संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ४७

पातालखण्डः - अध्यायः ४७

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शेष उवाच
हयो गतो हेमकूटं भारतांते ततो द्विज
अनेकभटसाहस्रै रक्षितो बद्धचामरः ॥१॥
यो वै विस्तरतो दैर्घ्याद्योजनानां समं ततः
अयुतेन सुशृङ्गैश्च राजतैः कांचनादिभिः ॥२॥
तत्रोद्यानं महच्छ्रेष्ठं पादपैः परिशोभितम्
शालैस्तालैस्तमालैश्च कर्णिकारैः समन्ततः ॥३॥
हिंतालैर्नागपुन्नागैः कोविदारैः सबिल्वकैः
चम्पकैर्बकुलैर्मेघैर्मदनैः कुटजादिभिः ॥४॥
जातिकाभिर्यूथिकाभिर्नवमालिकया तथा
आम्रैर्माधवद्राक्षाभिर्दाडिमैः शोभितं वनम् ॥५॥
अनेकपक्षिसंघुष्टं भ्रमरैर्निनदीकृतम्
मयूरकेकारवितं सर्वर्तुसुखदं हयः ॥६॥
प्रविवेश स शत्रुघ्नो मनोवेगसमन्वितः
स्वर्णपत्रं विशाले स्वे भाले बिभ्रन्मनोहरम् ॥७॥
गच्छतस्तस्य वाहस्य हयमेधक्रतोस्तदा
अकस्मादभवच्चित्रं तच्छृणुष्व द्विजोत्तम ॥८॥
गात्रस्तंभोऽभवत्तस्य न चचाल पथिस्थितः
हेमकूटइवाचाल्यो बभूव हयसत्तमः ॥९॥
तदा तद्रक्षकाः सर्वे कशाघातान्वितेनिरे
तदाहतेऽपि न ययौ स्तब्धगात्रो हयोत्तमः ॥१०॥
शत्रुघ्नं सविधे गत्वा चुक्रुशुर्वाहरक्षकाः
स्वामिन्वयं न जानीमः किमभूद्धयसत्तमे ॥११॥
गच्छतो वाहवर्यस्य मनोवेगस्य भूपते
आकस्मिकोऽभवत्तस्य गात्रस्तंभो महामते ॥१२॥
कशाभिस्ताडितोऽस्माभिः परं तत्र चचाल न
एवं विचार्य यत्कर्म तत्कुरुष्व नृपोत्तम ॥१३॥
तदा विस्मयमापन्नो भूपतिः सह सैनिकैः
जगाम सहितः सर्वैर्हयस्य महतोऽन्तिके ॥१४॥
पुष्कलो बाहुना धृत्वा चरणौ तस्य भूतलात्
उत्पाटयामास तदा परं नो चेलतुस्ततः ॥१५॥
बलेन बलिनाक्रांतो नाकम्पत हयस्तदा
हनूमांस्तं समुद्धर्तुं मतिं चक्रे महामनाः ॥१६॥
लांगूलेन समावेष्ट्य बलेन बलिनां वरः
आचकर्ष बलाद्वाहं न चचाल तथापि सः ॥१७॥
तदोवाच कपिश्रेष्ठो हनूमान्विस्मयान्वितः
शत्रुघ्नं बलिनां श्रेष्ठं वीराणां परिशृण्वताम् ॥१८॥
मया द्रोणो लांगुलेन लीलयोत्पाटितोऽधुना
परमत्र महाश्चर्यं कम्पते न हयोऽल्पकः ॥१९॥
दृष्टमत्र निदानं हि वीरैर्बलिभिरुद्धतैः
आकृष्टोऽपि न च स्थानाच्चचाल तिलमात्रतः ॥२०॥
कपिभाषितमाकर्ण्य शत्रुघ्नो विस्मयान्वितः
सुमतिं मंत्रिणां श्रेष्ठमुवाच वदतां वरः ॥२१॥
शत्रुघ्न उवाच
मंत्रिन्किमभवद्वाहे स्तंभनं वपुषोऽनघ
कोऽत्रोपायो विधेयः स्याद्येन वाहगतिर्भवेत् ॥२२॥
सुमतिरुवाच
स्वामिन्कश्चिन्मुनिर्मृग्योऽखिलज्ञानविचक्षणः
देशोद्भवमहं जाने प्रत्यक्षं न परोक्षजम् ॥२३॥
शेष उवाच
इति वाक्यं समाकर्ण्य सुमतेर्धर्मकोविदः
अन्वेषयामास मुनिं सेवकैः सह शोभनम् ॥२४॥
ते सर्वे सर्वतो गत्वा मुनिं धर्मविदं भटाः
व्यालोकयंतः सर्वत्र न चापश्यन्मुनीश्वरम् ॥२५॥
एकस्त्वनुचरो विप्र गतो योजनमात्रतः
पूर्वस्यां दिशि चोद्युक्तः पश्यति स्म महाश्रमम् ॥२६॥
यत्र निर्वैरिणः सर्वे पशवो जनतास्तथा
गंगास्नानहताशेषकिल्बिषाः सुमनोहराः ॥२७॥
यत्र केचित्तपः श्रेष्ठं कुर्वंति स्म हुताशनैः
धूमैरधोमुखाः पत्रैर्वायुभिः स्वोदरंभराः ॥२८॥
यत्राग्निहोत्रजो धूमः पवित्रयति सर्वदा
अनेकमुनिसंहृष्टो मुक्तपत्रलतोत्तमः ॥२९॥
तमाश्रमं मुनेर्ज्ञात्वा शौनकस्य मनोहरम्
न्यवेदयन्नृपायासौ विस्मयाविष्टचेतसे ॥३०॥
तच्छ्रुत्वा हर्षितोऽत्यंतं शत्रुघ्नः सह सेवकैः
हनूमत्पुष्कलाद्यैश्च सयुतोऽगात्तदाश्रमम् ॥३१॥
तत्र वीक्ष्य मुनिश्रेष्ठं सम्यग्घुतहुताशनम्
प्रणम्य दंडवत्तस्य चरणौ पापहारिणौ ॥३२
तमागतं नृपं ज्ञात्वा शत्रुघ्नं बलिनां वरम्
अर्घ्यपाद्यादिकं चक्रे प्रीतस्तद्दर्शनादभूत् ॥३३॥
सुखोपविष्टं विश्रान्तं नृपं प्राह मुनीश्वरः
किमर्थमटनं देव महत्पर्यटनं तव ॥३४॥
त्वादृशाः पृथिवीं सर्वां नृपा वै न भ्रमंति चेत्
तदा दुष्टजनाः साधून्बाधंते विगतज्वरान् ॥३५॥
कथयस्व महीपाल शत्रुघ्न बलिनां वर
सर्वं शुभायनो भूयात्तव पर्यटनादिकम् ॥३६॥
शेष उवाच
इत्युक्तवंतं भूदेवं प्रत्युवाच महीश्वरः
गद्गद स्वरया वाण्या हर्षित स्वीयविग्रहः ॥३७॥
शत्रुघ्न उवाच
अकस्मादभवच्चित्रं रामाश्वस्य मनोहृतः
नातिदूरे त्वदावासात्तच्छृणुष्व विदांवर ॥३८॥
उद्याने तव शोभाढ्ये यदृच्छातो हयो गतः
तत्प्रांते तस्य वाहस्य गात्रस्तंभोऽभवत्क्षणात् ॥३९॥
तदा मे बलिनो वीराः पुष्कलाद्या मदोत्कटाः
बलादाचकृषुर्वाहं न चचाल तथाप्यसौ ॥४०॥
अस्मानपारदुःखाब्धौ मग्नान्प्रतितरिः स्मृतः
दैवाद्दृष्टः सुभाग्यैस्त्वं कथयस्व निदानकम् ॥४१॥
शेष उवाच
एवं पृष्टो मुनिवरः क्षणं दध्यौ महामतिः
ततः कारणसंयुक्तं विचारेण दधद्धयम् ॥४२॥
क्षणात्तज्ज्ञानतां प्राप्य विस्मयोत्फुल्ललोचनः
जगाद स महीपालं दुःखितं संशयान्वितम् ॥४३॥
शौनक उवाच
शृणु राजन्प्रवक्ष्यामि हयस्तंभस्य कारणम्
यच्छ्रुत्वा मुच्यते दुःखादतिचित्रकथानकम् ॥४४॥
गौडदेशे महारण्ये कावेरीतीरभूषिते
वाडवः सात्वको नाम्ना चचार परमं तपः ॥४५॥
एकाहं पयसः प्राशी दिनैकं वायुभक्षकः
दिनैकं तु निराहार एवं त्रिदिनमुन्नयेत् ॥४६॥
एवं व्रते प्रवृत्तस्य कालः सर्वक्षयंकरः
जग्राह स्वस्य दंष्ट्रायां मृतिं प्राप महाव्रती ॥४७॥
विमाने सर्वशोभाढ्ये सर्वरत्नविभूषिते
अप्सरोभिः सह क्रीडन्ययौ मेरोः शिखास्थितौ ॥४८॥
जंबूनाममहावृक्षस्तत्र सेव्यरसोऽभवत्
नदी जांबवती संज्ञा स्वर्णद्रवसमन्विता ॥४९॥
तस्यां मुनयइच्छाभिः क्रीडंते कुतुकान्विताः
अनेकतपसा पुण्याः सर्वसौख्यसमन्विताः ॥५०॥
तत्रासौ स्वेच्छया क्रीडन्नप्सरोभिर्मुदान्वितः
प्रतीपमाचरत्तेषां स्वाभिमानमदोद्धतः ॥५१॥
ततः शप्तः स मुनिभी राक्षसो भव दुर्मुखः
ततोऽतिदुःखितः प्राह मुनीन्विद्यातपोधनान् ॥५२॥
अनुगृह्णंतु मां सर्वे विप्रा यूयं कृपालवः
तदा तैरनुगृहीतो यदा रामहयं भवान् ॥५३॥
स्तंभयिष्यति वेगेन ततो रामकथाश्रुतिः
पश्चान्मुक्तिर्भवित्री ते शापादस्मात्सुदारुणात् ॥५४॥
स प्रोक्तो मुनिभिर्देवो राक्षसत्वमितः प्रभो
स्तंभयामास रामाश्वं मोचयानघकीर्तनैः ॥५५॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे
शापकीर्तनंनाम सप्तचत्वारिंशत्तमोऽध्यायः ॥४७॥

N/A

References : N/A
Last Updated : November 05, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP