संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः| अध्यायः १८ पातालखण्डः वि्षयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ पातालखण्डः - अध्यायः १८ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १८ Translation - भाषांतर ब्राह्मण उवाचराजंस्त्वं शृणु यद्वृत्तं नीले पर्वतसत्तमेयच्छ्रद्दधानाः पुरुषा यांति ब्रह्म सनातनम् ॥१॥मया पर्यटता तत्र गतं नीलाभिधे गिरौगंगासागरतोयेन क्षालितप्रांगणे मुहुः ॥२॥तत्र भिल्ला मया दृष्टाः पर्वताग्रे धनुर्भृतःचतुर्भुजा मूलफलैर्भक्ष्यैर्निर्वाहितक्लमाः ॥३॥तदा मे मनसि क्षिप्रं संशयः सुमहानभूत्चतुर्भुजाः किमेते वै धनुर्बाणधरा नराः ॥४॥वैकुंठवासिनां रूपं दृश्यते विजितात्मनाम्कथमेतैरुपालब्धं ब्रह्माद्यैरपि दुर्ल्लभम् ॥५॥शंखचक्रगदाशार्ङ्गपद्मोल्लसितपाणयःवनमालापरीतांगा विष्णुभक्ता इवांतिके ॥६॥संशयाविष्टचित्तेन मया पृष्टं तदा नृपयूयं के बत युष्माभिर्लब्धं चातुर्भुजं कथम् ॥७॥तदा तैर्बहु हास्यं तु कृत्वा मां प्रतिभाषितम्ब्राह्मणोऽयं न जानाति पिंडमाहात्म्यमद्भुतम् ॥८॥इति श्रुत्वाऽवदं चाहं कः पिंडः कस्य दीयतेतन्मम ब्रूत धर्मिष्ठाश्चतुर्भुजशरीरिणः ॥९॥तदा मद्वाक्यमाकर्ण्य कथितं तैर्महात्मभिःसर्वं तत्र तु यद्वृत्तं चतुर्भुजभवादिकम् ॥१०॥किराता ऊचुःशृणु ब्राह्मण वृत्तांतमस्माकं पृथुकः शिशुःनित्यं जंबूफलादीनि भक्षयन्क्रीडया चरन् ॥११॥एकदा रममाणस्तु गिरिशृंगं मनोरमम्समारुरोह शिशुभिः समंतात्परिवारितः ॥१२॥तदा तत्र ददर्शाहं देवायतनमद्भुतम्गारुत्मतादिमणिभिः खचितं स्वर्णभित्तिकम् ॥१३॥स्वकांत्यातिमिरश्रेणीं दारयद्रविवद्भृशम्दृष्ट्वा विस्मयमापेदे किमिदं कस्य वै गृहम् ॥१४॥गत्वा विलोकयामीति किमिदं महतां पदम्इति संचिंत्य गेहांतर्जगाम बहुभाग्यतः ॥१५॥ददर्श तत्र देवेशं सुरासुरनमस्कृतम्किरीटहारकेयूरग्रैवेयाद्यैर्विराजितम् ॥१६॥मनोहरावतंसौ च धारयंतं सुनिर्मलौपादपद्मे तुलसिका गंधमत्तषडंघ्रिके ॥१७॥शंखचक्रगदाशार्ङ्ग पद्माद्यैर्मूर्तिसंयुतैःउपासितांघ्रिं श्रीमूर्तिं नारदाद्यैः सुसेवितम् ॥१८॥केचिद्गायंति नृत्यंति हसंति परमाद्भुतम्प्रीणयंति महाराजं सर्वलोकैकवंदितम् ॥१९॥हरिं वीक्ष्य मदीयोर्भस्तत्र संजग्मिवान्मुनेदेवास्तत्र विधायोच्चैः पूजां धूपादिसंयताम् ॥२०॥नैवेद्यं श्रीप्रियस्यार्थे कृत्वा नीराजनं ततःजग्मुः स्वं स्वं गृहं राजन्कृपां पश्यंत आदरात् ॥२१॥महाभाग्यवशात्तेन प्राप्तं नैवेद्यसिक्थकम्पतितं ब्रह्मदेवाद्यैर्दुर्ल्लभं सुरमानुषैः ॥२२॥तद्भक्षणं च कृत्वाथो श्रीमूर्तिमवलोक्य चचतुर्भुजत्वमाप्तं वै पृथुकेन सुशोभिना ॥२३॥तदास्माभिर्गृहं प्राप्तो बालको वीक्षितो मुहुःचतुर्भुजत्वं संप्राप्तः शंखचक्रादिधारकः ॥२४॥अस्माभिः पृष्टमेतस्य किमेतज्जातमद्भुतम्तदा प्रोवाच नः सर्वान्बालकः परमाद्भुतम् ॥२५॥शिखराग्रे गतः पूर्वं तत्र दृष्टः सुरेश्वरःतत्र नैवेद्यसिक्थं तु मया प्राप्तं मनोहरम् ॥२६॥तस्य भक्षणमात्रेण कारणेन तु सांप्रतम्चतुर्भुजत्वं संप्राप्तो विस्मयेन समन्वितः ॥२७॥तच्छ्रुत्वा तु वचस्तस्य सद्यः संप्राप्तविस्मयैःअस्माभिरप्यसौ दृष्टो देवः परमदुर्ल्लभः ॥२८॥अन्नादिकं तत्र भुक्तं सर्वस्वादसमन्वितम्वयं चतुर्भुजा जाता देवस्य कृपया पुनःगत्वा त्वमपि देवस्य दर्शनं कुरु सत्तम ॥२९॥भुक्त्वा तत्रान्नसिक्थं तु भव विप्र चतुर्भुजःत्वया पृष्टं यदाश्चर्यं तदुक्तं वाडवर्षभ ॥३०॥इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधेब्राह्मणोपदेशोनामाष्टादशोऽध्यायः ॥१८॥ N/A References : N/A Last Updated : November 04, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP