संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः| अध्यायः ८८ पातालखण्डः वि्षयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ पातालखण्डः - अध्यायः ८८ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ८८ Translation - भाषांतर सुमनोवाच-ऋणसंबंधिनं पुत्रं प्रवक्ष्यामि तवाग्रतःऋणं यस्य गृहीत्वा यः प्रयाति मरणं किल ॥१॥अर्थदाता सुतो भूत्वा भ्रातावाथ पिता प्रियामित्ररूपेण वर्तेत अंतर्दुष्टः सदैव सः ॥२॥गुणं नैव प्रपश्येत स क्रूरो निष्ठुराकृतिःजल्पते निष्ठुरं वाक्यं सदैव स्वजनेषु च ॥३॥मिष्टं मिष्टं समश्नाति भोगान्भुंजति नित्यशःद्यूतकर्मरतो नित्यं चौरकर्मणि सस्पृहः ॥४॥गृहाद्द्रव्यं चोरयति वार्यमाणः स कुप्यतिपितरं मातरं चैव कुत्सते च दिनेदिने ॥५॥एवं संक्षीयते द्रव्यमेवमेतद्वदत्यपिगृहं क्षेत्रादिकं सर्वं ममैव हि न संशयः ॥६॥पितरं मातरं चैव हिनस्त्येव दिने दिनेसुदंडैर्मुशलैश्चैव केशोत्पाटैश्च दारुणैः ॥७॥मृते तु तस्मिन्पितरि मातरि चातिनिष्ठुरःनिःस्नेहो निष्ठुरश्चैव जायते नात्र संशयः ॥८॥श्राद्धकार्याणि दानानि न करोति सदैव सःएवंविधाः प्रियाः पुत्रा भवंति च महीपते ॥९॥रिपुं पुत्रं प्रवक्ष्यामि तवाग्रे द्विजसत्तमबाल्येवयसि संप्राप्ते पुत्रत्वे वर्तते सदा ॥१०॥पितरं मातरं चैव क्रीडमानो हि ताडयेत्ताडयित्वा प्रयात्येवं प्रहस्यैवं पुनः पुनः ॥११॥पुनरायाति तं तत्र पितरं मातरं पुनःसक्रोधो वर्तते नित्यं कुत्सते च दिनेदिने ॥१२॥एवं संवर्तते नित्यं वैरकर्मणि संपदापितरं ताडयित्वा च मातरं च ततः पुनः ॥१३॥प्रयात्येवं स दुष्टात्मा पूर्ववैरानुभावतःअथातः संप्रवक्ष्यामि यथालभ्यं भवेत्प्रियम् ॥१४॥जातमात्रं प्रियं कुर्याद्बाल्ये क्रीडनताडनैःवयः प्राप्य प्रियं कुर्यान्मातृपित्रोरनंतरम् ॥१५॥भक्त्या संतोषयेन्नित्यं तावुभौ परितोषयेत्स्नेहेन वचसा चैव प्रियसंभाषणेन च ॥१६॥मृतौ गुरू समाज्ञाय स्नेहेन रुदते पुनःश्राद्धकर्माणि सर्वाणि पिंडदानादिकां क्रियाम् ॥१७॥करोत्येवसुदुःखार्तस्तेभ्यो यात्रां प्रयच्छतिऋणत्रयान्वितः स्नेहान्मोचयेद्यस्तु निश्चितः ॥१८॥यस्माल्लभ्यं भवेत्कांत प्रयच्छति न संशयःपुत्रो भूत्वा महाप्राज्ञ अनेनविधिना किल ॥१९॥उदासीनं प्रवक्ष्यामि तवाग्रे प्रिय सांप्रतम्उदासीनेन भावेन सदैव परिवर्तते ॥२०॥ददाति नैव गृह्णाति न च कुप्यति तुष्यतिनो वा प्रयाति संत्यज्य उदासीनो द्विजोत्तम ॥२१॥भृत्याश्चापि समाख्याताः पशवस्तुरगास्तथागजा महिष्यो दास्यश्च ऋणसंबंधिनस्त्वमी ॥२२॥गृहीतमाययैकेन आवाभ्यां तु न कस्य हिन्यासमेवं न कस्यापि कृतं वै पूर्वजन्मनि ॥२३॥राधयामि न कस्यापि क्षणं कांत शृणुष्व हिन वैरमस्ति केनापि पूर्वजन्मनि वै कृतम् ॥२४॥आबाल्येन तु विप्रेंद्र न च त्यक्तो मया पतिःएवं ज्ञात्वा शमं गच्छ त्यज चिंतामनर्थिकीम् ॥२५॥हृतं नैव च कस्यापि नैव दत्तं त्वया पुनःकथं ते धनमायाति विस्मयं व्रज मा विभो ॥२६॥प्राप्तमेव हि यत्रैव रक्षितुश्च न तिष्ठतिएवं ज्ञात्वा शमं गच्छ त्यज चिंतामनर्थिकीम् ॥२७॥कस्य पुत्राः प्रिया भार्या कस्य स्वजनबांधवाःकः कस्य नास्ति संसारे न संबंधो द्विजोत्तम ॥२८॥मायामोहेन संमूढा मानवाः पापचेतनाःइदं गृहमयं पुत्र इयं भार्या ममैव हि ॥२९॥अनृतं दृश्यते कांत संसारस्य हि बंधनम् ॥३०॥इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्येअष्टाशीतितमोऽध्यायः ॥८८॥ N/A References : N/A Last Updated : November 06, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP