संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः १३

पातालखण्डः - अध्यायः १३

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शेष उवाच
इति वाक्यं समाकर्ण्य सुमदस्य तपोनिधेः
जगदुः कामसेनास्तं रंभाद्यप्सरसो मुदा ॥१॥
त्वत्तपोभिर्वयं कांत प्राप्ताः सर्ववरांगनाः
तासां यौवनसर्वस्वं भुंक्ष्व त्यज तपःफलम् ॥२॥
इयं घृताची सुभगा चंपकाभशरीरभृत्
कर्पूरगंधललितं भुनक्तु त्वन्मुखामृतम् ॥३॥
एतां महाभाग सुशोभिविभ्रमां
मनोहरांगीं घनपीनसत्कुचाम्
कांतोपभुंक्ष्वाशु निजोग्रपुण्यतः
प्राप्तां पुनस्त्वं त्यज दुःखजातम् ॥४॥
मामप्यनर्घ्याभरणोपशोभितां
मंदारमालापरिशोभिवक्षसम्
नानारताख्यानविचारचंचुरां
दृढं यथा स्यात्परिरंभणं कुरु ॥५॥
पिबामृतं मामकवक्त्रनिर्गतं
विमानमारुह्य वरं मया सह
सुमेरुशृंगं बहुपुण्यसेवितं
संप्राप्य भोगं कुरु सत्तपः फलम् ॥६॥
तिलोत्तमा यौवनरूपशोभिता
गृह्णातु ते मूर्धनि तापवारणम्
सुचामरौ संततधारयांकितौ
गंगाप्रवाहाविव सुंदरोत्तम ॥७॥
शृणुष्व भोः कामकथां मनोहरां
पिबामृतं देवगणादिवांछितम्
उद्यानमासाद्य च नंदनाभिधं
वरांगनाभिर्विहरं कुरु प्रभो ॥८॥
इत्युक्तमाकर्ण्य महामतिर्नृपो
विचारयामास कुतो ह्युपस्थिताः
मया सुसृष्टास्तपसा सुरांगनाः
प्रत्यूह एवात्र विधेयमेष किम् ॥९॥
इति चिंतातुरो राजा स्वांते संचिंतयन्सुधीः
जगाद मतिमान्वीरः सुमदो देवताङ्गनाः ॥१०॥
यूयं तु ममचित्तस्था जगन्मातृस्वरूपकाः
मया संचिंत्यते या हि सापि त्वद्रूपिणी मता ॥११॥
इदं तुच्छं स्वर्गसुखं त्वयोक्तं सविकल्पकम्
मत्स्वामिनी मया भक्त्या सेविता दास्यते वरम् ॥१२॥
यत्कृपातो विधिः सत्यलोकं प्राप्तो महानभूत्
सा मे दास्यति सर्वं हि भक्तदुःखांतकारिणी ॥१३॥
किं नंदनं किं तु गिरिः कनकेन सुमण्डितः
किं सुधा स्वल्पपुण्येन प्राप्या दानवदुःखदा ॥१४॥
इति वाक्यं समाकर्ण्य कामस्तु विविधैः शरैः
प्राहरन्नरदेवस्य कर्तुं किंचिन्न वै प्रभुः ॥१५॥
कटाक्षैर्नूपुरारावैः परिरंभैर्विलोकनैः
न तस्य चित्तं विभ्रांतं कर्तुं शक्ता वरांगनाः ॥१६॥
गत्वा यथागतं शक्रं जगदुर्धीरधीर्नृपः
तच्छ्रुत्वा मघवा भीतः सेवामारभतात्मनः ॥१७॥
अथ निश्चितमालोक्य पादपद्मे स्वकेंऽबिका
जितेंद्रियं महाराजं प्रत्यक्षाभूत्सुतोषिता ॥१८॥
पंचास्यपृष्ठललिता पाशांकुशधरावरा
धनुर्बाणधरा माता जगत्पावनपावनी ॥१९॥
तां वीक्ष्य मातरं धीमान्सूर्यकोटिसमप्रभाम्
धनुर्बाणसृणीपाशान्दधानां हर्षमाप्तवान् ॥२०॥
शिरसा बहुशो नत्वा मातरं भक्तिभाविताम्
हसंतीं निजदेहेषु स्पृशंतीं पाणिना मुहुः ॥२१॥
तुष्टाव भक्त्युत्कलितचित्तवृत्तिर्महामतिः
गद्गदस्वरसंयुक्तः कंटकांगोपशोभितः ॥२२॥
जय देवि महादेवि भक्तवृंदैकसेविते
ब्रह्मरुद्रादिदेवेंद्र सेवितांघ्रियुगेऽनघे ॥२३॥
मातस्तव कलाविद्धमेतद्भाति चराचरम्
त्वदृते नास्ति सर्वं तन्मातर्भद्रे नमोस्तु ते ॥२४॥
मही त्वयाऽधारशक्त्या स्थापिता चलतीह न
सपर्वतवनोद्यान दिग्गजैरुपशोभिता ॥२५॥
सूर्यस्तपति खे तीक्ष्णैरंशुभिः प्रतपन्महीम्
त्वच्छक्त्या वसुधासंस्थं रसं गृह्णन्विमुंचति ॥२६॥
अंतर्बहिः स्थितो वह्निर्लोकानां प्रकरोतु शम्
त्वत्प्रतापान्महादेवि सुरासुरनमस्कृते ॥२७॥
त्वं विद्या त्वं महामाया विष्णोर्लोकैकपालिनः
स्वशक्त्या सृजसीदं त्वं पालयस्यपि मोहिनि ॥२८॥
त्वत्तः सर्वे सुराः प्राप्य सिद्धिं सुखमयंति वै
मां पालय कृपानाथे वंदिते भक्तवल्लभे ॥२९॥
रक्ष मां सेवकं मातस्त्वदीयचरणारणम्
कुरु मे वांछितां सिद्धिं महापुरुषपूर्वजे ॥३०॥
सुमतिरुवाच
एवं तुष्टा जगन्माता वृणीष्व वरमुत्तमम्
उवाच भक्तं सुमदं तपसा कृशदेहिनम् ॥३१॥
इत्येतद्वाक्यमाकर्ण्य प्रहृष्टः सुमदो नृपः
वव्रे निजं हृतं राज्यं हतदुर्जनकंटकम् ॥३२॥
महेशीचरणद्वंद्वे भक्तिमव्यभिचारिणीम्
प्रांते मुक्तिं तु संसारवारिधेस्तारिणीं पुनः ॥३३॥
कामाक्षोवाच
राज्यं प्राप्नुहि सुमद सर्वत्रहतकंटकम्
महिलारत्नसंजुष्टपादपद्मद्वयो भव ॥३४॥
ततवैरिपराभूतिर्माभूयात्सुमदाभिध
यदा तु रावणं हत्वा रघुनाथो महायशाः ॥३५॥
करिष्यत्यश्वमेधं हि सर्वसंभारशोभितम्
तस्य भ्राता महावीरः शत्रुघ्नः परवीरहा ॥३६॥
पालयन्हयमायास्यत्यत्र वीरादिभिर्वृतः
तस्मै सर्वं समर्प्य त्वं राज्यमृद्धं धनादिकम् ॥३७॥
पालयिष्यसि योधैः स्वैर्धनुर्धारिभिरुद्भटैः
ततः पृथिव्यां सर्वत्र भ्रमिष्यसि महामते ॥३८॥
ततो रामं नमस्कृत्य ब्रह्मेंद्रेशादिसेवितम्
मुक्तिं प्राप्स्यसि दुष्प्रापां योगिभिर्यमसाधनैः ॥३९॥
तावत्कालमिहस्थास्ये यावद्रामहयागमः
पश्चात्त्वां तु समुद्धृत्य गंतास्मि परमं पदम् ॥४०॥
इत्युक्त्वांतर्दधे देवी सुरासुरनमस्कृता
सुमदोऽप्यहिच्छत्रायां शत्रून्हत्वा नृपोऽभवत् ॥४१॥
एष राजा समर्थोऽपि बलवाहनसंयुतः
न ग्रहीष्यति ते वाहं महामायासुशिक्षितः ॥४२॥
श्रुत्वा प्राप्तं पुरी पार्श्वे हयमेधहयोत्तमम्
त्वां च सर्वैर्महाराजैः सेवितांघ्रिं महामतिम् ॥४३॥
सर्वं दास्यति सर्वज्ञ राजा सुमदनामधृक्
अधुनातन्महाराज रामचंद्र प्रतापतः ॥४४॥
शेष उवाच
इति वृत्तं समाकर्ण्य सुमदस्य महायशाः
साधुसाध्विति चोवाच जहर्ष मतिमान्बली ॥४५॥
अहिच्छत्रापतिः सर्वैः स्वगणैः परिवारितः
सभायां सुखमास्ते यो बहुराजन्यसेवितः ॥४६॥
ब्राह्मणा वेदविदुषो वैश्या धनसमृद्धयः
राजानं पर्युपासंते सुमदंशो भयान्वितम् ॥४७॥
वेदविद्याविनोदेन न्यायिनो ब्राह्मणा वराः
आशीर्वदंति तं भूपं सर्वलोकैकरक्षकम् ॥४८॥
एतस्मिन्समये कश्चिदागत्य नृपतिं जगौ
स्वामिन्न जाने कस्यास्ति हयः पत्रधरोंऽतिके ॥४९॥
तच्छ्रुत्वा सेवकं श्रेष्ठं प्रेषयामास सत्वरः
जानीहि कस्य राज्ञोऽयमश्वो मम पुरांतिके ॥५०॥
गत्वाथ सेवकस्तत्र ज्ञात्वा वृत्तांतमादितः
निवेदयामास नृपं महाराजन्यसेवितम् ॥५१॥
स श्रुत्वा रघुनाथस्य हयं नित्यमनुस्मरन्
आज्ञापयामास जनं सर्वं राजाविशारदः ॥५२॥
लोका मदीयाः सर्वे ये धनधान्यसमाकुलाः
तोरणादीनि गेहेषु मंगलानि सृजंत्विह ॥५३॥
कन्याः सहस्रशो रम्याः सर्वाभरणभूषिताः
गजोपरिसमारूढा यांतु शत्रुघ्नसंमुखम् ॥५४॥
इत्यादिसर्वमाज्ञाप्य ययौ राजा स्वयं ततः
पुत्रपौत्रमहिष्यादिपरिवारसमावृतः ॥५५॥
शत्रुघ्नः सुमहामात्यैः सुभटैः पुष्कलादिभिः
संयुतो भूपतिं वीरं ददर्श सुमदाभिधम् ॥५६॥
हस्तिभिः सादिसंयुक्तैः पत्तिभिः परतापनैः
वाजिभिर्भूषितैर्वीरैः संयुतं वीरशोभितम् ॥५७॥
अथागत्य महाराजः शत्रुघ्नं नतवान्मुदा
धन्योऽस्मि कृतकृत्योऽस्मि सत्कृतं च कृतं वपुः ॥५८॥
इदं राज्यं गृहाणाशु महाराजोपशोभितम्
महामाणिक्यमुक्तादि महाधनसुपूरितम् ॥५९॥
स्वामिंश्चिरं प्रतीक्षेऽहं हयस्यागमनं प्रति
कामाक्षाकथितं पूर्वं जातं संप्रति तत्तथा ॥६०॥
विलोकय पुरं मह्यं कृतार्थान्कुरु मानवान्
पावयास्मत्कुलं सर्वं रामानुज महीपते ॥६१॥
इत्युक्त्वारोहयामास कुंजरं चंद्रसुप्रभम्
पुष्कलं च महावीरं तथा स्वयमथारुहत् ॥६२॥
भेरीपणवतूर्याणां वीणादीनां स्वनस्तदा
व्याप्नोति स्म महाराज सुमदेन प्रणोदितः ॥६३॥
कन्याः समागत्य महानरेंद्रं -
शत्रुघ्नमिंद्रादिकसेवितांघ्रिम्
करिस्थिता मौक्तिकवृंदसंघै-
र्वर्धापयामासुरिनप्रयुक्ताः ॥६४॥
शनैःशनैः समागत्य पुरीमध्ये जनैर्मुदा
वर्धापितो गृहं प्राप तोरणादिकभूषितम् ॥६५॥
हयरत्नेन संयुक्तस्तथा वीरैः सुशोभितः
राज्ञा पुरस्कृतो राजा शत्रुघ्नः प्राप मंदिरम् ॥६६॥
अर्घादिभिः पूजयित्वा रघुनाथानुजं तदा
सर्वं समर्पयामास रामचंद्राय धीमते ॥६७॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे
शत्रुघ्नाहिच्छत्रापुरीप्रवेशोनाम त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : November 04, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP