संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः| अध्यायः ४२ पातालखण्डः वि्षयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ पातालखण्डः - अध्यायः ४२ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ४२ Translation - भाषांतर शेष उवाचआह्वयंतं महासैन्यवारिधौ पुष्कलं नृपम्समालक्ष्य कपींद्रोऽपि हनूमांस्तमधावत ॥१॥लांगूलमुद्यम्य विशालदेहंसरावमातत्य पयोदघोषम्रणस्थितान्वीरवरान्कपींद्रोजगाम तं वीरमणिं नृपेन्द्रम् ॥२॥आयांतं तं हनूमंतं वीक्ष्य पुष्कल उद्भटःविलोकयामासदृशा वैरिक्रोध सुशोणया ॥३॥जगाद तं हनूमंतं पुष्कलः परमास्त्रवित्मेघगंभीरया वाचा नादयन्रणमंडलम् ॥४॥पुष्कल उवाचकथं त्वं समरे योद्धुमागतोसि महाकपेकियद्बलं स्वल्पमेतद्राज्ञो वीरमणेर्महत् ॥५॥यत्र त्रिजगती सर्वा संमुखे समुपागतातत्र त्वं लीलया योद्धुं यातुमिच्छसि वा न वा ॥६॥कोयं राजा वीरमणिः कियद्बलमथाल्पकम्अत्रागमनमत्युग्रं तव वीर न भाव्यते ॥७॥रघुनाथकृपापांगादहं निस्तीर्य दुस्तरम्क्षणान्निर्यामि कीशेंद्र मा चित्तं कुरु संगरे ॥८॥त्वया राक्षसपाथोधिस्तीर्णो रामकृपाव्रजात्तथा रामं सुसंस्मृत्य निस्तरिष्यामि दुस्तरम् ॥९॥ये केचिद्दुस्तरं प्राप्य रघुनाथं स्मरंति चतेषां दुःखोदधिः शुष्को भविष्यति न संशयः ॥१०॥तस्माद्व्रज महावीर शत्रुघ्नसविधे बलिन्एष आयामि निर्जित्य भूपं वीरमणिं क्षणात् ॥११॥शेष उवाचइति धीरां समाकर्ण्य वाणीं पुष्कलभाषिताम्जगाद वचनं भूयः पुष्कलं परवीरहा ॥१२॥हनुमानुवाचपुत्र मा साहसं कार्षीर्भूपं वीरमणिं प्रतिएष दाता शरण्यश्च बलशौर्यसमन्वितः ॥१३॥त्वं बालः स्थविरो भूपोऽखिलशस्त्रास्त्रवित्तमःअनेके विजिताः संख्ये वीराः शौर्यसुशोभिनः ॥१४॥जानीहि पार्श्वे तस्य त्वं रक्षितारं सदाशिवम्भक्त्या वशीकृतं स्थाणुं सोमं चैतत्पुरिस्थितम् ॥१५॥तस्मादहमनेनैव योत्स्ये भूपेन पुष्कलअन्यान्वीरान्विजित्वा त्वं कीर्तिमाप्नुहि पुष्कलाम् ॥१६॥पुष्कल उवाचशिवो भक्त्या वशीकृत्य स्वपुरे स्थापितोऽमुनापरमस्याशु हृदयेन तिष्ठति महेश्वरः ॥१७॥सदाशिवोयमाराध्य परमं स्थानमागतःस रामो मन्मनस्त्यक्त्वा न क्वापि परिगच्छति ॥१८॥यत्र रामस्तत्र विश्वं सर्वं स्थास्नु चरिष्णु चतस्मादहं जयिष्यामि रणे वीरमणिं नृपम् ॥१९॥व्रज त्वं समरे योद्धुमन्यान्मानिवरान्नृपान्वीरसिंहमुखान्कीश मच्चिंतां मा कुरु प्रभो ॥२०॥वाचमित्थं समाकर्ण्य हनूमान्धीरसेविताम्जगाम समरे योद्धुं वीरसिंहं नृपानुजम् ॥२१॥लक्ष्मीनिधिः सुतेनास्य शुभांगदसुसंज्ञिनाद्वैरथेन प्रयुयुधे महाशस्त्रास्त्रवेदिना ॥२२॥बलमित्रेण सुमदः स्वप्रतापबलोर्जितःयोद्धुं सशस्त्रः संग्रामं विचचार नृपात्मजः ॥२३॥आह्वयंतं नृपं दृष्ट्वा द्वैरथे युद्धकोविदःपुष्कलो रुक्मखचिते रथे तिष्ठन्ययौ हि तम् ॥२४॥राजा तमागतं दृष्ट्वा पुष्कलं युद्धकोविदम्उवाच निर्भिया वाण्या रणमध्ये सुभाषितः ॥२५॥वीरमणिरुवाचबालमायाहि मां क्रुद्धं संग्रामे चंडकोपनम्गच्छ प्राणपरीप्सायै मा युद्धं कुरु मे सह ॥२६॥त्वादृशान्बालकान्भूपा मादृशाः कृपयंति हिप्रहरंति न चैतान्वै तस्माद्गच्छ रणाद्बहिः ॥२७॥यावत्त्वं न मया दृष्टश्चक्षुर्भ्यां तावदुन्मनाःसांप्रतं त्वां प्रहर्तुं न मनः समभिकांक्षति ॥२८॥यत्त्वया मत्सुतो बाणैर्भिन्नो मूर्च्छीकृतः पुनःसर्वं मया क्षांतमद्य तवबालधियो महत् ॥२९॥इति वाक्यं समाकर्ण्य पुष्कलो निजगाद तम्पुष्कल उवाचबालोऽहं त्वं महावृद्धः सर्वशस्त्रास्त्रकोविदः ॥३०॥क्षत्रियाणां मतं चैव ये बलाधिक्यसंयुताःत एव वृद्धा भूपाग्र्य न वयोवृद्धतां गताः ॥३१॥मया ते मूर्च्छितः पुत्रः सशौर्यबलदर्पितःइदानीं त्वामहं शस्त्रैः पातयिष्यामि संगरे ॥३२॥तस्मात्त्वं यत्नतस्तिष्ठ राजन्संग्राममूर्धनिरामभक्तं न मां कश्चिज्जयतींद्रपदे स्थितः ॥३३॥इत्थं भाषितमाश्रुत्य पुष्कलस्य नृपाग्रणीःजहास बालं संवीक्ष्य कोपं च व्यदधात्पुनः ॥३४॥तं वै कुपितमालक्ष्य भरतात्मज उन्मदःजघान शरविंशत्या राजानं हृदि तीक्ष्णया ॥३५॥राजा तानागतान्दृष्ट्वा बाणांस्तेन विमोचितान्चिच्छेद परमक्रुद्धः शरैस्तीक्ष्णैरनेकधा ॥३६॥तद्बाणच्छेदनं दृष्ट्वा भारतिः परवीरहाचुकोप हृदयेऽत्यंतं राजानं च त्रिभिः शरैः ॥३७॥विव्याध भाले भूपाल पुत्रः पुष्कलसंज्ञकःतत्र लग्ना विरेजुस्ते त्रिकूटशिखराणि किम् ॥३८॥तैर्बाणैर्व्यथितो राजा जघान नवभिः शरैःहृदये पुष्कलं वीरं महाकोपसमन्वितःतैर्वत्सदन्तैर्बह्वस्रं पीतं रामानुजाङ्गजम् ॥३९॥सर्पा आशीविषा यद्वत्क्रुद्धास्तद्वपुषि स्थिताःपरमं कोपमापन्नः पुष्कलो भूमिपं पुनः ॥४०॥बाणानां शतकेनाशु बिभेद शितपर्वणाम्तैर्बाणैः कवचं भिन्नं किरीटः सशिरस्त्रकः ॥४१॥रथो धनुर्महत्सज्यं छिन्नं कोपपरिप्लवात्क्षतजेन परिप्लुष्टो बाणभिन्नकलेवरः ॥४२॥अन्यं स्यंदनमारुह्य जगाम भरतात्मजम्धन्योसि वीर रामस्य चरणाब्जमधुव्रत ॥४३॥महत्कृतं कर्म तेऽद्य यदहं विरथीकृतःप्राणान्रक्षस्व भो वीर सांप्रतं मयि युद्ध्यति ॥४४॥सुलभा न तव प्राणाः कालरूपे मयि स्थितेइत्युक्त्वा व्यहनद्बाणैरसंख्यैः शस्त्रकोविदः ॥४५॥भूमौ दिशि च तद्बाणा नान्यद्दृश्येत तत्र हअनेके गजसाहस्रा भिन्ना अश्वाः समंततः ॥४६॥रथारथियुतास्तेन छिन्ना भिन्ना द्विधाकृताःशोणितौघा सरित्तत्र प्रसुस्राव रणांगणे ॥४७॥यत्रोन्मदा हि मातंगा दृश्यंते शैलशृंगवत्केशाः शैवाललक्ष्यास्ते मुहुः प्राणिशिरः स्थिताः ॥४८॥अनेके पाणयश्छिन्ना वीराणां मुद्रिकाश्रियःदृश्यंते अहिवत्तत्र चंदनादिकरूषिताः ॥४९॥शिरांसि च भटाग्र्याणां कच्छपाभां वहंति वैमांसानि पंका यत्रासन्वीराणां महतां ततः ॥५०॥एवं व्यतिकरे वृत्ते योगिन्यः शतशो रणेपपुः पात्रेण रुधिरं प्राणिनां रणपातिनाम् ॥५१॥मांसानि बुभुजुस्ता वै हर्षकौतुकसंयुताःपीत्वा तु शोणितं तत्र भक्षित्वा मांसमुन्मदाः ॥५२॥ननृतुर्जहसुः प्रोच्चैरुज्जगुः प्रधनांगणेपिशाचास्तत्र समरे प्राणिनां मस्तकानि वै ॥५३॥धृत्वा कराभ्यां मत्तांगास्तालवद्वादनोद्यताःशिवास्तत्र महामांसं पतितानां रणांगणे ॥५४॥भक्षित्वा व्यनदन्मत्ताः कातराणां भयप्रदाःकातरास्त्राः समापन्ना गताः कुंजरकोटरे ॥५५॥भक्षिता योगिनीभिस्ते पापिनां क्वापि न स्थितिःएतत्कदनमालक्ष्य स्वसैन्यस्य रथाग्रणीः ॥५६॥पुष्कलोऽपि चकारात्र कदनं रणमंडलेभिद्यंते गजशीर्षाणि पतंति मौक्तिकानि तु ॥५७॥दृश्यते लोमभिः पूर्णा ताम्रपर्णीव तन्नदीपुष्कलप्रहिता बाणा नृणामंगेषु संगताःकुर्वंति प्राणविच्छेदं वीराणामपि सर्वतः ॥५८॥सर्वे रुधिरसिक्तांगाः सर्वे च्छिन्ननिजांगकाःदृश्यंते किंशुका यद्वत्सुभटाः प्रधनांगणे ॥५९॥एतस्मिन्समये क्रुद्धः समाभाष्य महीपतिम्जघान बहुबाणैस्तं रोषपूरपरिप्लुतः ॥६०॥तद्बाणवेधभिन्नांगो विशीर्णकवचो नृपःमहाबलं तं मन्वानः प्राहरच्छरकोटिभिः ॥६१॥तैर्बाणैः कवचान्मुक्तं सुस्राव बहुशोणितम्वपुर्बभूव रुचिरं शरपंजरगोचरम् ॥६२॥शरपंजरमध्यस्थो विह्वलीकृतमानसःशरान्नेतुं च संधातुं न क्षमः स च भारतिः ॥६३॥रामं स्मृत्वा धनुर्धृत्वा करे सज्जं महद्दृढम्मुमोच बाणान्निशितान्वैरिवृंदनिवारणान् ॥६४॥तैर्बाणैः शरजालं तद्विधूय मुनिपुंगवशंखं प्रध्माय समरे जगाद गतभीर्नृपम् ॥६५॥पुष्कल उवाचत्वया कृतं महत्कर्म यन्मां बाणस्य पंजरेगोचरं कृतवान्वीर वीरतापनमुद्भटम् ॥६६॥वृद्धत्वान्मम मान्योसि सांप्रतं रणमंडलेपश्यमेऽद्य पराक्रांतं राजन्वीरमणे महत् ॥६७॥बाणत्रयेण भो वीर मूर्च्छितं करवै नहितर्हि प्रतिज्ञां शृणु वै सर्ववीरविमोहिनीम् ॥६८॥गंगां प्राप्यापि यो वै तां निंदित्वा पापहारिणीम्न मज्जति महापापो महामूढविचेष्टितः ॥६९॥तस्य पापं ममैवास्तु चेन्न त्वां रणमंडलेपातये मूर्च्छया वीर सन्नद्धो भव भूपते ॥७०॥इति वाक्यं समाकर्ण्य पुष्कलस्य नृपोत्तमःचुकोप भृशमुद्विग्नः संदधे निशिताञ्छरान् ॥७१॥ते शरा हृदयं भित्त्वा गतास्ते भारतेर्महत्पेतुः क्षितावधो यद्वद्रामभक्तिपराङ्मुखाः ॥७२॥ततः शरं मुमोचास्मै निशितं वह्निसप्रभम्लक्षीकृत्य महद्वक्षः कपाटतटविस्तृतम् ॥७३॥स बाणो भूमिपतिना द्विधा छिन्नः शरेण हिपपात रथमध्ये स रविमंडलवज्ज्वलन् ॥७४॥अपरं बाणमाधत्त मातृभक्तिभवं ततःनिधाय पुण्यं सोऽप्येष चिच्छेद महता पुनः ॥७५॥तदा खिन्नः स हृदये किंकर्तव्यमिति स्मरन्रामं हृदि निजार्तिघ्नं मुमोच परमास्त्रवित् ॥७६॥स बाणस्तस्य हृदये लग्न आशीविषोपमःमूर्च्छामप्रापयत्तं वै ज्वलन्सूर्यसमप्रभः ॥७७॥ततो हाहाकृतं सर्वं पलायनपरायणम्राज्ञि संमूर्च्छिते जाते पुष्कलो जयमाप्तवान् ॥७८॥इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे वीरमणेःपराभवोनाम द्विचत्वारिंशत्तमोऽध्यायः ॥४२॥ N/A References : N/A Last Updated : November 05, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP