संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः| अध्यायः ९४ पातालखण्डः वि्षयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ पातालखण्डः - अध्यायः ९४ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ९४ Translation - भाषांतर अंबरीष उवाच-पापप्रशमनं स्तोत्रं श्रोतुमिच्छामि तद्विभोयस्य श्रवणमात्रेण पापराशिर्विलीयते ॥१॥धन्योऽस्म्यनुगृहीतोऽस्मि श्रावितोऽस्मि शुभं विधिम्विकर्मोपार्जितं यस्य श्रवणादेव हीयते ॥२॥चित्रं किमत्र मधुसूदन दैवतस्य मासस्य पुण्यसवनैरिह माधवस्यस्नानैरवश्यविहितैरघराशिनाशः स्याद्यस्य नामपठनादपि तस्य लोकः ॥३॥तदेव पुण्यं परमं पवित्रं हृद्यं च लोके सुकृतैकलभ्यम्यदुच्यते केशवनामधेयं मन्ये मुने माधवमासि भव्यम् ॥४॥धन्यास्तु ते माधवमासि नाम स्मरंति येऽहो मधुसूदनस्यतस्यैव मे किंचिदहो चरित्रं पुनः पवित्रं वद विश्वजन्यम् ॥५॥सूत उवाच-वचः समाकर्ण्य हरिप्रियस्य प्रीतो मुनिस्तस्य नृपोत्तमस्यस माधवस्नानसमुत्सुकोऽपि कथारसेनाह स माधवस्य ॥६॥नारद उवाच-सत्यं महीपाल मिथो मुकुंदकथारसालापविधिर्विशुद्धःत्वया समं माधवमासधर्मस्नानाधिकोऽयं हरिदैवतेन ॥७॥जीवितं यस्य धर्मार्थं धर्मो हर्यर्थमेव चअहोरात्राणि पुण्यार्थं तं मन्ये वैष्णवं भुवि ॥८॥किंचिद्वक्ष्यामि ते राजन्वैशाखस्नानजं फलम्अस्मत्पितापि नो वक्तुमलं विस्तरतोऽखिलम् ॥९॥यत्र मज्जनमात्रेण प्रेता मुक्तिमुपागताःमाधवे मासि ते पापा नर्मदासलिले परे ॥१०॥पुरातीर्थप्रसंगेन भ्रमन्कोपि महीसुरःमुनिशर्मेति विख्यातो धर्मात्मा सत्यवाञ्छुचिः ॥११॥युक्तः शमदमाभ्यां च क्षांतिसंतोषसंयुतःयुक्तः स पितृकार्येषु श्रुतिस्मृतिविधानवान् ॥१२॥युक्तो मधुरवाक्येषु संयुक्तो हरिपूजनेयुक्तो वैष्णवसंसर्गे त्रिकालज्ञानवान्मुनिः ॥१३॥स्वकर्मणि रतो धीरो हृदयालुः प्रियाप्रियःदयालुरतिमेधावी तत्त्वविद्ब्राह्मणप्रियः ॥१४॥माधवे मासि रेवायां स्नानार्थं प्रतिसंचरन्अग्रतः पंचपुरुषान्ददर्शातीव दुःखितान् ॥१५परस्परमसंसर्गकारिणः कृष्णविग्रहान्वटच्छायामुपाश्रित्य समासीनानवस्थितान् ॥१६पश्यंतो दिक्षु सर्वासु दुरितोद्विग्नचेतसःतानालोक्य द्विजश्रेष्ठश्चिंतयामास विस्मितः ॥१७॥अत्रैते के नरा भीता विपिने दीनचेष्टिताःचौरा वा विकृताकारा दृश्यंते संगभागिनः ॥१८॥परस्परं च भाषंतः कृशाः कृष्णवपुः श्रियःयावदेवं स विप्राग्र्यो विचारयति धीरधीः ॥१९॥तावदागम्यते सर्वे दूरस्था मुनिमादरात्बद्धांजलिपुटा भूत्वा प्रणम्योचुरिति स्फुटम् ॥२०॥पंचपुरुषा ऊचुः -भव्यं भवंतं पुरुषोत्तमं वै विभ्राजमानं चरितेन मान्यम्मन्यामहे विप्र दयालुमुख्यं वाचं समाकर्णय नोसि मैत्रः ॥२१॥संतः प्रतिष्ठा दीनानां दैवादुद्भूतपापिनाम्आर्तानामार्तिहंतारो दर्शनादेव साधवः ॥२२॥अहं पांचालदेशीयः क्षत्रियो वीरवाहनःब्राह्मणं हतवान्मोहाच्छरेण शब्दवेधिना ॥२३॥शिखासूत्रविहीनस्तु तिलकेन विवर्जितःअटामि जगतीमेनां ब्रह्मघ्नोऽहमिति ब्रुवन् ॥२४॥ब्रह्मघ्नायातिपापाय भिक्षा मह्यं प्रदीयताम्एवं सर्वेषु तीर्थेषु भ्रमन्नत्रास्मि चागतः ॥२५॥ब्रह्महत्या न मेद्यापि प्रयाति मुनिसत्तमएवं मे वर्षमेकं हि व्यतीतं कुर्वतो विभो ॥२६॥दह्यमानस्य पापेन शोकाकुलितचेतसःचंद्रशर्मापरो विप्रो योयं संलक्ष्यते द्विज ॥२७॥गुरुघाती स तु ब्रह्मन्मोहाकुलितमानसःमोहाकुलितचित्तत्वाद्गुरुघातक उच्यते ॥२८॥निवसन्मागधेदेशे संत्यक्तः स्वजनैस्ततःदैवादसावपि मुने भ्रमन्निह समागतः ॥२९॥शिखासूत्रविहीनस्तु विप्रलिंगविवर्जितःमया पृष्टस्तु वृत्तांतं सत्यमेवावदद्द्विजः ॥३०॥वसता यद्गुरोर्गेहे क्रोधाकुलितचेतसामहामोहगतेनापि यथा वै घातितो गुरुः ॥३१॥तेन पापेन दग्धोऽसौ वर्तते शोकपीडितःतृतीयोऽयं पुनः स्वामिन्वेदशर्मासमाहितः ॥३२॥सुरापो ब्राह्मणो जातो मोहाद्वेश्याप्रसंगतःपृष्टो मयायमपि मे यथावृत्तं तथाब्रवीत् ॥३३॥आत्मनश्चेष्टितं सर्वं मनस्तापेन पीडितःनिरस्तः सर्वलोकैश्च भार्याबंधुजनैरपि ॥३४॥तेन पापेन संलिप्तो भ्रमन्नत्रायमागतःचतुर्थो विधुरो नाम वैश्योऽयं गुरुतल्पगः ॥३५॥मोहान्मासत्रयं यावद्वेश्याभूतां च मातरम्बुभुजे स विदेहस्थां ज्ञाततत्त्वस्ततश्चरन् ॥३६॥दुःखितोऽभ्यागमद्भूमिं भ्रमन्निह मुने पुनःपंचमोऽयं महापापी पापिसंसर्गकारकः ॥३७॥प्रत्यहं धनलोभेन स्तेयादिकृतवानघम्वैश्योतिपातकैः क्रांतस्ततस्त्यक्तो जनैः स्वयम् ॥३८॥निर्विण्णमानसो दैवान्नंदनामेह संगतःएवं पंचापि पापिष्ठाः स्थानमेकमुपागताः ॥३९॥कः कस्यापि न संपर्कं भोजनाच्छादनादिभिःन करोति महाभाग विना वार्तां द्विजोत्तम ॥४०॥विशंत्येकासने नैव न स्वपंत्येकसंस्तरेएवं दुःखसमाक्रांता नानातीर्थेषु वै गताः ॥४१॥नास्माकं पातकं घोरं प्रयाति मुनिसत्तमदृष्ट्वा भवंतं दीप्यंतं प्रसन्नानि मनांसि नः ॥४२॥वदंति दुरितप्रांतं साधोस्ते पुण्यदर्शनात्उपायं वद नः स्वामिन्यथा पापक्षयो हि नः ॥४३॥ज्ञायते करुणोऽस्माभिर्विप्र वेदार्थवित्प्रभोआर्तानां मार्गमाणानां पश्चात्तापमुपेयुषाम् ॥४४॥मोहादवाप्तपापानां त्वमुद्धर्तासि निश्चितम्नारद उवाच-तेषामिति वचः श्रुत्वा मुनिशर्मा मुनिस्ततः ॥४५॥इदमाह विचार्येति करुणावरुणालयःमुनिशर्मोवाच-यूयमज्ञानतः प्राप्तपातकाः सत्यभाषिणः ॥४६॥अनुतापयुतास्तस्मादनुग्राह्या मयाधुनाशृणुध्वं मे वचः सत्यमूर्ध्वबाहुर्वदाम्यहम् ॥४७॥यन्मयांगिरसः पूर्वं श्रुतं मुनिसमागमेदृष्टं वेदेषु शास्त्रेषु श्रुतं गुरुमुखात्तथा ॥४८॥विष्णुनाराधितेनादौ स्वयमुक्तं च तत्त्वतःन तृप्तिरशनादन्या न गुरुर्जनकादपि ॥४९॥न पात्रमन्यद्विप्रेभ्यो न देवः केशवात्परःन गंगया समं तीर्थं न दानं सुरभीसमम् ॥५०॥न गायत्र्या समं जाप्यं न द्वादश्यासमं व्रतम्न भार्यया समं मित्रं न धर्मो दयया समः ॥५१॥न स्वातंत्र्यसमं सौख्यं गार्हस्थ्यान्नाश्रमो वरःन सत्यात्परआचारो न संतोषात्परं सुखम् ॥५२॥न माधवसमो मासो महापापहरः परःविधिनानुष्ठितो भक्त्या मधुसूदनवल्लभः ॥५३॥गंगादिषु च तीर्थेषु विशेषेण सुदुर्लभःप्रायश्चित्तानि सर्वाणि द्वादशाब्दमुखानि च ॥५४॥तावद्गर्जंति पापानि यावन्नायाति माधवःवैशाखमखिलं मासं यः स्नाति हरितत्परः ॥५५॥हरिपादसमुद्भूते सलिले विमलाशयःस एव सर्वपापानां हंता दृष्टस्तु पापिभिः ॥५६॥निजपापौघनिष्कृत्यै वक्तव्यं तस्य किन्नरैः ॥५७॥मासे तु वै माधवसंज्ञकेऽस्मिन्यः स्नाति पापैः स विमुच्यते हिमेषस्थिते संप्रति नर्मदायाः शर्मप्रदे वारिणि वारिताघे ॥५८॥दुर्लभा हि महानद्यो माधवे मासि सर्वशःततोऽपि दुर्लभा गंगा रेवा च यमुना तथा ॥५९॥एतासु तिसृषु प्रायः प्राप्यैकामपि सादरम्यः स्नाति माधवे मासि विपापः स हरिं व्रजेत् ॥६०॥तस्मादहो सह मया सुकृतैकसारे वैशाखमासि च भवंत उपेत्य रेवाम्मज्जंतु पातककृतो मुनिवृंदजुष्टे रेवाजले निखिलपापभयापहत्यै ॥६१॥एवमुक्तास्ततः सर्वे मुदिता मुनिना सहजग्मुस्ते पापिनो रेवां शंसंतोऽद्भुतकारिणीम् ॥६२॥मुनिशर्मा ततो गच्छंस्तैस्तथानुगतो नरैःददर्श पथिसंत्रस्तान्पिशाचानष्ट भीषणान् ॥६३॥कुर्वंतो विविधाञ्छब्दान्भ्रमंतोऽपि ततस्ततःऊर्द्ध्वकेशोर्द्ध्वरक्तांश्च कृष्णदंतकृशोदरान् ॥६४॥अरण्ये कंटकाक्रांते वृक्षपानीयवर्जितेसम्मुखं धावतो दृष्ट्वा भयसंविग्नमानसः ॥६५॥नमोनारायणायेति रक्षरक्षेति चाब्रवीत् ॥६६॥नारायणायेति नमोभिधानमाकर्ण्य धर्मैकनिधानमुच्चैःभवांतरे ते मनसा पिशाचा ययुर्निजादृष्टवशेन लब्धाः ॥६७॥विनयान्वितमनसो मुनिशर्मा विलोक्य तान्उवाच मधुराभाषी के यूयं विकृता नराः ॥६८॥किं वा केन कृतं कर्म येन प्राप्ता च वैकृतिःकथमेवं विधाः सर्वे दुःखिनोऽतीव भीषणाः ॥६९॥प्रेता ऊचुः -क्षुत्पिपासार्दिता नित्यं नानादुःखचयाकुलाःकृतबुद्धे हृदि क्रूरा नष्टसंज्ञा विचेतसः ॥७०॥न जानीमो दिशः क्वापि मूढा मानवघातिनःतदेतद्दुःखमाख्यातमेतदेवासुखं पुनः ॥७१॥प्रभातमिव संभाति भास्करोदयदर्शनात्श्रुत्वा नारायणेत्युच्चैर्भाषितं तव कोमलम् ॥७२॥दृष्ट्वा च दर्शनं विप्र शुद्धभावं गता वयम्दर्शनेनैव ते विप्र नामश्रवणतो हरेः ॥७३॥भवांतरमनुप्राप्ता वयं प्राप्ता दयालवःविनाशयत्यपयशो बुद्धिं विशदयत्यपि ॥७४॥प्रतिष्ठापयति प्रायो नृणां वैष्णवदर्शनम्अहं पर्युषितो नाम सूचकोऽयं द्वितीयकः ॥७५॥शीघ्रगो रोधकश्चान्यः पंचमोयं च लेखकःषष्ठोयमिति वाग्दुष्टः सप्तमोयं विदैवतः ॥७६॥नित्यंयाजनकश्चायमष्टमः कष्टदायकःमुनिशर्मोवाच-प्रेतानां कर्मजातानां नामानि भवतां कुतः ॥७७॥किं तत्कारणमुद्दिश्य येन यूयं सनामकाःप्रेता ऊचुः -मया स्वादु सदा भुक्तं दत्तं पर्युषितं द्विजे ॥७८॥आज्ये सति निराज्यं च तेन पर्य्युषितोऽस्म्यहम्मिथ्यामिथ्यापरच्छिद्र मर्म्मान्वेषी स्वभावतः ॥७९॥सूचयामास तेनासौ सूचकोऽशुचिरातुरःशीघ्रं नश्यति विप्रेण याचितः क्षुभितेन वै ॥८०॥एतत्कारणमुद्दिश्य शीघ्रगो द्विजसत्तमगृहोपरि सदा स्वादुभुक्तमेतेन पापिना ॥८१॥एकाकिना कुमनसा तेनासौ रोधकः स्मृतःमौनेनापि स्थितो नित्यं पादेन लिखते महीम् ॥८२॥अस्माकमपि पापिष्ठो लेखको लोकसंगतःगुणिनोयं गुणान्द्वेष्टि निर्गुणे च गुणज्ञताम् ॥८३॥असंज्ञे ज्ञानयोगी च वाग्दुष्टोसौ ततः स्मृतःनास्तिक्यभावादनिशं पितृदैवत मानवान् ॥८४॥न मन्यते च सत्कर्म पापस्तेन विदैवतःसदा याचनको मिथ्या मिथ्यादौर्गत्यदर्शकः ॥८५॥सभूतोद्वेजको लुब्धस्तेन याचनकस्त्वयम्एभिः पूर्वकृतैः पापैर्भुक्त्वा नरकयातनाम् ॥८६॥प्रेतास्ते दर्शनादद्य पुनर्जाताः स्म सुस्थिताःएतत्ते सर्वमाख्यातमात्मवृत्तांतसंभवम् ॥८७॥प्रश्नं च यदि ते श्रद्धा पृच्छान्यत्कथयामि तेब्राह्मण उवाच-ये जीवा भुवि तिष्ठंति सर्वआहारमूलकाः ॥८८॥युष्माकमपि आहारं श्रोतुमिच्छामि तत्त्वतःप्रेता ऊचुः -शृणुष्वाहारमस्माकं सर्वसत्वविगर्हितम् ॥८९॥यं श्रुत्वा निंदसे ब्रह्मन्भूयोभूयश्च नित्यशःश्लेष्ममूत्रपुरीषेण योषिदंगमलेन च ॥९०॥गृहाणित्यक्तशौचानि तानि भुंजंति तत्र वैस्त्रीदग्धानि प्रकीर्णानि प्रकीर्णायस्कराणि च ॥९१॥कुत्सितानि मलेनापि प्रेता वै तत्र भुंजतेमाधवं यत्र नार्चंति स्त्रीजितानि गृहाणि च ॥९२॥दया क्षांतिविहीनानि प्रेतास्तत्रैव भुंजतेयत्राभद्रा गृहे वाचः शौचहीनाश्च योषितः ॥९३॥कलहो यत्र सततं प्रेतास्ते तत्र भुंजतेन यत्र जामयो गेहे पूज्यंते न वराः स्त्रियः ॥९४॥यत्र दुर्जनसंसर्गस्तत्र भोक्ष्यामहे वयम्न यत्र हरिसेवा वा न कथा यत्र वैष्णवी ॥९५॥न यत्र वैष्णवी प्रीतिः प्रेता वै तत्र भुंजतेयेषामेवं गृहे प्रीता भुंजते तेऽपि सत्वरम् ॥९६॥प्रेता भवंति पापेन निजवंशविनाशकाःतस्य मे जायते ब्रह्मन्वदतो भोजनं निजम् ॥९७॥अस्मात्पापतरं चान्यत्किंचिद्वक्तुं न शक्यतेनिर्विण्णः प्रेतभावेन पृच्छामि त्वां दृढव्रतम् ॥९८॥यथा न जायते प्रेतो मुक्तिः प्रेतत्वतो यथाब्राह्मण उवाच-एकादश्यादिभिः पुण्यैर्व्रतैरच्युतकीर्तनैः ॥९९॥देवतातिथिपूजाभिर्गुरुपूजादिभिस्तथाआचारैः साधुचरितैः श्रुतिस्मृत्युदितैर्दिनैः ॥१००॥एवं श्राद्धक्रियादानैर्यथाविधिविनिर्मितैःदयादानदमक्षांतिशीलशिष्टाभिवादनैः ॥१०१॥इत्येवमादिभिर्धर्मैः प्रेता न स्युः कुलेऽपि वैगोविप्रतीर्थामरपर्वताग्र्य नदीनदाश्वत्थतरूननेकशः ॥१०२॥यो वंदते बंधुजने विनीतः प्रेतो न लोके भवतीह नूनम्क्रमादर्च्चयते युक्तो विशेषादपि मानवः ॥१०३॥गंगादिपुण्यतीर्थेषु तस्य पुण्यमनंतकम्नाहं वर्षसहस्रेषु वक्तुं शक्तः स्वयं विभुः ॥१०४॥दर्शनादेव तस्यापि मुक्तः प्रेतत्वतो भवेत्ऊर्जमूर्जस्वलं मासमथ दामोदरप्रियम् ॥१०५॥तपसामुत्तमं मासं तपो माधववल्लभम्वैशाखं माधवं मासं मधुसूदनदैवतम् ॥१०६॥उत्तमं सर्वमासानां यमेकं मुनयो विदुःयेनैव साधनेन स्यात्सर्वं कृत्यं हि साधितम् ॥१०७॥ब्रह्मविद्यामताभ्येति सा लक्ष्मीर्विश्वकारिणीतस्या वासो यतो मासो माधवोऽसौ ततः स्मृतः ॥१०८॥न माधवसमो देवो यथा देवेषु निश्चितम्तथा मासेषु सर्वेषु न मासो माधवप्रियः ॥१०९॥तस्य माधवमासस्य माहात्म्यमपि भक्तितःश्रुत्वा विमुच्यते प्रेतयोनितः किं विधानतः ॥११०॥सतां संभाषणादेव पुण्यतीर्थनिषेवणात्नारायणेति पठनात्तन्नामश्रवणादपि ॥१११॥मुच्यते पातकैः सर्वैर्जनो भक्तिपरायणःयतिष्ये तदहं प्रेता भवतामपि मुक्तये ॥११२॥परोपकारजं पुण्यं यतो न स्यान्मखैरपिप्रेता यामि ततः स्नातुं रेवावारिणि माधवे ॥११३॥मासि मेषस्थिते भानावेतैरनुगतो नरैःपंचैव ते पुनर्मोहाज्जातपातकसंचयाः ॥११४स्नातुमायांति वचसा ममैव करुणावतः ॥११५॥तावद्भवंतस्तु निदेशतो मे तिष्ठंतु तत्रैव वने विशोकाःश्रीनर्मदावारिणि यावदेव गत्वा निजस्नानविधिं विहाय ॥११६॥निर्माय पुरुषानपि नाम तस्मात्कुशस्वरूपानिह नर्मदा केविधानतो माधवमासि दीनान्निमज्जयामीति दया निबद्धः ॥११७॥एवं दिनत्रयेणैव मुक्तिर्वः प्रेतयोनितःन दर्भबटुकस्नानमात्रेणैव न संशयः ॥११८॥नारद उवाच-एवमुक्तस्ततस्तैस्तु प्रतीतैरपि पूजितःमुनिशर्मा ययावेतैरनुयातस्तु पंचभिः ॥११९॥तत्र गत्वा ततः प्रातः स्नात्वा कृत्वा तथाविधिम्स्नापयामास तान्प्रेतान्नामतो दर्भनिर्मितान् ॥१२०॥स्मृताश्च मुनिना तीर्थे स्नापिता नामतस्तथाप्रेताः पुण्यवता तेन सद्यो मुक्ता दिवं ययुः ॥१२१॥ते पापिनः पंच यदैव रेवाजले निमग्ना वचसैव तस्यश्रीमाधवे मासि विवर्णदेहाः सद्यः सुवर्णैकरुचो बभूवुः ॥१२२॥पापप्रशमनं स्तोत्रं श्राविता मुनिशर्मणासमक्षं सर्वलोकानां जातास्ते वरकांतयः ॥१२३॥तत्रस्था मानवास्तांस्तु विरजान्स्नानमात्रतःन स्पृशंति च राजेंद्र पापिसंसर्गशंकथा ॥१२४॥मुनिशर्मानुरोधेन ततो धर्मप्रमाणतःसद्यो दिव्याभवद्वाणी यदेते विगतैनसः ॥१२५॥स्नातानां माधवेमासि मुकुंदहृदयात्मनाम्पापप्रशमनं स्तोत्रं शृण्वतामिह सादरम् ॥१२६॥चित्रं किमत्र या शुद्धिर्जायते पापसंचयात्सर्वेषामेव पापानां प्रायश्चित्तमिदं परम् ॥१२७॥यत्प्रातर्माधवे मासि भक्त्या तीर्थेऽवगाहनम्यतः प्रेतास्तु ते पापाः स्नापिता नाममात्रतः ॥१२८॥स्मृताः पुण्यवता तेन मोचिता मुनिशर्मणा ॥१२९॥इत्येवमाकर्ण्य गिरं नभःस्थामत्यद्भुतामाशु ततो मनुष्याःशशंसुरेतानपि पंचपुण्यान्वैशाखमासं च मुनिं च रेवाम् ॥१३०॥अथ चाकर्ण्य भूपालः स्तवं दुरितनाशनम्यदाकर्ण्य नरो भक्त्या मुच्यते पापराशिभिः ॥१३१॥यस्य श्रवणमात्रेण पापिनः शुद्धिमागताःअन्येऽपि बहवो मुक्ताः पापादज्ञानसंभवात् ॥१३२॥परदार परद्रव्य जीवहिंसादिके यदाप्रवर्तते नृणां चित्तं प्रायश्चित्तं स्तुतिस्तदा ॥१३३॥विष्णवे विष्णवे नित्यं विष्णवे विष्णवे नमःनमामि विष्णुं चित्तस्थमहंकारगतं हरिम् ॥१३४॥चित्तस्थमीशमव्यक्तमनंतमपराजितम्विष्णुमीड्यमशेषाणामनादिनिधनं विभुम् ॥१३५॥विष्णुश्चित्तगतो यन्मे विष्णुर्बुद्धिगतश्च यत्यच्चाहंकारको विष्णुर्यो विष्णुर्मयि संस्थितः ॥१३६॥करोति कर्तृभूतोऽसौ स्थावरस्य चरस्य चतत्पापं नाशमायाति तस्मिन्नेव हि चिंतिते ॥१३७॥ध्यातो हरति यत्पापं स्वप्ने दृष्टस्तु भावनात्तमुपेंद्रंमहं विष्णुं प्रणमामि नतिप्रियम् ॥१३८॥जगत्यस्मिन्निरालंबे मधुसूदनमच्युतम्हस्तावलंबनं स्तोत्रं विष्णुं वंदे परात्परम् ॥१३९॥सर्वेश्वरेश्वरविभो परमात्मन्नधोक्षजहृषीकेश हृषीकेश हृषीकेश नमोस्तु ते ॥१४०॥नृसिंहानंत गोविंद भूतभावन केशवदुरुक्तं दुष्कृतं ध्यातं शम पापं नमोस्तु ते ॥१४१॥यन्मया चिंतितं दुष्टं स्वचित्तवशवर्तिनाअकार्य्यमघमत्युग्रं तच्छमं नय केशव ॥१४२॥ब्रह्मण्यदेव गोविंद परमार्थपरायणजगन्नाथ जगद्धातः पापं शमय मेऽच्युत ॥१४३॥यच्चापराह्णे सायाह्ने मध्याह्ने च तथा निशिकायेन मनसा वाचा कृतं पापमजानता ॥१४४॥जानता च हृषीकेश पुंडरीकाक्ष माधवनामत्रयोच्चारणतः सर्वे यांतु मम क्षयम् ॥१४५॥शारीरं मे हृषीकेश पुंडरीकाक्ष मानसम्पापं प्रशममायातु वाक्कृतं मम माधव ॥१४६॥यद्भुंजानः पिबंस्तिष्ठन्स्वपञ्जाग्रद्यदास्थितःअकार्षं पापमर्थार्थं कायेन मनसा गिरा ॥१४७॥महदल्पमपि प्रायो दुर्योनि नरकावहम्तत्पापं प्रशमं यातु वासुदेवस्य कीर्तनात् ॥१४८॥परं ब्रह्म परं धाम पवित्रं परमं च यत्तस्मिन्प्रकीर्तिते विष्णौ यत्पापं तत्प्रणश्यतु ॥१४९॥यत्प्राप्य न निवर्त्तंते गंधस्पर्शादिवर्जिताःसूरयस्तत्पदं विष्णोस्तत्सर्वं शमयत्वयम् ॥१५०॥पापप्रशमनं स्तोत्रं यः पठेच्छृणुयान्नरःशारीरैर्मानसैर्वाग्जैः कृतैः पापैः स मुच्यते ॥१५१॥मुक्तः पापग्रहादिभ्यो याति विष्णोः परं पदम्तस्मात्पापे कृतं जप्यं स्तोत्रं सर्वाघमर्दनम् ॥१५२॥प्रायश्चित्तमघौघानां पठितव्यं नरोत्तमैःप्रायश्चित्तैः स्तोत्रवरैर्व्रतैर्नश्यति पातकम् ॥१५३॥ततः कार्याणि संसिद्ध्यै तानि वै भुक्तिमुक्तयेपूर्वजन्मार्जितं पापमैहिकं च नरेश्वर ॥१५४॥स्तवस्य श्रवणादस्य सद्य एव विलीयतेपापद्रुमकुठारोऽयं पापेंधनदवानलः ॥१५५॥पापराशितमः स्तोम भानुरेष स्तवो नृपमया प्रकाशितस्तुभ्यं तथा लोकानुकंपया ॥१५६॥स्तवो योऽयं मया प्राप्तो रहस्यं पितुरादरात्इतिहासमिमं पुण्यं यः शृणोति नराधिप ॥१५७॥तस्यापि पुण्यमाहात्म्यं वक्तुं शक्तः स्वयं हरिःस्वस्ति तेस्तु महाराज गंगायामथ सत्वरम् ॥१५८॥स्नातुं यामि समायातो मासोऽयं माधवो महान् ॥१५९॥इति श्रीपद्मपुराणे पातालखंडे नारदांबरीषसंवादे वैशाखमाहात्म्ये प्रेतो -पाख्याने पापप्रशमनंनाम चतुर्नवतितमोऽध्यायः ॥९४॥ N/A References : N/A Last Updated : November 06, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP