संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ३१

पातालखण्डः - अध्यायः ३१

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


जाबालिरुवाच
अथ तेषु प्रयातेषु नरकस्थेषु वै नृषु
राजा पप्रच्छ कीनाशं सर्वधर्मविदांवरम् ॥१॥
राजोवाच
धर्मराज त्वया प्रोक्तं यत्पातककरा नराः
आयांति तव संस्थानं न च धर्मकथारताः ॥२॥
मदागमनमत्राभूत्केनपापेन धार्मिक
तद्वै कथय सर्वं मे पापकारणमादितः ॥३॥
इति श्रुत्वा तु तद्वाक्यं धर्मराजः परंतप
कथयामास तस्यैवं यमपुर्यागमं तदा ॥४॥
धर्मराज उवाच
राजंस्तव महत्पुण्यं नैतादृक्कस्य भूतले
रघुनाथपदद्वंद्वमकरंद मधुव्रत ॥५॥
त्वत्कीर्ति स्वर्धुनी सर्वान्पापिनो मलसंयुतान्
पुनाति परमाह्लादकारिणी दुष्टतारिणी ॥६॥
तथापि पापलेशस्ते वर्तते नृपसत्तम
येन संयमिनीपार्श्वमागतः पुण्यपूरितः ॥७॥
एकदा तु चरंतीं गां वारयामास वै भवान्
तेन पापविपाकेन निरयद्वारदर्शनम् ॥८॥
इदानीं पापनिर्मुक्तो बहुपुण्यसमन्वितः
भुंक्ष्व भोगान्सुविपुलान्निजपुण्यार्जितान्बहून् ॥९॥
एतेषां करुणावार्धी रघुनाथो सुखं हरन्
संयमिन्या महामार्गे प्रेरयामास वैष्णवम् ॥१०॥
नागमिष्यो यदि त्वं वै मार्गेणानेन सुव्रत
अभविष्यत्कथं तेषां निरयात्परिमोचनम् ॥११॥
त्वादृशाः परदुःखेन दुःखिताः करुणालयाः
प्राणिनां दुःखविच्छेदं कुर्वंत्येव महामते ॥१२॥
जाबालिरुवाच
एवं वदंतं शमनं प्रणम्य स दिवंगतः
दिव्येन सुविमानेन अप्सरोगणशोभिना ॥१३॥
तस्माद्गावोऽनिशं पूज्या मनसापि न गर्हयेत्
गर्हयन्निरयं याति यावदिंद्राश्चतुर्दश ॥१४॥
तस्मात्त्वं नृपतिश्रेष्ठ गोपूजां वै समाचर
सा तुष्टा दास्यति क्षिप्रं पुत्रं धर्मपरायणम् ॥१५॥
सुमतिरुवाच
तच्छ्रुत्वा धेनुपूजां स पप्रच्छ कथमादरात्
पूजनीया प्रयत्नेन कीदृशं कुरुते नरम् ॥१६॥
जाबालि कथयामास धेनुपूजां यथाविधि
प्रत्यहं विपिनं गच्छेच्चारणार्थं व्रती तु गोः ॥१७॥
गवे यवांस्तु संभोज्य गोमयस्थान्समाहरेत्
भक्षणीया यवास्ते तु पुत्रकामेन भूपते ॥१८॥
सा यदा पिबते तोयं तदा पेयं जलं शुचि
सोच्चैः स्थाने यदा तिष्ठेत्तदानीं चासनस्थितः ॥१९॥
दंशान्निवारयेन्नित्यं यवसं स्वयमाहरेत्
एवं प्रकुर्वतः पुत्रं दास्यते धर्मतत्परम् ॥२०॥
सुमतिरुवाच
इति वाक्यं समाकर्ण्य पुत्रकाम ऋतंभरः
व्रतं चकार धर्मात्मा धेनुपूजां समाचरन् ॥२१॥
प्रत्यहं कुरुते गां वै यवसाद्येन तोषिताम्
दंशान्न्यवारयद्धीमान्यवभक्षकृतादरः ॥२२॥
एवं धेनुं पूजयतो गतास्तु दिवसा घनाः
वनमध्ये तृणादींश्च चरंतीमकुतोभयाम् ॥२३॥
एकदा नृपतिस्तस्य वनस्य श्रीनिरीक्षणे
न्यस्तदृष्टिः सपरितो बभ्राम स कुतूहली ॥२४॥
तदागत्याहनद्गां वै पंचास्यः काननांतरात्
क्रोशंतीं बहुधा दीनां सिंहभारेणदुःखिताम् ॥२५॥
तदा नृपः समागत्य विलोक्य निजमातरम्
सिंहेन निहतां पश्यन्रुरोदातीव विह्वलः ॥२६॥
स दुःखितः समागत्य जाबालिमुनिसत्तमम्
निष्कृतिं तस्य पप्रच्छ गोवधस्य प्रमादतः ॥२७॥
ऋतंभर उवाच
स्वामिंस्त्वदाज्ञया धेनुं पालयन्वनमास्थितः
कुतोप्यागत्य तां सिंहो जघानादृष्टिगोचरः ॥२८॥
तस्य पापस्य निष्कृत्यै किं करोमि त्वदाज्ञया
कथं वा व्रतसंपूर्तिर्मम पुत्रप्रदायिनी ॥२९॥
इत्युक्तवंतं तं भूपं जगाद मुनिसत्तमः
संत्युपाया महीपाल पापस्यास्यापनुत्तये ॥३०॥
ब्रह्मघ्नस्य कृतघ्नस्य सुरापस्य महामते
प्रायश्चित्तानि वर्तंते सर्वपापहराणि च ॥३१॥
कृच्छ्रैश्चांद्रायणैर्दानैर्व्रतैः सनियमैर्यमैः
पापानि प्रलयं यांति नियमादनुतिष्ठतः ॥३२॥
द्वयोश्च निष्कृतिर्नास्ति पापपुंजकृतोस्तयोः
मत्या गोवधकर्तुश्च नारायणविनिंदितुः ॥३३॥
गवां यो मनसा दुःखं वांच्छत्यधमसत्तमः
स याति निरयस्थानं यावदिंद्राश्चतुर्दश ॥३४॥
योऽपि देवं हरिं निंदेत्सकृद्दुर्भाग्यवान्नरः
स चापि नरकं पश्येत्पुत्रपौत्रपरीवृतः ॥३५॥
तस्माज्ज्ञात्वा हरिं निंदन्गोषु दुःखं समाचरन्
कदापि नरकान्मुक्तिं न प्राप्नोति नरेश्वर ॥३६॥
अज्ञानप्राप्तगोहत्या प्रायश्चित्तं तु विद्यते
रामभक्तं तु धीमंतं याहि त्वमृतुपर्णकम् ॥३७॥
स वै समदृशः सर्वाञ्छत्रून्मित्राणि पश्यति
तुभ्यं कथिष्यति क्षिप्रं गोवधस्यास्य निष्कृतिम् ॥३८॥
तस्य देशांस्त्वमाक्रामंस्तेन निर्वासितः पुरा
वैरिभावं परित्यज्य गच्छ त्वमृतुपर्णकम् ॥३९॥
स यद्वदिष्यति क्षिप्रं तत्कुरुष्व समाहितः
यथा त्वत्कृतपापस्य निष्कृतिर्हि भविष्यति ॥४०॥
स तु तद्वचनं श्रुत्वा जगाम ऋतुपर्णकम्
रामभक्तं रिपौ मित्रे समदृष्ट्या समंजसम् ॥४१॥
स तस्मै कथयामास यज्जातं गोवधादिकम्
तस्य पापस्य निष्कृत्यै ह्युपायं सोऽप्यचिंतयत् ॥४२॥
क्षणं ध्यात्वाथ तं राजा ऋतुपर्ण ऋतंभरम्
उवाच प्रहसन्वाक्यं बुद्धिमान्धर्मकोविदः ॥४३॥
कोऽहं राजन्मुनीनां वै पुरतः शास्त्रवेदिनाम्
तान्हित्वा किं तु मां प्राप्तो मूर्खंपंडितमानिनम् ॥४४॥
तव मय्यस्ति चेच्छ्रद्धा तदा किंचिद्ब्रवीम्यहम्
शृणुष्व नरशार्दूल गदितं मम सादरः ॥४५॥
भज श्रीरघुनाथं त्वं कर्मणा मनसा गिरा
नैष्कापट्येन लोकेशं तोषयस्व महामते ॥४६॥
स तुष्टो दास्यते सर्वं त्वद्धृदिस्थं मनोरथम्
अज्ञानकृत गोहत्यापापनाशं करिष्यति ॥४७॥
रामं स्मरंस्त्वं धर्मात्मन्धेनुं पालय सत्तम
दत्त्वा द्विजाय कनकं पापनिष्कृतिमाप्स्यसि ॥४८॥
सुमतिरुवाच
एतच्छ्रुत्वा तु तद्वाक्यमृतंभरनृपस्तदा
विधाय रामस्मरणं पूतात्मा व्रतमाचरत् ॥४९॥
पूर्ववत्पालयन्धेनुं जगाम विपिनं महत्
रामनामस्मरन्नित्यं सर्वभूतहिते रतः ॥५०॥
तस्मै तुष्टा तु सुरभिः प्रोवाच परितोषिता
राजन्वरय मत्तो वै वरं हृत्स्थं मनोरथम् ॥५१॥
तदा प्रोवाच वै राजा पुत्रं देहि मनोरमम्
रामभक्तं पितृरतं स्वधर्मप्रतिपालकम् ॥५२॥
तुष्टा दत्त्वा वरं सापि तस्मै राज्ञे सुतार्थिने
जगामादर्शनं देवी कामधेनुः कृपावती ॥५३॥
स काले प्राप्तवान्पुत्रं वैष्णवं रामसेवकम्
सत्यवत्संज्ञयायुक्तमकरोत्तत्र तत्पिता ॥५४॥
सत्यवंतं सुतं लब्ध्वा पितृभक्तिपरं महान्
परमं हर्षमापेदे शक्रतुल्यपराक्रमम् ॥५५॥
स राजा धार्मिकं पुत्रं प्राप्य हर्षेणनिर्भरः
राज्यं तस्मिन्महन्न्यस्य जगाम तपसे वनम् ॥५६॥
तत्राराध्य हृषीकेशं भक्तियुक्तेन चेतसा
निर्धूतपापः सतनुरगाद्धरिपदं नृपः ॥५७॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे सत्यवदा-
ख्याने धेनुव्रतवर्णनंनाम एकत्रिंशोऽध्यायः ॥३१॥

N/A

References : N/A
Last Updated : November 04, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP