संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः| अध्यायः ९७ पातालखण्डः वि्षयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ पातालखण्डः - अध्यायः ९७ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ९७ Translation - भाषांतर ब्राह्मण उवाच-एतन्मूर्खोऽपि जानाति शुभकर्मकरः पुमान्न याति नरकं स्वर्गं तथा पापक्रिया रतः ॥१॥क्रतुभिर्विविधैरिष्टैर्व्रत दान जपादिभिःसत्येनाचारकुशलैः स्वर्गसौख्यमवाप्यते ॥२॥विद्याचारधनोपेतैर्ऋषिभिर्वेदपारगैःप्राप्यते पुण्ययोगेन यज्ञैर्नाकस्ततः क्वचित् ॥३॥वित्तेन च विना दानं बहुदातुं न शक्यतेविद्यमान धनेनापि कुटुंबासक्तचेतसा ॥४॥अग्निहोत्रादयो धर्मा विशेषेण कलौ युगेदुष्करा दानधर्मोऽपि दुष्करो भगवन्मतः ॥५॥अल्पायासेन धर्मेण लभ्यते धर्मसंचयःतन्मे विशेषतो ब्रूहि धर्माधर्मप्रदर्शक ॥६॥तदेकं कथ्यतां धर्मं सर्वधर्मोत्तमोत्तमम्कृतेनैकेन येनेह सर्वपापक्षयो भवेत् ॥७॥धनं धान्यं यशो धर्ममायुर्येनाभि वर्त्ततेमर्त्यलोकेऽपि सख्यं स्यात्स्वर्गो येनाक्षयो भवेत् ॥८॥साक्षान्नारायणो येन भक्तानामभयप्रदःतुष्येदस्यप्रसादेन कामः करतले स्थितः ॥९॥सर्वयज्ञ तपोदानतीर्थसेवाधिकं फलम्लभ्यते येन यद्यस्ति वैवस्वत तदादिश ॥१०॥अनुग्राह्यो ह्यहं देव यदि धर्मोपदेशतःसर्वधर्मक्रियासारं तदेकं कृपया वद ॥११॥पापानामनुरूपाणि प्रायश्चित्तानि यद्यथातथा तथैव संस्मृत्य कथितानि मनीषिभिः ॥१२॥कर्तुं तानि न शक्यंते देव प्रत्येकशो नरैःसर्वपापहरं पुण्यमेकं चेदस्ति तद्वद ॥१३॥सूत उवाच-इत्युक्त्वा ब्राह्मणश्रेष्ठो यमं धर्मस्वरूपिणम्तुष्टाव प्रयतो भूत्वा सूक्ष्मधर्माभिकामुकः ॥१४॥ब्राह्मण उवाच-नमस्ते सर्वशमन नमस्ते जगतांपतेनमोऽस्तु देवरूपाय स्वर्गमार्गप्रदायिने ॥१५॥धर्मशास्त्रस्वरूपाय धर्मराज नमोस्तुतेत्वया भूः पाल्यते देवाप्यंतरिक्षं च द्यौर्महः ॥१६॥जनस्तपस्तथासत्यं सर्वस्वं पाल्यते त्वयान त्वया रहितं किंचिज्जगत्स्थावर जंगमम् ॥१७॥विद्यते त्वद्गृहीतं तु सद्यो नश्यति वै जगत्त्वमात्मा सर्वभूतानां सतां सत्वस्वरूपवान् ॥१८॥राजसानां रजस्त्वं च तामसानां तमस्तथाचतुष्पदां भवान्देव चतुःशृंगस्त्रिलोचनः ॥१९॥सप्तहस्तस्त्रिधा बद्धो वृषरूप नमोस्तु तेसर्वयज्ञमयो धर्मस्त्वयि विग्रहविग्रहः ॥२०॥साक्षाद्दृष्टोसि लोकेश देव तुभ्यं नमोनमःहृदिस्थः सर्वभूतानां पुण्यपापेक्षिता भवान् ॥२१॥तेन शास्ता च भूतानां दाता देव प्रशासिताप्रवर्त्तको हि धर्मस्य देवदंडधरो भुवि ॥२२॥सर्वधर्ममयं सारमेकं वद सुनिश्चितम्यम उवाच-परितुष्टोऽस्मि ते विप्र स्तोत्रेण च विशेषतः ॥२३॥तथाप्यागम धर्मेण मान्योसि मम सत्तमयन्न कस्यचिदाख्यातं तद्गोप्यं परमं मम ॥२४॥सारमुद्धृत्य सर्वेषां यदेकं निश्चितं मयामहानिरयसंघातान्निर्वासनकरं परम् ॥२५॥अनाख्येयमपि ब्रह्मन्वक्ष्ये विनयतोषितः ॥२६॥स्युर्मोहाय चराचरस्य जगतस्ते ते पुराणागमास्तां तामेव हि देवतां परमिकां जल्पंतु कल्पे विधौसिद्धांते पुनरेक एव भगवान्विष्णुः समस्तागम-व्यापारेषु विवेकिनां व्यतिकरं नीतेषु निश्चीयते ॥२७॥भवो ब्रह्मा च विष्णुश्च त्रयमेव त्रयी मतादीपोऽग्निर्वर्तिस्नेहैस्तु यथा विप्र तथा हरिः ॥२८॥समाराध्य हरिं भक्त्या गोलोकान्प्राप्नुयाच्छुभान्आराधिते हरौ कामाः सर्वे करतले स्थिताः ॥२९॥दानमेव परं श्रेष्ठं सर्वपुण्येषु वै द्विजदानेन नश्यते पापं सर्वं दानेन लभ्यते ॥३०॥नित्यं नैमित्तिकं काम्यमन्यदभ्युदयात्मकम्अन्यं च परमं दानमिति पंचविधं स्मृतम् ॥३१॥प्रातर्मध्यापराह्णेषु त्रिषु कालेषु यत्नतःयत्किंचिदपि दातव्यं नित्यमेव प्रकीर्तितम् ॥३२॥शून्यं दिनं न कर्तव्यमात्मार्थं हितमिच्छताम्यस्मिन्कुले तु दत्तं यत्तत्रतत्रोपतिष्ठति ॥३३॥यः स्वयं भक्षयेन्मोहाददत्वा बुद्धिवर्जितःउत्पादयाम्यहं रोगं तस्य भोगनिवारणम् ॥३४॥तेषु कार्येषु संतुष्टं बहुपीडाप्रदायकम्मंदानलेन संयुक्तं द्वारं संतापकारकम् ॥३५॥त्रिषु कालेषु नो दत्तं ब्राह्मणेषु सुरेषु यैःस्वयं तु भुंजते मिष्टं पापं तैस्तु महत्कृतम् ॥३६॥प्रायश्चित्तेन रौद्रेण तानहं परिशोधयेउपवासैर्महीदेव कायशोषकरादिकैः ॥३७॥चर्मकारो यथा चर्मकुंडस्योपरि निर्घृणेशोधयेच्च कशाद्यैश्च कुद्रव्यं स्फोटयेद्यथा ॥३८॥तथाहं पापकर्तारं शोधयामि न संशयःऔषधीनां सुयोगैश्च कषायैः कटुकैर्ध्रुवम् ॥३९॥उष्णोदकैश्च संतापैर्वैद्यरूपेण नान्यथाअन्ये भुंजंति तस्याग्रे भोगानन्यान्मनोगतान् ॥४०॥किं करोमि समर्थश्च न दत्तं दानमुत्तमम्महता रोगरूपेण तमेनं परिवारयेत् ॥४१॥नित्यकालस्य यद्दानमात्मानं पापिभिर्यथान दत्तं च महीदेव श्रद्धया निजशक्तितः ॥४२॥तथायातान्प्रधक्ष्येतानुपायैर्दारुणैः किलनैमित्तिकं प्रवक्ष्यामि दानकालं तवाग्रतः ॥४३॥महापर्वणि संप्राप्ते तीर्थप्राप्तौ तथैव चपितुः क्षयाहदिवसे वैशाखादिषु यत्नतः ॥४४॥मासेषु पुण्यकालेषु दानं नैमित्तिकं स्मृतम्काम्यकालं प्रवक्ष्यामि यद्दानं फलदायकम् ॥४५॥व्रतादिकं समुद्दिश्य कामनाफलकल्पितम्यत्कामं कथितं सम्यक्सर्वांगैरेव संगतम् ॥४६॥तस्य दानप्रभावेण भावनापरिभावितःतादृक्फलं समश्नाति मानुषस्तत्प्रसादनात् ॥४७॥आभ्युदयं प्रवक्ष्यामि यच्च यज्ञादिषु स्मृतम्जातकर्मादिकार्येषु मौञ्ज्याद्युद्वाहकर्मसु ॥४८॥प्रासादध्वजदेवानां प्रतिष्ठासु प्रयत्नतःइत्यादिकं महीदेव दानमभ्युदयात्मकम् ॥४९॥प्रजावृद्धिकरं भोगयशःस्वर्गसुखप्रदम्अंत्यं चैव प्रवक्ष्यामि शृणु दानं द्विजोत्तम ॥५०॥कामस्य संक्षयं ज्ञात्वा जरया परिपीडितःदद्याद्दानानि यत्नेन कुर्यादाशां न कस्यचित् ॥५१॥मृते च मयि मे पुत्रा जायाबांधवसोदराःकथमेते भविष्यंति मां विना सुहृदो मम ॥५२॥अहं वित्तविहीनो वा कथं जीवन्पुनस्तथाभविष्यामीति विज्ञाय न ददाति हि किंचन ॥५३॥आशापाशशतैर्बद्धो भाग्यादेव कुमाययामृत्युं प्रयाति मूढात्मा रुदंति च ततः सुताः ॥५४॥दुःखेन पीडिताः किचिंन्मोहेनाकुलचेतसःस्वल्पमल्पं च वा दानं कथंचित्कल्पयंति ते ॥५५॥न तत्रास्मिन्गते काले महादुःखगते सतिविस्मरंति तदा दानं लोभाद्वा न ददत्यपि ॥५६॥मृतोऽयं च पिता ज्ञात्वा स्नेहपाशो निवर्त्ततेयोऽसौ मृतो महीदेव मम पाशैर्नियंत्रितः ॥५७॥तृष्णा क्षुधा समाक्रांतो बहुदुःखैः प्रपीडितःपच्यते नरके घोरे चिरकालं न संशयः ॥५८॥तस्माद्दानं प्रदातव्यं स्वयमेव न संशयःकस्य पुत्राश्च पौत्राश्च कस्य भार्या धनं च वा ॥५९॥संसारे नास्तिकः कस्य स्वयं तस्मात्प्रदीयतेपानमन्नं च तांबूलमुदकं कांचनं तथा ॥६०॥वसनं गां च भूमिं च च्छत्रपात्राण्यनेकधाफलानि भूमिदानानि विविधानि स्वशक्तितः ॥६१॥दातव्यानि महीदेव नात्र कार्या विचारणातीर्थानां लक्षणं विप्र प्रवक्ष्यामि तवाग्रतः ॥६२॥सुतीर्थानि इयं गंगा भाति पुण्या सरस्वतीरेवा च यमुना तापी नदी चर्मण्वती तथा ॥६३॥सरयू च वरा वेणी पूर्णा पापप्रणाशिनीकावेरी कपिला चान्या विशल्या विश्वतारिणी ॥६४॥गोदावरी समाख्याता तुंगभद्रा च गंडकीपापानां भीतिदा नित्यं नदी भीमरथी स्मृता ॥६५॥देविका कृष्णगंगा च अन्या याः सरितांवराःएतास्तु पुण्यकालेषु संति तीर्थान्यनेकशः ॥६६॥ग्रामे वा यदि वारण्ये नद्यः सर्वत्र पावनाःतत्र तत्रैव कर्त्तव्याः स्नानदानादिकाः क्रियाः ॥६७॥यदा न ज्ञायते नाम तस्य तीर्थस्य भो द्विजतत्रेत्युच्चारणं कार्यं विष्णुतीर्थमिदं महत् ॥६८तीर्थस्य देवता विष्णुःस र्वत्रापि न संशयःनारायणेति यन्नाम स्मरेत्तीर्थेषु साधकः ॥६९॥तस्य तीर्थफलं सम्यग्विष्णुनाम्नैव जायतेअज्ञातानां च तीर्थानां देवतानां न संशयः ॥७०॥विष्णुनाम्नैव नामानि मानवः परिकीर्तयेत्सर्वास्तु सिद्धयः पुण्यास्तीर्थभूतास्तु सागरः ॥७१॥सरांसि मानसादीनि निर्झराः पल्वलादयःस्वल्पा नद्योऽपि सर्वास्तास्तीर्थानि हरिनामतः ॥७२॥पर्वतास्तीर्थरूपाश्च यज्ञो यज्ञमही तथाब्राह्मणा यत्र विद्वांसः कौतुकेनाप्यवस्थिताः ॥७३॥तदेव तीर्थं सुमहत्सर्वपापहरं स्मृतम्श्राद्धं च श्राद्धभूमिश्च देवशाला च होमभूः ॥७४॥यत्र वेदध्वनिः सम्यग्यत्र विष्णुकथाः शुभाःस्वगृहं पुण्यसंयुक्तं गोस्थानमपि पावनम् ॥७५॥यत्राश्वत्थ तरु वने यत्रागारोपि पावनःएवमादीनि तीर्थानि पिता माता तथैव च ॥७६॥पच्यते यत्र धर्मार्थं स्वयं तत्र गुरुः स्थितःसाध्वी यत्रास्ति वै भार्या तत्र तीर्थं न संशयः ॥७७॥यत्र धर्मरतिर्नित्यं विद्वान्पुत्रः प्रवर्ततेतत्र तस्य हि तत्तीर्थं तारणाय प्रतिष्ठितम् ॥७८॥इत्येवमादि तीर्थानि राजवेश्म तथैव चएवमादिषु तीर्थेषु पर्वयोगाद्विशेषतः ॥७९॥अनाराध्य हृषीकेशं सर्वदं सर्वदेहिनाम्कोपि क्वापि किमप्यत्र न लभेतेति निश्चितम् ॥८०॥अपत्यं द्रविणं दारास्तारहर्म्यं हया गजाःसुखानि स्वर्गमोक्षौ च न दूरे हरिभक्तितः ॥८१॥नारायणः परो देवः सत्यरूपो जनार्दनःत्रिधात्मानंसभगवान्ससर्जपरमेश्वरः ॥८२॥रजस्तमोभ्यांयुक्तोऽभूद्रजःसत्वाधिकंविभुःससर्जनाभिकमलेब्रह्माणंकमलासनम् ॥८३॥रजसा तमसा जुष्टं स रुद्रमसृजद्विभुःसत्वं रजस्तमश्चैव त्रितयं चैतदुच्यते ॥८४॥सत्वेन मुच्यते जंतुः सत्वं नारायणात्मकम्रजसा सत्वयुक्तेन भवेच्छ्रीमान्यशोधिकः ॥८५॥यद्वेदवाक्यं धर्मस्य समुद्दिश्योपसेवतेतद्रुद्रमिति विख्यातं विशिष्टं गदितं नृणाम् ॥८६॥तेन राजा भवेल्लोके रजसा तमसा पुनःयद्धीनं रजसा धर्मं केवलं तामसं च यत् ॥८७॥तच्च दुर्गतिदं नॄणामिहलोके परत्र चयो विष्णुः स स्वयं ब्रह्मा यो ब्रह्मा स स्वयं हरः ॥८८॥देवास्त्रयोपि यज्ञेऽस्मिन्निज्या देवेषु नित्यशःयो भेदं कुरुते तेषां त्रयाणां द्विजसत्तमः ॥८९॥स पापकारी पापात्मा अनिष्टां गतिमाप्नुयात्विष्णुरेव परं ब्रह्म विष्णुरेव जगद्द्विज ॥९०॥तस्यायं माधवो मासः प्रियः सर्वेषु कर्मसुकीर्त्यते हयमेधादि महाक्रतुफलप्रदः ॥९१॥तीर्थस्नान तपो दान जप यज्ञफलाधिकः ॥९२॥स्नानं विभाते नियमेन नद्यामनारतं मेषगते रवौ येकुर्वंति येऽस्मिन्नपि विप्रपूजां मद्दंडभाजो न हि ते भवंति ॥९३॥हत्वा हत्वा किंकरौघं पुरो मे लुप्त्वा लुप्त्वा चित्रगुप्तस्य लेख्यम्स्नात्वा स्नात्वा माधवे मासि तीर्थे पूर्वान्पूर्वानुद्धरंतीह पापात् ॥९४इदं भयच्छेदकरं न तस्मात्प्रकाशनीयं परमं रहस्यम्निर्वासहेतुर्नरकालयस्य ममाधिकारक्षयकारणं तत् ॥९५॥भागीरथीनर्मदा च यमुना च सरस्वतीविशोका च वितस्ता च विंध्यस्योत्तरतः स्थिताः ॥९६॥गोदावरी भीमरथी तुंगभद्रा च देविकातापी पयोष्णी विंध्यस्य दक्षिणास्तु प्रकीर्तिताः ॥९७॥द्वादशैता महानद्यो नित्यं तेनावगाहिताःवैशाखे विधिना स्नानं नद्यां यः प्रातराचरेत् ॥९८॥सर्वाः समुद्रगाः पुण्याः सर्वे पुण्या नगोत्तमाःसर्वे चायतनाः पुण्याः सर्वे पुण्या वनाश्रयाः ॥९९॥तेनावगाहिता दृष्टाः प्रणता बहुसेविताःस्नानमर्द्धोदिते सूर्ये वैशाखे नियतश्चरेत् ॥१००॥तस्य पुण्यं महीदेव कश्चिद्वक्तुं न शक्यतेयदि वक्त्रसहस्राणां सहस्राणि भवंति हि ॥१०१॥आयुश्च ब्रह्मणा स्वल्पं यदि स्याद्द्विजसत्तमतदा माधवमासस्य फलं कथयितुं भवेत् ॥१०२॥महानिरयकर्षाग्नि माधवो माधवो यथाब्रह्महत्यादिकं पापमगम्यागमनादिकम् ॥१०३॥कामाकामकृतं पापमेति पातकमेव चउपपापरहस्यं च संकरीकरणं परम् ॥१०४॥जातिभ्रंशकरं घोरमपात्रीकरणं तथामलावहं प्रकीर्णं च वाङ्मनः काय संभवम् ॥१०५॥माधवो निर्दहेन्मासो विधिना समुपासितःकल्पकोटिसहस्राणि कल्पकोटि शतानि च ॥१०६॥वसेद्विष्णुपुरे श्रीमान्माधवे योऽर्चयेद्धरिम् ॥१०७॥इति श्रीपद्मपुराणे पातालखंडे वैशाखमाहात्म्येसप्तनवतितमोऽध्यायः ॥९७॥ N/A References : N/A Last Updated : November 06, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP