैरथमूलाग्रयोजितौ दर्भौ गृहीत्वा साक्षतावथ ॥८६॥भूस्पृष्टदक्षजानुस्तु द्विजहस्ते जलार्पणम्पुरूरवार्द्रवाणां वै देवानामिदमासनम् ॥८७॥इति दत्त्वाऽसनं तेषां श्राद्धदः प्रार्थयेत्क्षणम् ॥८८॥अर्घं कृत्वा ततः पश्चादुत्तराग्रकुशेष्वथन्युब्जं पात्रं ततः कृत्वा कुशग्रन्थिमथोपरि ॥८९॥उत्तानं तु ततः कृत्वा जलैरभ्युक्ष्यरौक्मकैःपवित्रान्तर्हिते पात्रे शं नो देव्या जलं क्षिपेत् ॥९०॥वैश्वदेव्याऽखिलं कर्म यावत्तद्विधिचोदितम्यवोऽसि धान्यराजो वा इति पात्रे क्षिपेद्यवान् ॥९१॥मधुमिश्रांस्तु करकान्गन्धपुष्पैस्ततो ददेत्द्विज तेऽस्त्वर्घ इत्युक्त्वा त्वस्त्वर्घोत्तरतस्ततः ॥९२॥आवाहयिष्ये तान्देवानिति पृष्ट्वा तदुत्तरम्विश्वेदेवास इत्युक्त्वा विप्रमूर्ध्नि कुशान्क्षिपेत् ॥९३॥विश्वेदेवाः शृणुतेममागच्छन्त्विति संजपेत्समागतो निषण्णोऽथ सदर्भं पात्रमाहरेत् ॥९४॥दक्षिणे चरणे क्षिप्त्वा मुख्यपात्रोदकं ततःविप्रस्य दक्षिणे हस्ते प्रागग्रेऽथ पवित्रके ॥९५॥या दिव्या इति मंत्रेण निक्षिपेत्पात्रवारितत्इदं भो अर्घमित्युक्त्वा ह्यस्त्वर्घोत्तरतस्ततः ॥९६॥पात्रे धृत्वाऽर्घतोयं च तत्पात्रं स्थापयेत्क्वचित्अथ दत्त्वा करे तोयं यवैरेतानथार्चयेत् ॥९७॥अर्चत प्रार्चत इति पृष्ट्वा चोत्तरतस्ततःपादादिमूर्धपर्यन्तमभ्यर्च्य जलदस्ततः ॥९८॥गन्धद्वारेति मन्त्रेण तथेत्युक्त्वोत्तरस्ततःपितॄणामर्चनं कुर्यादेवमेवापसव्यकम् ॥९९॥उपवीतं द्विजं कृत्वा कुशान्भग्नांस्तिलान्वितान्वामजानुं भूमिगतं कृत्वा दद्यात्तदासनम् ॥.१००॥दक्षिणाभिमुखो भूत्वा क्षणप्रश्नमथो वदेत्दक्षिणाग्रेषु दर्भेषु न्युब्जं पात्रत्रयं न्यसेत् ॥१०१॥त्रिकुशग्रन्थिसंयुक्तमुत्तानमथ कल्पयेत्ततः संप्रोक्ष्य पात्रेषु सपवित्रतिलेषु च ॥१०२॥शं नो देव्या जलं क्षिप्त्वा तिलोऽसीति तिलान्क्षिपेत्गन्धपुष्पमथो दत्त्वा स्वधार्घ इति पृच्छति ॥१०३॥दत्तोत्तरोऽस्त्वर्घ इति पितॄनावाहयेत्ततःतिलपुष्पकुशैस्तिष्ठन्कल्पितार्घं करे दधत् ॥१०४॥उशन्तस्त्वेति मन्त्रेण त्रिरर्घोदकमर्पयेत्अर्चनं तु तदा तेषामपसव्यं तु पूवर्वत् ॥१०५॥प्रक्षाल्य भाजनं स्वर्णं देवानां परिकल्पयेत्पितॄणां राजतं कुर्याद्यथासंभवमेव वा ॥१०६॥तदभावे तु कांस्यं स्यादनन्याशितमुत्तमम्पात्राणि तदभावे स्युः पालाशानि न मध्यमम् ॥१०७॥रम्भाणि चूतपत्राणि जम्बूपुंनागकानि चपराकान्यथ चाम्पानि मधूककुटजान्यपि ॥१०८॥मातुलुङ्गस्य पत्राणि श्राद्धे देयानि वै नृभिःदर्व्यामन्नमथाऽदाय कराभ्यामाज्यमेव च ॥१०९॥प्रवेषणं ततः पृच्छेत्प्राचीनावीतवान्द्विजम्करिष्येऽग्नौकरणमिति कुरुष्वेति तदुत्तरम् ॥११०॥परिविष्योपवीती स्यादभिघार्य समाहरेत्हुनेत्सोमाय पितृमते स्वधा नम इतीरयन् ॥१११॥यमायाङ्गिरसे पितृमते स्वधा नम इतिद्वितीयामाहुतिं हुत्वा चाभिघार्याक्षतं ततः ॥११२॥अग्नये कव्यवाहनाय स्वधा नमस्ततः परम्हुत्वाऽपसव्यं कृत्वा तु परिविष्य द्विजान्व्रजेत् ॥११३॥मेक्षणेन ततोऽभीक्ष्णं पातयेत्पितृपात्रकेपिण्डपात्रमतः शेषं दर्वीप्रक्षालनं ततः ॥११४॥मेक्षणस्याग्निनिक्षेपं ततः पात्राण्युपस्तरेत्पात्रदक्षिणभागे तु दद्यादन्नमनन्तरम् ॥११५॥भक्ष्याणि भोज्यशाकानि सर्वाण्येव स दत्तवान्अथातिथिर्महावृद्धो वीक्षमाणस्ततस्ततः ॥११६॥उवाच राघवं शान्तं शीघ्रमेव नमस्कुरुबुभुक्षा वर्ततेऽस्माकं भोक्ष्येऽहं वा तवाऽज्ञया ॥११७॥रामो बभाषे वचनं विलम्बय क्षणं मुनेदेवताः पितरो मङ्क्षु नमस्यन्तेऽधुना मया ॥११८॥इत्युक्त्वा राघवः प्रादादन्नं पात्रगतं तदाप्राक्सौम्याग्रान्कुशान्दैवे प्रतीचीदक्षिणाग्रकान् ॥११९॥पित्र्ये पवित्रे ये दर्भा यवानथ तिलानपिअन्नप्रदानं कुर्वन्ति पृथिवी इति मन्त्रतः ॥१२०॥इदं विष्णुरिति स्पृष्टमङ्गुष्ठेन द्विजस्य तुदेवेभ्यः प्रथमं दद्याद्ये देवा इति वै पठन् ॥१२१॥पितॄणां च ततो दद्याद्दद्यादतिथये ततःदेवताभ्य इति मुखानुच्चार्याऽपोशनं ददेत् ॥१२२॥त्रिर्जपित्वा तु गायत्रीमुपवीती पुरोमुखःप्राचीनावीतवान्ब्रूयान्मधुत्रयमतः परम् ॥१२३॥भुञ्जध्वमिति तानुक्त्वा भुञ्जानेषु द्विजातिषुरक्षोघ्नमन्त्रपठनं भक्ष्यभोज्यादि दापयन् ॥१२४॥एतस्मिन्नन्तरे विप्रो योऽतिथिस्तदिदं तथाकृतवान्महदाश्चर्यं तद्वदामि समासतः ॥१२५॥पात्रस्थितमशेषं च ग्रासेनैकेन चाग्रसत्प्राणाहुतीनां पर्याप्तं दीयतामिति चाब्रवीत् ॥१२६॥एतावद्दातुमशक्तः कथं श्राद्धक्रियोद्यतःममैकस्य प्रदाने त्वमशक्तो राम किं वृथा ॥१२७॥बहूनां भोजनं दातुमुद्युक्तो राम किं वृथासहसा कृतकर्माणि न समाप्तिं प्रयान्ति च ॥१२८॥त्वया कृतमशेषाणां नालं प्राणाहुतिर्ममकथं मे दीयते भुक्तिः कथमेषां तथा वद ॥१२९॥रामस्तमब्रवीद्वीरो भुंक्ष्व त्वं हि यथासुखम्इत्युदीर्य निरीक्ष्यास्य कर्म तत्परमाद्भुतम् ॥१३०॥अथ शंभुं समाहूय प्राह त्वं परिवेषयत्वं पिता पार्वती माता शिवा देवीति मे मतिः ॥१३१॥अन्नपूर्णेश्वरी देवी भवान्येवेति मे मतिःसा शांभवी वचः प्राह तत्पर्याप्तं ददाम्यहम् ॥१३२॥अथोमा कांस्यमादाय भिस्सापूर्णमलंकृतम्स्वर्णदर्व्या समादाय पायसं गन्धकान्तिमत् ॥१३३॥अस्याक्षयमिदं भूयादिति प्रादात्तु पायसम्द्विजस्य दक्षिणे हस्ते साऽददात्सत्कृतं मुदा ॥१३४॥सशिरः कम्पमानस्तु ऊर्ध्वदृष्टिरथाभवत्प्रसारितकरश्चाऽसीद्गृहीत्वा पायसं करे ॥१३५॥दीयतां पायसं स्वादु सुष्ठु पक्वमिदं तु किम्शंभुपत्नी बभाषे तं करे भुंक्ष्व ततो ददे ॥१३६॥अभक्षयत्ततो विप्रः पुनः करतले स्थितम्तदक्षयमथ ज्ञात्वा प्रासारयदथेतरम् ॥१३७॥तस्मिन्करतले देवी पायसं दत्तवत्युतअन्येषामपि विप्राणां पक्वाक्षय्यमदात्सती ॥१३८॥अथ पाणिद्वयगतं विज्ञायाक्षय्यपायसम्दृष्ट्वा करान्तरमथो प्रासारयत स द्विजः ॥१३९॥उवाचान्नं प्रदातव्यं ससूपघृतमुत्तमम्शिवादेवी तथा प्रादादक्षय्यं शंभुवल्लभा ॥१४०॥यद्यत्प्रादात्तदा साध्वी सर्वमेव तदक्षयम्करान्तरमथोसृष्टं परिपूर्णं पुनःपुनः ॥१४१॥एवं करसहस्रं तु कृत्वा स विरराम हउवाच वचनं विप्रो देहि गण्डूषवारि मेतर्पितोऽस्मि त्वया भद्रे न रामेण न सीतया ॥१४२॥शंभुरुवाच-रामेण सीतया दत्तं मया दत्तं हि यत्र चइतः परं हि किं देयं पूर्णं वा त्वं वदस्व मे ॥१४३॥द्विज उवाच-तृप्तोऽस्मि न च मे देयमधिकं च करस्थितम्विद्वन्नतः करगतं न पपात कथंचन ॥१४४॥निषण्णो हि चिरं दध्यौ कथं मे केवलः करःभुक्त्यै कृतमिदं सर्वं नान्यस्मै कर्मणे मम ॥१४५॥तस्मादन्यकृतेरेतत्सर्वं रिक्तं भविष्यतिइति निश्चित्य मनसा लिप्ताङ्गोऽतिथिराभवत् ॥१४६॥पश्यत्सु सर्वदेवेषु तदद्भुतमिवाभवत्तृप्तानथ द्विजाञ्ज्ञात्वा राघवः परमार्थवित् ॥१४७॥दर्वीकरोऽथ तृप्ताः स्थ इति पृष्ट्वा यथाविधितृप्ताः स्म इति विप्रेन्द्रा विकीर्यान्नं समन्त्रकम् ॥१४८॥पात्रस्य याम्याभिमुखः संनिधौ पिण्डमर्पयेत्गण्डूषमपि विप्राणां तत्रैव परिकल्पयेत् ॥१४९॥उच्छिष्टपर्णपात्रेषु ते गण्डूषमकुर्वतगृहान्तरे च ते विप्रा विविशुस्त्वतिथिं विना ॥.१५०॥आहातिथिर्बहिः कार्यं मयाऽचमनं विट्पतेउत्थातुं नैव शक्नोमि करं मे देहि राघव ॥१५१॥अथ रामः करं प्रादान्नोत्थितस्तु द्विजोत्तमःहनूमानथ चाप्यस्य दत्तवान्बलवत्करम् ॥१५२॥इतरेण गृहीत्वा तु करेण द्विजपुंगवम्आचकर्ष कपीन्द्रस्तु द्विजः साक्रोशमुक्तवान् ॥१५३॥द्विज उवाच-छिद्यते मे करो व्यक्तमुत्थापय ततोऽन्यतःलांगूलेन सपीठं तमावृत्याऽमस्तकं बलात् ॥१५४॥अथाधावत्ततः पृथ्वीं द्विजस्तु न चचाल हअथ वानरवीरस्तु पद्भ्यां च कृन्ततां महीम् ॥१५५॥पादौ विन्यस्य सुदृढौ द्विजमूर्धानमाक्षिपत्विशीर्णमभवद्वेश्म द्विजाः सर्वे बहिस्तथा ॥१५६॥सह वृद्धद्विजः सोऽथ हनूमान्बहिरभ्यगात्पीठे च स्थापयामास ब्राह्मणं स्थविरं कृशम् ॥१५७॥द्विजाय जलमादाय जाम्बवान्मृण्मये घटेआह स्वच्छं जलं विप्र त्वयाऽदेयं सभाजनम् ॥१५८॥सीता प्रक्षालयेदङ्गं लक्ष्मणो जलदो भवेत्जाम्बवानाह तं रामं ब्राह्मणोक्तमशेषतः ॥१५९॥द्विजप्रक्षालने रामो व्यादिदेशानुजं प्रियाम्सौमित्रिर्जलमादाय द्विजाङ्गक्षालने तथा ॥१६०॥प्राक्षालयदशेषाङ्गं प्रतिमामिव भूभुजःअथ रामोपदेशेन चक्रतुस्तौ तथैव च ॥१६१॥अथातिथिः स्वगण्डूषं सीतावक्त्रे व्यमुञ्चतसालंकाराऽम्बुभिर्व्याप्ता प्राक्षालयदथो सती ॥१६२॥श्लेष्मलालासुप्रचुरं मुखं विप्रस्य सा सतीप्रममार्ज पुनः क्षाल्य नासा श्लेष्माणमत्यजत् ॥१६३॥आचामयित्वा सौमित्रिरुत्तिष्ठेत्यब्रवीद्द्विजम्द्विजो न शक्यमित्याह हनूमानप्यथाऽगतः ॥१६४॥अतिथिः प्राह तं विप्रः पीडितोऽहं हनूमतागृहीत्वोद्धरता पूर्वं पातितो वानरेण च ॥१६५॥जांबवानथ तं प्राह लोमांगं मम वै मृदुमयाथ ध्रियसे विप्र न च पीडा भविष्यति ॥१६६इत्युक्त्वा जांबवान्विप्रं दोर्भ्यामालंब्य चोद्धरत्द्विजप्रांतमथादाय स्थापयामास तं मुनिम् ॥१६७॥अथ रामो द्विजेंद्राणां प्रदक्षिणमवर्ततदत्ताशीरपि विपेंद्रैर्दत्वा तांबूलमग्रतः ॥१६८॥पादावलंबकृद्रामो भ्रातृभिः सह चाब्रवीत्अयि सीतेऽतिथेरस्य त्वया न क्षालितं वपुः ॥१६९॥जंघायुगेऽतिथेरस्य मलं चास्यं मलान्वितम्सम्यक्प्रक्षालय मुखं द्विजो न सहते मलम् ॥१७०॥सीतोवाच-अथ प्रक्षालितं सम्यगिदानीं निर्गतं पुनःराम उवाच-पुनः प्रक्षालय मलं दोषः स्यादन्यथा मम ॥१७१॥अथ सीता तथा कृत्वा तूष्णीमेव बभूव हआह रामं च सीतां च द्विजः परमकोपवान् ॥१७२॥पादौ यौ मम राजेंद्र तौ सीता लंबयेदितिभवान्करौ च भरतो मम वीजं प्रयच्छतु ॥१७३॥लक्ष्मणः केशनिचय प्रसाधनकरो भवेत्शत्रुघ्नः श्लेष्मनिर्मुक्तिं स्ववस्त्रेण करोतु मे ॥१७४॥सूत उवाच-अथ ते चक्रुरतिथेरशेषमुदितं तथातथापुर्विस्मयं विप्रा नरवानरराक्षसाः ॥१७५॥शिवा देवी च शंभुश्च सभ्रूभंगमुदैक्षताम्मनसा चाप्यभाषेतामतिथिःशंभुरेव च ॥१७६॥अतिथिश्च प्रसन्नोऽभू च्छंखचक्रगदाधरःपीतांबरः समस्तांगभूषितोऽतीव दीप्तिमान् ॥१७७॥यः पुराराधितः शंभुः प्रसन्नोऽभूत्त्रिलोचनःशुद्धस्फटिकसंकाशः सर्वाभरणभूषितः ॥१७८॥कोटिसूर्य्यप्रतीकाशः किरीटीकरुणानिधिःआलंब्य चक्रिणः पाणिमातिष्ठत सदाशिवः ॥१७९॥रामः परमधर्म्मात्मा पुलकांचितविग्रहःदंडवन्निपपातोर्व्यामानंदप्लाविते क्षणः ॥१८०॥अनमन्भ्रातरस्तस्य दंडवद्भूतले स्थिताःशिव उत्थाप्य काकुत्स्थमालिंग्याघ्राय मस्तकम् ॥१८१॥उवाच मधुरं वाक्यं रामं राजीवलोचनम्शिव उवाच-वरं वृणु प्रसन्नोऽस्मि ब्रह्मादेरपि दुर्लभम् ॥१८२॥तवादेयं न मे किंचिद्वृणु त्वं न चिराय वैश्रीराम उवाच-न याच्यं मे जगन्नाथ भूराज्यं मम सांप्रतम् ॥१८३॥स्वर्गश्च कर्म्मभिः प्राप्तो भक्तिस्त्वत्पाददर्शनात्आरोग्यं पश्य भुंजेऽहं सा सीता योषितां वरा ॥१८४॥वशीकृताः सर्वनृपाः प्रजाधर्मसमन्विताःहर्ष एव ममापन्नस्त्वदागमनतोऽच्युत ॥१८५॥तथापि वरये किंचिद्भक्तिरस्तु स्थिरा त्वयितथा मम गृहे देव त्रिवर्षं तिष्ठ हे प्रभो ॥१८६॥ब्रुवन्समस्तधर्मांश्च रूपेणानेन शंकरशिव उवाच-एवमस्तु तथा राम सर्वं ते संभविष्यति ॥१८७॥अथाह चक्री राजानं रामं राजीवलोचनम्वरं वृणु महाभाग प्रसन्नोऽहं यमिच्छसि ॥१८८॥श्रीराम आह वचनं मम प्रार्थ्यं न चास्ति हियत्प्राप्यं शंभुतः प्राप्तमन्यत्सर्वमुदीरितम् ॥१८९॥किं चैकं वरये विष्णो प्रसन्नः सर्वदा भवअथसी तां हरिः प्राह प्रसन्नोऽहं तवाधुना ॥१९०॥वरं वृणु प्रयच्छामि ततः सीताब्रवीदिदम्वरो वृतः पुरा भर्त्रा न चान्यो मे वरोवरः ॥१९१॥यदि कामं प्रयच्छेथा मनश्च परपूरुषात्संनिवृत्तं च भवतान्नमस्तेऽस्तु द्विज प्रभो ॥१९२॥अथ ते मुनयः सर्वे प्रणेमुर्देवतोत्तमौअथासौ राघवं प्राह भुंक्ष्व त्वं बंधुभिः सह ॥१९३॥एकांतमंदिरे रम्ये देव्यासहवसामितेविष्णुः समस्तकरणः समुद्र तनयान्वितः ॥१९४॥एकस्मिन्मंदिरे राम तिष्ठतां लोलुपो हि सःअथ शुद्धमहागारे पीठाढ्ये बहुभाजने ॥१९५॥अग्रे वसिष्ठो भगवानुपविष्टस्तयोर्मुनिःअपरे ऋषयः सर्वे यथावृद्धं नृपास्तथा ॥१९६॥तेषामभिमुखो रामो भ्रातृभिः सहितो नृपःतरुणे समभागे च आसने तानवेशयत् ॥१९७॥हनूमत्प्रमुखान्भृत्यानाहरामोऽनुसांत्वयन्भवंतः परितिष्ठंतु पश्चाद्भुंजे न चान्यथा ॥१९८॥ततस्ते प्रददुः सर्वे पादार्घाननुपूर्वशःबुभुजुश्चापि ते सर्वे ये रामस्योपसेविनः ॥१९९॥तेषां दत्वाथ तांबूलं कपींद्रादीनभोजयत्भुक्तवत्सु समस्तेषु रामो राजीवलोचनः ॥२००॥दीनांधकृपणादीनां पशुपक्षिमृगस्य चदत्वाहि भोजनं संध्यां वंदितुं हि समारभत् ॥२०१॥संध्याजपादिकं कृत्वा नत्वा तेषां नृपस्ततःसिंहासनगतो रामः पौरजानपदादिभिः ॥२०२॥सेव्यमानः सभास्थानगतो रेजे स राघवःसर्वदेवपरीवारो यथा देवः शचीपतिः ॥२०३॥राजकार्यमशेषं च कृतवान्भ्रातृभिः सहनाम्ना चैकैकशः सर्वान्विससर्ज स राघवः ॥२०४॥भ्रातॄन्विसर्जयामास वानरादींस्तथापरान्अथ रामं महातेजा वसिष्ठो वाक्यमुक्तवान् ॥२०५॥तव प्रातर्हि यत्कार्यं न च विस्मर राघवआस्ते शंभुर्जगन्नाथो भगवानंबिकापतिः ॥२०६॥स्मर्तव्यो वन्दनीयश्च भगवानथ यत्नतःतथेत्युक्त्वा गुरुं राजा नत्वा तं च व्यसर्जयत् ॥२०७॥स्वयं च भार्यामभजद्देवदेवं विचिंतयन्ऋषय ऊचुः -प्रातः समुत्थाय गुरो रामो मतिमतां वरःकिं चकार तदाख्याहि श्रोतुं कौतूहलं हि नः ॥२०८॥सूत उवाच-शंभुं विलोक्याथ ततो बभाषे रामः कथां कीर्त्तय शंकरस्यतृप्तिर्न जाता मुनिवर्य शृण्वतो महेशमाहात्म्यमघौघनाशनम् ॥२०९॥शंभुरुवाच-अथप्रश्नशेषस्योत्तरमीशभाषितं ते कीर्तयिष्यामिअन्यायोपार्जितद्रव्यैरीश्वरं य उपासते ते व्यंगा जायंते ॥२१०॥तद्यथाकश्चिद्रूपको नाम राक्षसोऽन्यायार्जितेनद्रव्येण शंकरमाराध्य तेनैव द्रव्येण घंटामीश्वरप्रीतये कृतवान् ॥२११॥तस्य पुत्रः संपातिरिति ख्यातः चौर्य्यार्जितैः शंकरं पूजयामास ॥२१२॥तावुभावेकस्मिन्दिवसे मम्रतुः गतौ शिवलोकं वीरभद्रेण भाषितौ च ॥२१३॥भो रूपक अन्यायार्जितेन द्रव्येण भवता पूजाकृता घंटादिकं च तेन भावेन व्यंगो भूत्वा चौरगणो भविष्यसि ॥२१४॥शिवपदवचनाद्व्यक्तं नामाश्रवणात्श्रोत्रं तस्य स्वनेन ध्वस्तं भवति नो दर्शनमेतावतादेव त्वयेश्वरपूजा सम्यक्कृता ॥२१५॥अतो भक्तिश्च भविष्यति वीरभद्रस्त्वनशनं नामगणं क्वचिद्विचरंतमित्यादिदेश ॥२१६॥तौ च तथाभूतौ शिवलोकेऽतिष्ठताम् ॥२१७॥शंभुरुवाच-अथोपहतद्रव्यपूजाकथां हनूमते महेशभाषितां कथयिष्यामि ॥२१८॥शृणु राघव प्रमथानां चरित्रमेकैकस्य कर्मविपाकं कथयिष्यामि ॥२१९॥उपहतांगगणव्याख्याक्रियतामिति हनूमत्पृष्टः ॥शिव उवाच ॥२२०॥तदुपहतद्रव्यं ज्ञानतो य ईश्वरेऽपयिष्यति एतदुक्तं ज्ञानिनोऽत शृणुः ॥२२१॥एष सर्वांगस्वेदिलः सर्वकालं सर्वांगस्वेदिलः स्वेदार्द्र वसनः स्वेदसंपादिताल्पप्रवाहशरीरो नासाग्रनिपतितस्वेदबिंदुः स्पर्शायोग्यो दृश्यते ॥२२२॥स पुरा स्वेदकरणेश्वरार्चनं कृतवान्अत्रेतिहासं कीर्तयिष्यामि ॥२२३॥चेकितानिरिति ख्यातो ब्राह्मणः कर्षकोभवत्स नित्यं कृषिमुत्पाद्य प्रातः स्नात्वा च नित्यशः ॥२२४॥मध्याह्नकाले संप्राप्ते संजपन्ब्राह्मणस्त्वसौअन्नमानय मे क्षिप्रमिति भार्यामभाषत ॥२२५॥तयानीतेन चान्नेन वेगेन शिवपूजनम्कृतवानर्कसंतप्तः स्वेदिलः सर्वदैव तु ॥२२६॥गंधपुष्पाक्षताद्यैश्च स्वेदबिंदुसमन्वितैःअथ सायंदिने प्राप्ते क्षालितांगः सुशोभनः ॥२२७॥पूजयामास देवेशं कालसंभवसाधनैःममाराथ महाबुद्धिः शिवलोकं गतश्च सः ॥२२८॥वीरभद्रेण चाप्युक्तो भव त्वं स्वेदिलो गणःस्वेदस्पृष्टपदार्थैश्च पुरा शंभुः प्रपूजितः ॥२२९॥नित्यं स्वेदसमायुक्तस्तेन स्वेदगणो भवशंभुरुवाच-वीरेणाथ समादिष्टः प्राप्तो रामगणस्त्वयम् ॥२३०॥अमुं घंटामुखं पश्यायं पुरा वैश्यो विभावसोनाम धार्मिको महादानकर्त्ता नित्यं ब्राह्मणभोजनं कारयित्वा कृतानुष्ठानः प्रातःकाले शिवं नमस्कृत्य कुसुमैः संपूज्य किंचित्प्रदेशं गोमयेनोपलिप्य पद्मादिकमर्जयित्वा देवाय समर्प्य उपहत घंटानादं कृतवान् ॥२३१॥राम उवाच-कथमुपहतघंटा ॥२३२॥शंभुरुवाच-आसीत्पुरा बलः कश्चित्सोम इत्यभिविश्रुतःतस्य पुत्रश्च मंदाख्यो दशवर्षवया अभूत् ॥२३३॥स चाग्निपक्वकुल्माषान्घंटायां प्राक्षिपन्नृपतानभक्षयदप्येष तेन चोपहताभवत् ॥२३४॥गृहीतुमथ तं वैश्यं यतमानोऽब्रवीदिदम्अथ वैश्यः स्वयं तत्र निश्चित्य द्रव्यशोधनम् ॥२३५॥लौकिके कृतवाँल्लोके व्यवहारपदश्च ताम्एतेन पापयोगेन गणो घंटामुखोऽभवत् ॥२३६॥राम उवाच-द्रव्यशुद्धेर्विशुद्धा सा कथं पापस्य कारणम्सम्यगुक्तं द्रव्यशुद्ध्यै कथं न द्रव्यशोधिनी ॥२३७॥शंभुरुवाच-न लौकिकव्यवहृतौ तवाभक्तो भविष्यतिस याति च शिवस्थानं वक्ता चापि तथा भवेत् ॥२३८॥सूत उवाच-यश्च वक्ति कथामेतां स तेन सदृशो भुविगुह्याद्गुह्यतमं विप्राः शिवज्ञानप्रदं भवेत् ॥२३९॥एतद्वः कथितं विप्राः पुण्यायुष्यतमं महत्य इदं शृणुयाद्भक्त्या शिवलोके महीयते ॥२४०॥पुराणवक्त्रे दातव्यं वस्त्रं गोहेमभूषणम्भूमिः सस्यफलोपेता देया शक्त्यनुसारतः ॥२४१॥शिवराघवसंवादं सर्वाघौघनिकृंतनम्यः पठेच्छृणुयाद्वापि स याति परमं पदम् ॥२४२॥इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे उपरिभागे राममोक्षोनाम सप्तदशाधिकशततमोऽध्यायः ॥११७॥समाप्तं पञ्चमं पातालखण्डम् ॥५॥इति श्रीपद्मपुराणे पञ्चमं पातालखण्डं समाप्तम् N/A References : N/A Last Updated : November 13, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP